TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः ७०

आचारकाण्डः - अध्यायः ७०

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः ७०
॥सूत उवाच ॥
दिवाकरस्तस्य महामहिम्नो महासुरस्योत्तमरत्नबीजम् ॥
असृग्गृहीत्वा चरितुं प्रतस्थे निस्त्रिंशनीलेन नभः स्थलेन ॥१॥

जेत्त्रा सुराणां समरेष्वजस्रं वीर्य्यावलेपोद्धतमानसेन ॥
लङ्काधिपेनार्द्धपथे समेत्य स्वर्भानुनेव प्रसभं निरुद्धः ॥२॥

तत्सिंहलीचारुनितम्बबिम्बविक्षो भितागाधमहाह्रदायाम् ॥
पूगद्रुमाबद्धतटद्वयायां मुमोच सूर्य्यः सरिदुत्तमायाम् ॥३॥

ततः प्रभृति सा गङ्गा तुल्यपुण्यफलोदया ॥
नाम्ना रावणगङ्गेति प्रथिमानमुपागता ॥४॥

ततः प्रभृत्येव च शर्वरीषु कूलानि रत्नैर्निचितानि तस्याः ॥
सुवर्णनाराचशतैरिवान्तर्बहिः प्रदीप्तैर्निशितानि भान्ति ॥५॥

तस्यास्तटेपूज्ज्वचारुरागा भवन्ति तोयेषु च पद्मरागाः ॥
सौगन्धिकोत्थाः कुरुविन्दजाश्च महागुणाः स्फाटिकसंप्रसूताः ॥६॥

बन्धू कगुंजासकलेन्द्रगोपजवासमासृक्समवर्णशोभाः ॥
भ्राजिष्णवो दाडिमबीजवर्णास्तथापरे किशुकपुष्पभासः ॥७॥

सिन्दुरपद्मोत्पलकुंकुमानां लाक्षारसस्यापि समानवर्णः ॥
सांद्रेऽपि रागे प्रभया स्वयैव भान्ति स्वलक्ष्याः स्फुटमध्यशोभाः ॥८॥

भानोश्च भासामनुवेधयोगामासाद्य रशमि प्रकरेण दूरम् ॥
पार्श्वानि सर्वाण्यनुरञ्जयन्ति गुणापपन्नाः स्फटिकप्रसूताः ॥९॥

कुसुम्भनीलव्यतिमिश्ररागप्रत्युग्ररक्ताबुजतुल्यभासः ॥
तथापरेऽरुष्करकण्टकारिपुष्पत्विषो हिङ्गुलवत्त्विषोऽन्ये ॥१०॥

चकोरपुंस्कोकिलसारसानां नेत्रावभासश्च भवन्ति केचित् ॥
अन्ये पुनः सन्ति च पुष्पितानां तुल्यत्विषा कोकनदोत्तमानाम् ॥११॥

प्रभावकाठिन्यगुरुत्वयोगैः प्रायः समानाः स्फटिकोद्भवानाम् ॥
आनीलरक्तोत्पलचारुभासः सौगन्धिकोत्था मणयो भवन्ति ॥१२॥

कामं तु रागः कुरुविन्दजेषु स नैव यादृक् स्फटिकोद्भवेषु ॥
निरर्चिषोऽन्तर्बहुला भवन्ति प्रभाववन्तोऽपि नतैः समस्तैः ॥१३॥

ये तु रावणगङ्गायां जायन्ते कुरुविन्दकाः ॥
पद्मरागघनं रागं बिभ्राणाः स्फटिकार्चिषः ॥१४॥

वर्णानुयायिनस्तेषा मान्ध्रदेशे तथा परे ॥
न जायन्ते हि ये केचिन्मूल्यलेशमवाप्नुयुः ॥१५॥

तथैव स्फाटिकोत्थानां देशे तुम्बुरुसंज्ञके ॥
सधर्माणः प्रजायन्ते स्वल्पमूल्या हि ते स्मृताः ॥१६॥

वर्णाधिक्यं गुरुत्वं च स्निग्धता समताच्छता ॥
अर्चिष्मत्ता महत्ता च मणीनां गुणसंग्रहः ॥१७॥

ये कर्करच्छिद्रमलोपदिग्धाः प्रभाविमुक्ताः परुषा विवर्णाः ॥
न ते प्रशस्ता मणयो भवन्ति समानतो जातिगुणैः समस्तैः ॥१८॥

दोषोपसृष्टं मणिमप्रबोधाद्विभर्त्ति यः कश्चन कञ्चिदेव ॥
तं शोकचिन्तामयमृत्युवित्तनाशादयो दोषगणा भजंते ॥१९॥

कामं चारुतराः पंच जातीना प्रतिरूपकाः ॥
विजा तयः प्रयत्नेन विद्वांस्तनुपलक्षयेत् ॥२०॥

कलशपुरोद्भवसिंहलतुम्बुरुदेशोत्थमुक्तपाणीयाः ॥
श्रीपूर्णकाश्च सदृशा विजातयः पद्मरागाणाम् ॥२१॥

तुषोपसर्गात्कलशाभिधानमाताम्रभावादपि तुम्बुरूत्थम् ॥
कार्ष्ण्यात्तथा सिंहलदेशजातं मुक्ताभिधानं नभसः स्वभावात् ॥२२॥

श्रीपूर्णकं दीप्तिविनाकृतत्वाद्विजातिलिङ्गाश्रय एव भेदः ॥
यस्ताम्रिकां पुष्यति पद्मरागो योगात्तुषाणामिव पूर्णमध्यः ॥२३॥

स्नेहप्रदिग्धः प्रतिभाति यश्च यो वा प्रघृष्टः प्रजहाति दीप्तिम् ॥
आक्रान्तमूर्द्धा च तथाङ्गुलिभ्यां यः कालिकां पार्श्वगतां बिभर्त्ति ॥२४॥

संप्राप्य चोत्क्षिप्य यथानुवृत्तिं विभर्तियः सर्वगुणानतीव ॥
तुल्यप्रमाणस्य च तुल्यजातेर्यो वा गुरुत्वेन भवेत्तु तुल्यः ॥
प्राप्यापि रत्नाकरजा स्वजातिं लक्षेद्गुरुत्वेन गुणेन विद्वान् ॥२५॥

अप्रणश्यति सन्देहे शाणे तु परिलेखयेत् ॥
सु(स्व) जातकसमुत्थेन लिखित्वापि परस्परम् ॥२६॥

वज्रं वा कुरुविन्दं वा विमुच्यानेन केनचित् ॥
नाशक्यं लेखनं कर्त्तुं पद्मरागेन्द्रनीलयोः ॥२७॥

जात्यस्य सर्वेऽपि मणेर्न जातु विजातयः सन्ति समानवर्णाः ॥
तथापि नानाकरणार्थमेव भेदप्रकारः परमः प्रदिष्टः ॥२८॥

गुणोपपन्नेन सहावबद्धोमेणिर्न धार्यो विगुणो हि जात्या ॥
न कौस्तुभेनापि सहावबद्धं विद्वान्विजातिं बिभृयात्कदाचित् ॥२९॥

चाण्डाल एकोऽपि यथा द्विजातीन्समेत्य भूरीनपि हन्त्ययत्नात् ॥
अथो मणीन्भूरिगुणोपपन्नाञ्शक्रोति विप्लावयितुं विजात्यः ॥३०॥

सपत्नमध्येऽपि कृताधिवासं प्रमादवृत्तावपि वर्त्तमानम् ॥
न पद्मरागस्य महागुणस्य भर्त्तारमापत्स्पृशतीह काचित् ॥३१॥

दोषोपसर्गप्रभवाश्च ये ते नोपद्रवास्तं समभिद्रवन्ति ॥
गुणैः समुत्तेजितचारुरागं यः पद्मरागं प्रयतो बिभर्त्ति ॥३२॥

वज्रस्य यत्तण्डुलसंख्ययोक्तं मूल्यं समुत्पादितगौरवस्य ॥
तत्पद्मरागस्य महागुणस्य तन्माषकल्पाकलितस्य मूल्यम् ॥३३॥

वर्णदाप्त्यपपन्नं हि मणिरत्नं प्रशस्यते ॥
ताभ्यामीषदपि भ्रष्टं मणिमूल्यात्प्रहीयते ॥३४॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पद्मरागपरीक्षणं नाम सप्ततितमोऽध्यायः ॥७०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:02.6470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कमरक

  • न. एक झाड व त्यांचें आंबट फळ . कर्मर . कंबक ; कम्रक . - शे . ९ . २६२ ; ६ . २६१ . हें झाड फार मोठें होत नाहीं . पानें पातळ , रंग हिरवा , छाया थंड असते . फळें येतात त्याचें लोणचें करतात . फळास चार धारा असतात . ' सत्पाळें , ऊंसपुंडे , कविठ , कमरखे , वाळकें सुक्ष्म , थोरें . । ' - सारुह ३ . ४९ . ( सं . कर्मरंग , हिं . कमरख ) 
RANDOM WORD

Did you know?

घरातील देव्हारा पूर्व पश्चिम कां ठेवतात, इतर दिशा कां वर्ज्य?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site