TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २१८

आचारकाण्डः - अध्यायः २१८

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः २१८
ब्रह्मोवाच ।
व्यास ! श्राद्धमहं वक्ष्ये भुक्तिमुक्तिप्रदं नृणाम् ।
पूर्वं निमन्त्रयेद्विप्रान्विशेषाद्ब्रह्मचारिणः ॥१॥

प्रदक्षिणोपवीतेन देवान्वामोपवीतिना ।
पितॄन्निमन्त्रयेत्पादौ क्षालयेद्वाक्यमन्त्रतः ॥२॥

ओं स्वागतं भवद्भिरिति प्रश्रः ।
ओं सुस्वागतामिति तैरुक्ते ओं विश्वेभ्यो देवेभ्य एतत्पादोदकमर्घ्यं स्वाहेति देवब्राह्मणपादयोर्देवतीर्थेनाभुग्नकुशसहितजलदानम् ॥३॥

ततो दक्षिणा भिमुखेन वामोपवीतेनामुकगोत्रेभ्यो अस्मत्पितृपितामहप्रपितामहेभ्यो यथानामशर्मभ्य एतत्पादोदकमर्घ्यं स्वधेति पित्रादिब्राह्मणपादयोः पितृतीर्थेन आभुग्नकुशकुसुमसहितजलदानम् ॥४॥

एवं मातामहादिभ्यः ।
एतदाचमनीयं स्वाहा स्वधेति ब्राह्मणहस्ते एषवोर्ऽघ्य इति ब्राह्मणहस्ते पुष्पदानम् ॥५॥

ओं सिद्धमिदमासनमिह सिद्धमित्यभिधाय ओं भूः ओं भुवः ओं स्वः ओं महः ओं जनः ओं तपः ओं सत्यमिति सप्तव्याहृतिभिः पूर्वमुखन्देवब्राह्मणोपवेशनम् ।
उत्तरदिङ्मुखंपितृब्राह्मयोणोपवेशनम् ।
ओं देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वधायै स्वाहायै नित्यमेव भवन्तुते इति त्रिर्जपेत् ॥६॥

ओं अद्यास्मिन्देशे अमुकमासे अमुकराशिङ्गते सवितर्यमुकतिथावमुकगोत्राणामस्मत्पितृपितामहप्रपितामहानां यथानामशर्मणां विश्वेदेवपूर्वकन्दृश्राद्धं करिष्ये । ओं विश्वेभ्यो देवभ्यः स्वाहा ओं विश्वेदेवानावाहयिष्ये ।
आवाहयेत्युक्ते ओं विश्वेदेवाः स आगत शृणुतामिमं हवम् ।
एदं बर्हिर्निषीदत ओं विश्वेदेवाः शृणुतेमं इवं मे ये अन्तरिक्षे य उपद्यविष्ट ।
ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन्बर्हिषि मादयध्वम् ।
ओं ओषधयः संवदन्ते सोमेन सह राज्ञा ।
यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि ।
ओं आगच्छन्तु महाभागा विश्वेदेवा महाबलाः ।
ये अत्र विहिताः श्राद्धे सावधाना भवन्तु ते ।
ओं अपहतासुरा रक्षांसि वेदिषद इति त्रित्रिर्यवविकिरणम् ॥७॥

ओं पात्रमहं करिष्ये ।
ओं करुष्वेत्यनुज्ञातः कृत्वा पात्रे पवित्रनिषेवणम् ॥८॥

ओं शन्नो देवीरभिष्टय आपो भवन्तु पीतये ।
शंयोरभिस्त्रवन्तु न इति पात्रे जलदानम् ।
ओं यवोऽसि यवयास्मद्वेषो यवयारातीरिति यवदानम् ।
गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां ता (त्वा) मिहोपह्वये श्रियमिति गन्धदानम् ।
ओं या दिव्या आपः पयसा संबभूवुर्या अन्तरिक्षौत पार्थवीर्याः ।
हिरण्यवर्णा यज्ञियास्तान आपः शिवाः शं स्योना सुहवा भवन्तु ।
एषोर्ऽघो नम इति ब्राह्मणहस्ते जलं दत्त्वानेनैव पात्रेण पवित्रग्रहणं कृत्वा संस्त्रवं पवित्रं च ब्राह्मणपार्श्वे दद्यात् ।
ततः प्रथमपात्रे संस्त्रवजलं संस्थाप्य कुशोपरि ऊर्ध्वमुखं स्थापनं कुर्यत् ।
तदुपरि कुशदानम् ॥९॥

विश्वेभ्यो देवेभ्यः एतानि गन्धपुष्पधूपदीपवासो युगयज्ञो पवीतानि नमः ।
गन्धादिदानमच्छिद्रमस्तु ।
अस्त्विति ब्राह्मणप्रतिवचनम् ॥१०॥

ततः पितृपितामहप्रपितामहानां मातामहप्रमातामहवृद्धप्रमातामहानां सपत्नीकानां श्राद्धमहं करिष्ये इति अनुज्ञावचनम् ।
कुरुष्वेति ब्राह्मणैरुक्ते ।
ओं देवताभ्यः पितृभ्यश्च इतित्रिर्जपेत् ॥११॥

ओं अमुकगोत्रेब्योऽस्मत्पितृपितामहेभ्यो यथानामशर्मभ्यः सपत्नीकेभ्यः इदमासनं स्वधा इति ब्राह्मणवामे आसनदानम् ।
ओं पितॄनावाहयिष्ये ।
ओं ।
आवाहयेत्युक्ते ओं उशन्तस्त्वा निधीमह्युशन्तः समिधीमहि ।
उशन्नु शत आवह पितॄन्हविषे उत्तवे ।
ओं आयन्तु नः पितरः सौम्यासोऽग्निष्वात्ताः पथिभिर्देवयानैः ।
अस्मिन्यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु तेवन्त्वस्मानित्यावाहनम् ।
ओं अपहता सुरा रक्षांसि वेदिषदः इति तिलविकिरणम् ।
पूर्ववक्त्रमेण स्थापितपात्रेषूदकदानम् ।
ओं तिलोऽसि सोमदेवत्यो गोसवो देवनिर्मितः ।
प्रत्नमद्भिः पृक्तः स्वधया पितॄंल्लोकान्प्रीणीहि नः स्वाहा इति तिलदानम् ॥१२॥

गन्धपुष्पे हस्ताभ्यां दत्त्वा पितृपात्रमुत्थाप्य या दिव्येति पठित्वा अमुकगोत्रास्मत्पितः ! अमुकदेवशर्मन् ! सपत्नीक ! एष तेऽर्घ्यः स्वधा ।
अपवित्रं पात्रं गृहीत्वा वामपार्श्वे दक्षिणे कुशोपरि ओं पितृभ्यः स्थानमसीत्यधोमुखपात्रस्थापनम् ॥१३॥

ओं शुन्धन्तां लोकाः पितृसदनाः पितृसदनमसि ।
अधोमुखपात्त्रस्पर्शनम् ।
अमुकगोत्रेभ्योऽस्मत्पितृपितामह प्रपितामहेभ्यः सपत्नीकेभ्य एतानि गन्धपुष्पधूपदीपवासोगुणसोत्तरीययज्ञोपवीतानि वः स्वधा पितृतीर्थेन गन्धादिदानम् ।
गन्धादिदानमक्षय्यमस्तु ।
संकल्पसिद्धिरस्तु ।
ब्राह्मणवचनम् ।
एवं मातामहादीनामनुज्ञापनादिकर्म ।
ओं यादिव्येतिभूमिसंमार्जनम् ।
ततो घृताक्तमन्नं गृहीत्वा दक्षिणोपवीती पितृब्राह्मणमों अग्नौ करणमहं करिष्ये ।
ओं कुरुष्वेति तेनोक्ते ओं अग्नये कव्यवाहनाय स्वाहा इति आहुतिद्वयं देवब्राह्मणहस्ते दत्त्वा अवशिष्टान्नं पिण्डार्थं स्थापयित्वा अपरमर्धं पित्रादिपात्रे मातामहादिपात्रे च निः क्षिपेत् ॥१४॥

पात्रमुद्रादि निधाय कुशं दत्त्वा अधोमुखाभ्यां पाणिभ्यां पात्रं गृहीत्वा ओं पृथिवीते पात्रं द्यौरपिधानं ब्राह्मणस्य मुखे अमृते अमृतं जुहोमि स्वाहा पात्राभिमन्त्रणम् ।
इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।
समूढमस्य पांसुरे ।
विष्णो हव्यंरक्षस्व इत्यन्नमध्ये अधोमुखद्विजाङ्गुष्ठनिवेशनम् ॥१५॥

अपहतेति त्रिर्यवविकिरणम् ।
ओं निहन्मि सर्वं यदमेध्यवद्भवेद्धताश्च सर्वेऽसुरदानवा मया ।
रक्षांसि यक्षाः सपिशाचसङ्घा हता मया यातुधानाश्च सर्वे इति सिद्धार्थविकिरणम् ॥१६॥

ततो धूरिलोचनसंज्ञकेभ्योदवेभ्य एतदन्नं सघृतं सपानीयं सव्यञ्जनं स्वाहेति वारिकुशाद्यैरनुसङ्कल्पनम् ।
ओं अन्नमिदमक्षय्यमस्तु ओं संङ्कल्पसिद्धिरस्तु ॥१७॥

ततो विपरीतोपवीतेन सव्यञ्जनं सघृतमन्नं पित्रादि ब्राह्मणपात्रे निधाय तदुपरि भूमिसंलग्नकुशं दत्त्वा ओं पृथिवी ते पात्रं इति मन्त्रेण उत्तानाभ्यां पात्रं गृहीत्वा ओं इदं विष्णोरित्यन्नोपरि उत्तानं द्विजाङ्गुष्ठं निवेशयेत् ।
ओं अपहतेति तिलविकिरणम् ।
भूमिपातितवामजानुः अमुकगोत्रेभ्यः अस्मत्पितृपितामहेभ्यः सपत्नीकेभ्यः एतदन्नं सघृतं सपानीयं सव्यञ्जनं प्रतिषिद्धवर्जितं स्वधा ।
अन्नं सङ्कल्प्य ओं ऊर्जं वहन्तीरमृतं घृत पयः कीलालं परिस्त्रुतं स्वधास्तु तर्पयत मे पितरम् ।
दक्षिणामुखवरिधारत्यागः ॥१८॥

ओं श्राद्धमिदमच्छिद्रमस्तु ओं सङ्कल्पसिद्धरस्तु ।
ओं भूर्भुवः स्वस्तत्सवितुर्वरेण्यं भर्गोदेवस्य धीमहि धियो यो नः प्रचोदयातिति विसजयित्वा ओं मधुवाता ऋतायते मधुक्षरन्तु सिन्धवः माध्वीर्नः सन्त्वोषधीर्मधुनक्तमुतोषसो मधुत्पार्थिवं रजः ।
मधुद्यौरस्तु नः पिता मधुमान्नो वनस्पतिः मधुमानस्तु सूर्यो माध्वीर्गावो भवन्तु नः ।
मधु मधु मधु इति जपः ॥१९॥

यथासुखं वाग्यता जुषध्वमिति ब्रूयात् ।
बुक्तवत्सु सप्तव्याधादिकं पितृस्तोत्रं जपेत् ।
तच्चसप्तव्याधा दशार्णेषु मृगाः कालञ्जरे गिरौ ।
चक्रवाकाः शराद्वीपे हंसाः सरसि मानसे ॥२०॥

तेऽभिजाताः कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।
प्रस्थिता दूरमध्वानं यूयं किमवसीदथ ॥२१॥

ततस्तृप्यस्व दक्षिणाभिमुखो वामोपवीती तदुत्सृष्टाग्रतः ।
ओं अग्निदग्धाश्च ये जीवा येऽप्यदग्धाः कुले मम ।
भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु पराङ्गतिम् ।
इति भूमौ कुशोपरि सघृतमन्नं जलप्लुतं विकिरेत् ॥२२॥

ततो ब्राह्मणक्रमेण जलगण्डूषं दत्त्वा पूर्ववत्सव्याहृतिकां गायत्त्रीं मधुवातेतित्र्यृचं जप्त्वा ओं रुचितं भवद्भिरिति देवब्राह्मणप्रश्रः ।
सुरुचितमिति तेनोक्ते ओं शेषमन्नमिति प्रश्रः ।
इष्टैः सह भोजनम् ।
पित्रादिब्राह्मणं वामोपवीतेन ओं तृप्ताः स्थ इति प्रश्रः ।
ओं तृप्ताः स्म इति तेनोक्ते भूम्यभ्युक्षणं मण्डलचतुष्कोणं ति लविकिरणम् ॥२३॥

ओं अमुकगोत्र ! अस्मत्पितः ! अमुकदेवदर्शन् ! सपत्नीक ! एतत्ते पिण्डासनं स्वधा ।
इत्थं रेखामध्ये पितामहाय खव्याहृतिकां गायत्त्रीं मधुवातेति त्रर्जपन्नन्नं साज्यं पिण्डं कृत्वा कुशोपरि अमुकगोत्र अस्मत्पितः ! अमुकदेवश्रमन् ! सपत्नीक एष पिण्डस्ते स्वधा ।
इत्थं रेखामध्ये पितामहाय ।
ततः सव्याहृतिकां गायत्त्रीं मधुवातेति त्रिर्जंपन्पिण्डविकिरणं पिण्डान्तिके ।
ओं लेपभुजः प्रीयन्तमिति स्तरण्कुशेषु हस्तमार्जनं प्रक्षालितपिण्डोदकेन ओं अमुकगोत्र ! अस्मत्पितः ! अमुकशर्मन् सपत्नीक एतत्ते जलमवनेक्ष्व ये चात्रत्वामनुजाश्च त्वामनु तस्मै तेस्वधेति पितृपिण्डसेचनम् ।
पिण्डपात्रमधोमुखं कृत्वा बद्धाञ्जलिः ओं पितरो मादयध्वं यथाभागमावृषायध्वमिति जपेत् ।
अपः स्पृष्ट्वा वामेन परावृत्त्य उदङ्मुखः प्राणांस्त्रिः संयम्य षड्भ्य ऋतुभ्यो नमः इति जपः ॥२४॥

वामेनैव परावृत्य पुष्पदानम् ।
अक्षतञ्चारिष्टञ्चास्तु मे पुण्यं शान्तिपुष्टिदृ ।
दक्षिणामुखः अमी मदन्तः पितरो यथाभागमावृषायिषत इति जपः ।
वासः शिथिलीकृत्वाञ्जलिं कृत्वा ओं नमो वः पितरो नमो वः इति जपः ।
गृहान्नः पितरो दत्त इति गृहवीक्षणम् ।
ततः सदा वः पितरो द्वेष्म इति वीक्ष्य एतद्वः पितरो वास इत्युच्चार्य अमुकगोत्र एतत्ते वासः स्वधा इति सूत्रदानम् ।
वामेन पाणिना उदकपात्रं गृहीत्वा ऊर्जं वहन्तीरमृतं घृतं पयः इत्यादि पिण्डोपरि धारात्यागः ॥२५॥

पूर्वस्थापितपात्रशेषोदकैः प्रत्येकं पिण्डसेचनंपिण्डमावाह्य गन्धादिदानंपिण्डोपरि कुशपत्रञ्च दत्त्वा ओं अक्षन्नमीमदन्तह्य व प्रिया अधूषत अस्तोषतस्वभानवो विप्रा नविष्ठयामती ।
यो जान्विन्द्र ते हरीति त्रिर्जपः ॥२६॥

ओं इत्थं मातामहादिब्राह्मणानामाचमनम् ।
ओं सुसुप्रोक्षितमस्त्विति भूम्यभ्युक्षणं कृत्वा ।
ओं अपां मध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम् ।
ब्राह्मणस्य करे न्यस्ताः शिवा आपो भवन्तु नः ।
शिवा आपः सन्त्विति ब्राह्मणहस्ते जलदानम् ।
लक्ष्मीर्वसतिपुष्पेषु लक्ष्मीर्वसति पुष्करे ।
लक्ष्मीर्वसति गोष्ठेषु सौमनस्यं सदास्तु ते ।
सौमनस्यमस्त्विति पुष्पदानम् ।
अक्षतं चास्तु मे पुण्यं शान्तिः पुष्टिर्धृतिश्च मे ।
यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम ।
ओं अक्षतञ्चारिष्टञ्चास्तु इति यवतण्डुलदानम् ॥२७॥

अमुकगोत्राणामस्मत्पितृपितामहप्रपितामहानां सपत्नीकानामिदमन्नपानादिकमक्षय्यमस्त्विति पित्रादिब्राह्मणहस्ते तिलजलदानम् ।
अस्त्विति ब्राह्मणो वदेत् ।
एतन्मातामहादीनामक्षय्यमाशिषः ।
ओं अघोराः पितरः सन्तु गोत्रं नो वर्धतांदातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ।
श्रद्धा च नो मा व्यगमद्बहुदेयञ्च नोऽस्त्विति ।
अन्नञ्च नो बहु भवेदतिथींश्च लभेमहि ।
याचितारश्च नः सन्तु मा च याचिष्म कञ्चन ।
एताः सत्याशिषः सन्तु ॥२८॥

सौमनस्यमस्तु ।
अस्त्वित्युक्ते प्रदत्तपिण्डस्थाने अर्घ्यार्थपवित्रमोचनम् ।
कुशपवित्रं गृहीत्वातेन कुशेन पित्रादिब्राह्मणं स्पृष्ट्वा स्वधां वाचयिष्येओं वाच्यतांों पितृपितामहेभ्यो यथानामशर्मभ्यः सपत्नीकेभ्यः स्वधोच्यताम् ।
अस्तुस्वधा इत्युक्ते ऊर्जं वहन्तीरमृतं घृतमिति पिण्डोपरि वारिधारां दद्यात् ॥२९॥

ततः ओं विश्वेदेवा अस्मिन्यज्ञे प्रीयन्तादेवब्राह्मणहस्ते यवोदकदानम् ।
ओं प्रीयन्तामिति तेनोक्ते ओं देवताभ्य इति त्रिर्जपेत् ॥३०॥

अधोमुखः पिण्डपात्राणि चालयित्वा आचम्य दक्षिणोपवीती पूर्वाभिमुखः ओं अमुकगोत्राय अमुकदेवशर्मणे ब्राह्मणाय सपत्नीकाय श्राद्धप्रतिष्ठार्थदक्षिणामेतद्रजतं तुभ्यमहं सम्प्रददे इति दक्षिणां दद्यात् ।
इति देवूब्राह्मणाय दक्षिणादानम् ॥३१॥

ततः पितृब्राह्मणे पिण्डाः सम्पन्ना इति प्रश्रः ।
सुसम्पन्ना इति पिण्डे क्षीरधारां दत्त्वा पिण्डचालनं अतिथिब्राह्मणे पिण्डपात्रमुत्तानं कृत्वा ओं वाजे वाजे वत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः ।
अस्यमध्वः पिबत मादयध्वं तृप्ता यात पथिभिर्देवयानैरिति पिण्डा दिविसर्जनंामावाजस्य प्रसवो जगम्यादेमे द्यावापृथिवी विश्वरूपे आमागन्तां पितरा चामा सोमोऽमृतत्वेन गम्यात् ।
इति देवविसर्जनम् ।
ओं अभिगम्यतामिति पितृब्राह्मणविसर्जनम् ।
ब्राह्मणैरनुद्गतस्य निवर्तनम् ।
गवादिषु पिण्डप्रतिपादनमिति शेषः ॥३२॥

अयं श्राद्धविधिः प्रोक्तः पठितः पापनाशनः ।
अनेन विधिना श्राद्धं कृतं वै यत्र कुत्रचित् ॥३३॥

अक्षया स्यात्पितॄणाञ्च स्वर्गप्राप्तिर्ध्रुवा तथा ।
इत्युक्तं पार्वणं श्राद्धं पितॄणां ब्रह्मलोकदम् ॥३४॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पार्वणश्राद्धकथनं नामाष्ट्रदशाधिकद्विशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:12.0530000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

expectoration

  • पु. कफ 
  • निष्ठीवन (न.) (कफ बाहेर टाकणे)ए 
RANDOM WORD

Did you know?

कोणती वस्तु खाण्यातून वर्ज्य अथवा तिचा त्याग केल्याने काय पुण्य किंवा फळ मिळते?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site