TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २३०

आचारकाण्डः - अध्यायः २३०

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः २३०
सूत उवाच ।
आलोक्य सर्वशास्त्राणि विचार्य च पुनः पुनः ।
इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥१॥

किं तस्य दानैः किन्तीर्थैः किं तपोभिः किमध्वरैः ।
यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥२॥

षष्टिस्तीर्थसहस्राणि षष्टिस्तीर्थशतानि च ।
नारायणप्रणामस्य कलां नार्हन्ति षोडशीम् ॥३॥

प्रयश्चित्तान्यशेषाणि तपः कर्माणि यानि वै ।
विद्धि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥४॥

कृतपापेऽनुरक्तिश्च यस्य पुंसः प्रजायते ।
प्रायश्चित्तन्तु तस्यैकं हरेः संस्मरणं परम् ॥५॥

मुहूर्तमपि यो ध्यायेन्नारायणमतन्द्रितः ।
सोऽपि स्वर्गतिमाप्नोति किं पुनस्तत्परायणः ॥६॥

जाग्रत्स्वप्नसुषुप्तेषु योगस्थस्य च योगिनः ।
या काचिन्मनसो वृत्तिः सा भवत्यच्युताश्रयात् ॥७॥

उत्तिष्ठन्निपतन्विष्णुं प्रलपन्विविशंस्तथा ।
भुञ्जञ्जाग्रच्च गोविन्दं माधवं यश्च संस्मरेत् ॥८॥

स्वेस्वे कर्मण्यभिरतः कुर्याच्चित्तं जनार्दने ।
एषा शास्त्रानुसारोक्तिः किमन्यैर्बहुभाषितैः ॥९॥

ध्यानमेव परो धर्मो ध्यानमेव परं तपः ।
ध्यानमेव परं शौचं तस्माद्ध्यानपरो भवेत् ॥१०॥

नास्ति विष्णोः परं ध्थेयं तपो नानशनात्परम् ।
तस्मात्प्रधानमत्रोक्तं वासुदेवस्य चिन्तनम् ॥११॥

यद्दुर्लभं परं प्राप्यं मनसो यन्न गोचरम् ।
तदप्यप्रार्थितं ध्यातो ददाति मधुसूदनः ॥१२॥

प्रमादात्कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् ।
स्मरणादेव तद्विष्णोः संपूर्णं स्यादिति श्रुतिः ॥१३॥

ध्यानेन सदृशो नास्ति शोधनं पापकर्मणाम् ।
आगामिदेहहेतूनां दाहको योगपावकः ॥१४॥

विनिष्पन्नसमाधिस्तु मुक्तिमत्रैव जन्मनि ।
प्राप्नोति योगी योगाग्निदग्धकर्मा च योऽचिरात् ॥१५॥

यथाग्निरुद्यतशिखः कक्षं दहति वानिलः ।
तथा चित्तस्थिते विष्णौ योगिना सर्वकिल्बिषम् ॥१६॥

यथाग्नियोगात्कनकममलं संप्रजायते ।
संप्लुष्टो वासुदेवेन मनुष्याणां सदा मलः ॥१७॥

गङ्गास्नानसहस्रेषु पुष्करस्नानकोटिषु ।
यत्पापं निलययाति स्मृते नश्यति तद्धरौ ॥१८॥

प्राणायामसहस्नैस्तु यत्पापं नश्यति ध्रुवम् ।
क्षणमात्रेण तत्पापं हरेर्ध्यानात्प्रणश्यति ॥१९॥

कलिप्रभावाद्दुष्टोक्तिः पाषण्डानां तथोक्तयः ।
न क्रामेन्मानसं तस्य यस्य चेतसि केशवः ॥२०॥

सा तिथिस्तदहोरात्रं स योगः स च चन्द्रमाः ।
लग्नं तदेव विख्यातं यत्र संस्मर्यते हरिः ॥२१॥

सा हानिस्तन्महच्छिद्रं सा चार्थजडमूकता ।
चन्मुहूर्तं क्षणो वापि वासुदेवो न चिन्त्यते ॥२२॥

कलौ कृत युगं तस्य कलिस्तस्य कृते युगे ।
हृदि नो यस्य गोविन्दो यस्य चेतसि नाच्युतः ॥२३॥

यस्याग्रतस्तथा पृष्ठे गच्छतस्तिष्ठतोऽपि वा ।
गोविन्दे नियतं चेतः कृतकृत्यः सदैव सः ॥२४॥

वासुदेवे मनो यस्य जपहोमार्चनादिषु ।
तस्यान्तरायो मैत्रेय वेवेन्द्रत्वादिकं फलम् ॥२५॥

असंत्यज्य च गार्हस्थयं स तप्त्वा च महत्तपः ।
छिनत्ति पौरुषीं मायां केशवार्पितमानसः ॥२६॥

क्षमां कुर्वन्ति क्रुद्धेषु दयां मूर्खेषु मानवाः ।
मुदञ्च धर्मशीलेषु गोविन्दे हृदयस्थिते ॥२७॥

ध्यायेन्नारायणं देवं स्नानदानादिकर्मसु ।
प्रायश्चितेतेषु सर्वेषु दुष्कृतेषु विशेषतः ॥२८॥

लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥२९॥

कीटपक्षिगणानाञ्च हरौ संन्यस्तचेतसाम् ।
ऊर्ध्वा ह्येव गतिश्चास्ति किं पुनर्ज्ञानिनां नृणाम् ॥३०॥

वासुदेवतरुच्छाया नातिशीतातितापदा ।
नरकद्वारशमनी सा किमर्थं न सेव्यते ॥३१॥

न च दुर्वाससः शापो राज्यञ्चापि शचीपतेः ।
हन्तुं समर्थं हि सखे हृत्कृते मधुसूदने ॥३२॥

वदतस्तिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः ।
नापयाति यदा चिन्ता सिद्धां मन्येत धारणाम् ॥३३॥

ध्येयः सदा सवितृमण्डलमध्यवर्तो नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान्मकरकुण्डलवान्किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥३४॥

न हि ध्यानेन सदृशं पवित्रमिह विद्यते ।
श्वपचान्नानि भुञ्जानो पापी नैवात्र लिप्यते ॥३५॥

सदा चित्तं समासक्तं जन्तोर्विषयगोचरे ।
यदि नारायणेऽप्येवं को न मुच्येत बन्धनात् ॥३६॥

सूत उवाच ।
विष्णुभक्तिर्यस्य चित्ते कं वा जीवो नमेत्सदा ।
स तारयति चात्मानं तदैव दुरितार्णवात् ॥३७॥

तञ्ज्ञानं यत्र गोविन्दः सा कथा यत्र काशवः ।
तत्कर्म यत्तदर्थाय किमन्यैर्बहुभाषितैः ॥३८॥

सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पितम् ।
तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ ॥३९॥

प्रणाममीशस्य शिरः फलं विदुस्तदर्चनं पाणिफलं दिवौकसः ।
मनः फलं तद्गुणकर्मचिन्तनं वचस्तु गोविन्दगुणस्तुतिः फलम् ॥४०॥

मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्मणः ।
केशवस्मरणादेव तस्य सर्वं विनश्यति ॥४१॥

यत्किञ्चित्कुरुते कर्म पुरुषः साध्वसाधु वा ।
सर्वं नारायणे न्यस्य कुर्वन्नपि न लिम्पति ॥४२॥

तृणादिचतुरास्यान्तं भूतग्रामं चतुर्विधम् ।
चराचरं जगत्सर्वं प्रसुप्तं मायया तव ॥४३॥

यस्मिन्न्यस्तमतिर्न याति नरकं स्वर्गोऽपि यच्चिन्तने विघ्नो यत्र नवा विशेत्कथमपि ब्राह्मोऽपिलोकोऽल्पकः ।
मुक्तिञ्चेतसि संस्थितो जडधियां पुंसां ददात्यव्ययः किञ्चित्रं यदयं प्रयाति विलयं तत्राच्युते कीर्तिते ॥४४॥

अग्निकार्यं जपः स्नानं विष्णोर्ध्यानञ्च पूजनम् ।
गन्तुं दुः खोदधेः कुर्युर्ये च तत्र नरन्ति ते ॥४५॥

राष्ट्रस्य शरणं राजा पितरो बालकस्य च ।
धर्मश्च सर्वमर्त्यानां सर्वस्य शरणं हरिः ॥४६॥

ये नमन्ति जगद्योनिं वासुदेवं सनातनम् ।
न येभ्यो विद्यते तीर्थमधिकं मुनिसत्तम् ॥४७॥

अनर्घरत्नपूजाञ्च कुर्यात्स्वाध्यायमेव च ।
तमेवोद्दिश्य गोविन्दं ध्यायन्नित्यमतन्द्रितः ॥४८॥

शूद्रं वा भगवद्भक्तं निषादं श्वपचं तथा ।
द्विजजाति समंमन्यो न याति नरकं नरः ॥४९॥

आदरेण सदा स्तौति धनवन्तं धनेच्छया ।
तथा विश्वस्य कर्तारं को न मुच्येत बन्धनात् ॥५०॥

यथा प्राप्तवनो वह्निर्दहत्यार्द्रमपीन्धनम् ।
तथाविधः स्थितो विष्णुर्योगिनां सर्वकिल्विषम् ॥५१॥

आदीप्तं पर्वतं यद्वन्नाश्रयन्ति मृगादयः ।
तद्वत्पापनि सर्वाणि योगाभ्यासरतं नरम् ॥५२॥

यस्य यावांश्च विश्वासस्तस्य सिद्धिस्तु तावती ।
एतवानेव कृष्णस्य प्रभावः परिमीयते ॥५३॥

विद्वेषादपि गोविन्दं दमघोषात्मजः स्मरन् ।
शिशुपालो गतस्तत्त्वं किं पुनस्तत्परायणः ॥५४॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे विष्णुमहात्म्यवर्णनं नाम त्रिंशदुत्तरद्विशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:12.7230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

non-variant

  • अचल 
  • अचल 
RANDOM WORD

Did you know?

मृत माणसाचा पिंड भाताचा कां करतात?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site