TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १०९

आचारकाण्डः - अध्यायः १०९

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १०९
सूत उवाच ।
आपदर्थे धनं रक्षेद्दारान्रक्षेद्धनैरपि ।
आत्मानं सततं रक्षेद्दारैरपि धनैरपि ॥१॥

त्यजेदकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।
ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥२॥

वरं हि नरके वासो न तु दुश्चरिते गृहे ।
नरकात्क्षीयते पाप कुगृहान्न निवर्तते ॥३॥

चलत्येकेन पादेन तिष्ठत्येकेन बुद्धिमान् ।
न परीक्ष्य परं स्थानं पूर्वमायतनं त्यजेत् ॥४॥

त्यजेद्देशमसद्वृत्तं वासं सोपद्रवं त्यजेत् ।
त्यजेत्कृपणराजानं मित्रं मायामयं त्यजेत् ॥५॥

अर्थेन किं कृपणहस्तगतेन केन ज्ञानेन किं बहुशठाग्रहसंकुलेन ।
रूपेण किं गुणपराक्रमवर्जितेन मित्रेण किं व्यसनकालपराङ्मुखेन ॥६॥

अदृष्टपूर्वा बहवः सहायाः सर्वे पदस्थस्य भवन्ति मित्राः ।
अर्थैर्विहीनस्य पदच्युतस्य भवत्यकाले स्वजनोऽपि शत्रुः ॥७॥

आपत्सु मित्रं जानी याद्रणे शूरं रहः शुचिम् ।
मार्या च विभवे क्षीणे दुर्भिक्षे च प्रियातिथिम् ॥८॥

वृक्षं क्षीणफलं त्यजन्ति विहगाः शुष्कं सरः सारसानिर्द्रव्यं पुरुषं त्यजन्ति गणिका भ्रष्टं नृपं मन्त्रिणः ।
पुष्पं पर्युषितं त्यजन्ति मधुपाः दर्ग्ध वनान्तं मृगाः सर्वः कार्यवशाज्जनो हि रमते कस्यास्ति को वल्लभः ॥९॥

लुब्धमर्थप्रदानेन श्लाध्यमञ्जलिकर्मणा ।
मूर्खं छन्दानुवृत्त्या च याथातथ्येन पण्डितम् ॥१०॥

सद्भावेन हि तुष्यन्ति देवाः सत्पुरुषा द्विजाः ।
इतरेः खाद्यपानेन मानदानेन पण्डिताः ॥११॥

उत्तमं प्रणिपातेन शठं भेदेन योजयेत् ।
नीचं स्वल्पप्रदानेन समं तुल्यपराक्रमैः ॥१२॥

यस्ययस्य हि यो भावस्तस्यतस्य हितं वदन् ।
अनुप्रविश्य मेधावी क्षिप्रमात्मवशं नयेत् ॥१३॥

नदीनां च नखीनां च शृङ्गिणां शस्त्रपाणिनाम् ।
विश्वासो नैव गन्तव्यः स्त्रिषु राजकुलेषु च ॥१४॥

अर्थनाशं मनस्तापं गृहे दुश्चरितानि च ।
वञ्चनं चाप मानं च मतिमान्न प्रिकाशयेत् ॥१५॥

हीनदुर्जनसंसर्ग अत्यन्तविरहादरः ।
स्नेहोऽन्यगेहवासश्च नारीसच्छीलनाशनम् ॥१६॥

कस्य दोषः कुले नास्ति व्याधिना को पीडितः ।
केन न व्यसनं प्राप्तं श्रियः कस्य निरन्तराः ॥१७॥

कोर्ऽथं प्राप्य न गर्वितो भुवि नरः कस्यापदोनागताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः ।
कः कालस्य न गोचरान्तरगतः कोर्ऽथो गतो गौरवं को वा दुर्जनवागुरानिपतितः क्षेमेण यातः पुमान् ॥१८॥

सुहृत्स्वजनबन्धुर्न बुद्धिर्यस्य न चात्मनि ।
यस्मिन्कर्मणि सिद्धेऽपि न दृश्येत फलोदयः ।
विपत्तौ च महद्दुःखं तद्वुधः कथमाचरेत् ॥१९॥

यस्मिन्देशे न संमानं न प्रीतिर्न च बान्धवाः ।
न च विद्यागमः कश्चित्तं देशं परिवर्जयेत् ॥२०॥

धनस्य यस्य राजतो भयं न चास्ति चौरतः ।
मृतं च यन्न मुच्यते समर्जयस्व तद्धनम् ॥२१॥

यदर्जितं प्राणहरैः परिश्रमैर्मृतस्य तं वै विभजन्तिरिक्थिनः ।
कृतं च यद्दुष्कृतमर्थलिप्सया तदेव दोषोपहतस्य यौतुकम् ॥२२॥

सञ्चितं निहितं द्रव्यं परामृश्यं मुहुर्मुहुः ।
आखोरिव कदर्यस्य धनं दुः खाय केवलम् ॥२३॥

नग्ना व्यसनिनो रूक्षाः कपालाङ्कितपाणयः ।
दर्शयन्तीह लोकस्य अदातुः फलमीदृशम् ॥२४॥

शिक्षयन्ति च याचन्ते देहीति कृपणा जनाः ।
अवस्थेयमदानस्य मा भूदेवं भवानपि ॥२५॥

सञ्चितं क्रतुशतैर्न युज्यते याचितं गुणवते न दीयते ।
तत्कदर्यपरिरक्षितं धनं चोरपार्थिवगृहे प्रयुज्यते ॥२६॥

न देवेभ्यो न विप्रोभ्यो बन्धुभ्यो नैव चात्मने ।
कदर्यस्य धनं याति त्वग्नितस्करराजसु ॥२७॥

अतिक्लेशेन येऽप्यर्था धर्मस्यातिक्रमेण च ।
अरेर्वा प्रणिपातेन मा भूतस्ते कदाचन ॥२८॥

विद्याघातो ह्यनभ्यासः स्त्रीणां घातः कुचैलता ।
व्याधीनां भोजनं जीर्णं शत्रोर्घातः प्रपञ्चता ॥२९॥

तस्करस्य वधो दण्डः कुमित्रस्याल्पभाषणम् ।
पृथक्शय्या तु नारीणां ब्राह्मणस्यानिमन्त्रणम् ॥३०॥

दुर्जनाः शिल्पिनो दासा दुष्टाश्च पटहाः स्त्रियः ।
ताडिता मार्दवं यान्ति न ते सत्कारभाजनम् ॥३१॥

जानीयात्प्रेषणे भृत्यान्बान्धवान्व्यसनागमे ।
मित्रमापदि काले च भार्याञ्च विभवक्षये ॥३२॥

स्त्रीणां द्विगुण आहारः प्रज्ञा चैव चतुर्गुणा ।
षड्गुणो व्यवसायश्च कामश्चाष्टगुणः स्मृतः ॥३३॥

न स्वप्नेन जयेन्निद्रां न कामेन स्त्रियं जयेत् ।
न चेन्धनैर्जयेद्वह्निं न मद्येन तृषां जयेत् ॥३४॥

समांसैर्भोजनैः स्निग्धैर्मद्यैर्गन्धविलेपनैः ।
वस्त्रैर्मनोरमैर्माल्यैः कामः स्त्रीषु विजृम्भते ॥३५॥

ब्रह्मचर्येऽपि वक्तव्यं प्राप्तं मन्मथचेष्टितम् ।
हृद्यं हि पुरुषं दृष्ट्वा योनिः प्रक्लिद्यते स्त्रियाः ॥३६॥

सुवेषं पुरुषं दृष्ट्वा भ्रातरं यदि वा सुतम् ।
योनिः क्लिद्यति नारीणां सत्यंसत्यं हि शौनक ! ॥३७॥

नद्यश्च नार्यश्च समस्वभावाः स्वतन्त्रभावे गमनादिकेच ।
तोयैश्च दोषैश्च निपातयन्ति नद्यो हि कूलानि कुला नि नार्यः ॥३८॥

नदी पातयते कूलं नारी पातयते कुलम् ।
नारीणाञ्च नदीनां च स्वच्छन्दा ललिता गतिः ॥३९॥

नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः ।
नान्तकः सर्वभूतानां न पुंसां वामलोचनाः ॥४०॥

न तृप्तिरस्ति शिष्टानामिष्टानां प्रियवादिनाम् ।
सुखानाञ्च सुतानाञ्च जीवितस्य वरस्य च ॥४१॥

राजा न तप्तो धनसंचयेन न सागरस्तृप्तिमगाज्जलेन ।
न पण्डितस्तृप्यति भाषितेन तृप्तं न चक्षुर्नृपदर्शनेन ॥४२॥

स्वकर्म धर्मार्जितजीवितानां शास्त्रेषु दारेषु सदा रतानाम् ।
जितेन्द्रियाणामतिथिप्रियाणां गृहेऽपि मोक्षः पुरुषोत्तमानाम् ॥४३॥

मनोऽनुकूलाः प्रमदारूपवत्यः स्वलङ्कृताः ।
वसः प्रासादपृष्ठेषु स्वर्गः स्याच्छुभकर्मणः ॥४४॥

न दानेन न मानेन नार्जवेन न सवया ।
न शस्त्रेण न शास्त्रेण सर्वथा विषमा स्त्रियः ॥४५॥

शनैर्विद्या शनैर्थाः शनैः पर्वतमारुहेत् ।
शनैः कामं च धर्मं च पञ्चैतानि शनैः शनैः ॥४६॥

शाश्वतं देवपूजादि विप्रदानं च शाश्वतम् ।
शाश्वतं सगुणा विद्या सुहृन्मित्रं च शाश्वतम् ॥४७॥

ये बालभावान्न पठन्ति विद्यां ये यौवनस्था ह्यधनात्मदाराः ।
ते शोचनीया इह जीवलोके मनुष्यरूपेण मृगाश्चरन्ति ॥४८॥

पठने भोजने चित्तं न कुर्याच्छास्त्रसेवकः ।
सुदूरमपि विद्यार्थो व्रजेद्गरुडवेगवान् ॥४९॥

ये बालभावे न पठन्ति विद्यां कामातुरा यौवननष्टवित्ताः ।
ते वृद्धबावे परिभूयमानाः संदह्यमानाः शिशिरे यथाब्जम् ॥५०॥

तर्केऽप्रतिष्ठा श्रुतयो विभिन्नाः नासावृषिर्यस्य मतं न भिन्नम् ।
धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः ॥५१॥

आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च ।
नेत्रवक्रविकाराभ्यां लक्ष्यतेऽन्तर्गतं मनः ॥५२॥

अनुक्तमप्यूहति पण्डितो जनः परेङ्गितज्ञानफला हि बुद्धयः ।
उदीरितोर्थः पशुनापि गृह्यते हयाश्च नागाश्च वहन्ति दर्शितम् ॥५३॥

अर्थाद्भ्रष्टस्तीर्थयात्रां तु गच्छेत्सत्याद्भ्रष्टो रौरवं वै व्रजेच्च ।
योगाद्भ्रष्टः सत्यघृतिञ्च गच्छेद्राज्याद्भ्रष्टो मृगयायां व्रजेच्च ॥५४॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे बृहदृ नीतिसारे नवोत्तरशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:05.1930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

कामाचा वेध, हाच आमचा वेद

  • वेदाविषयी जेवढी आस्‍था व पूज्‍य बुद्धि त्‍याहून अधिक कामासंबंधी असणें. काम करणें हाच धर्म ज्‍यांचा झाला आहे अशा लोकांचे ब्रीदवाक्‍य. 
RANDOM WORD

Did you know?

वास्‍तुदोषावर आरसा काय करतो आरशांचा उपयोग कसा होतो
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site