TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १०६

आचारकाण्डः - अध्यायः १०६

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १०६
याज्ञवल्क्य उवाच ।
प्रेता (त) शौचं प्रवक्ष्यामि तच्छृणुध्वं यतव्रताः ।
ऊनद्विवर्षं निखनेन्न कुर्यादु दकं ततः ॥१॥

आ श्मशानादनुव्रज्य इतरैर्ज्ञातिभिर्युतः ।
यमसूक्तं तथा जप्यं जपद्भिर्लौकिकाग्निना ॥२॥

स दग्धव्य उपेतश्चैदाहिताग्न्यावृतार्थवत् ।
सप्तमाद्दशमाद्वापि ज्ञातयोऽभ्युपयान्त्यपः ॥३॥

अपनः शोशुचदघमनेन पितृदिङ्मुखाः ।
एवं मातामहाचार्यपत्नीनां चोदकक्रियाः ॥४॥

कामोदकाः पुत्रसखिस्वस्त्रीयश्वशुरर्त्विजः ।
नामगोत्रेण ह्युदकं सकृत्सिञ्चन्ति वाग्यताः ॥५॥

पाषण्डपतितानां तु न कुर्युरुदकक्रियाः ।
नब्रह्मचारिणो व्रात्या योषितः कामगास्तथा ॥६॥
सुराप्यस्त्वात्मघातिन्यो नाशौचोदकभाजनाः ।
ततो न रोदितव्यं हि त्वनित्या जीवसं स्थितिः ॥७॥
क्रिया कार्या यथाशक्ति ततो गच्छेद्गृहान्प्रति ।
विदश्य निम्बपत्राणि नियता द्वारि वेश्मनः ॥८॥
आचम्याथाग्निमुदकं गोमयं गौरसर्षपान् ।
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ॥९॥
प्रवेशनादिकं कर्म प्रेतसंस्पर्शनादपि ।
ईक्षतां तत्क्षणाच्छुद्धिः परेषां स्नानसंयमात् ॥१०॥
क्रीतलब्धाशना भूमौ स्वपेयुस्ते पृथक्पृथक् ।
पिण्डयज्ञकृता देयं प्रेतायान्नं दिनत्रयम् ॥११॥

जलमेकाहमाकाशे स्थाप्यं क्षीरं तु मृन्मये ।
वैतानोपासनाः कार्याः क्रियाश्च श्रुतिचोदिताः ॥१२॥

आदन्तजन्मनः सद्यः आचूडं नैशिकी स्मृता ।
त्रिरात्रमा व्रतादेशाद्दशरात्रमतः परम् ॥१३॥

त्रिरात्रं दशरात्रं वा शावमाशौचमुच्यते ।
ऊनद्विवर्ष उभयोः सूतकं मातुरेव हि ॥१४॥

अन्तरा जन्ममरणे शेषाहोभिर्विशुध्यति ।
दश द्वादश वर्णानां तथा पञ्चदशैव च ॥१५॥

त्रिंशद्दिनानि च तथा भवति प्रेतसूतकम् ।
अहस्त्वदत्तकन्यासु बालेषु च विशोधनम् ॥१६॥
गुर्वन्तेवास्यनूचानमातुलश्रोत्रियेषु च ।
अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ॥१७॥
निवासराजनि तथा तदहः शुद्धिकार(ण)म् ।
हतानां नृपगोविप्रैरन्वक्षं चात्मघातिनाम् ॥१८॥
विषाद्यैश्च हतानां च नाशौचं पृथिवीपतेः ।
सत्रिव्रतिब्रह्मचारिदातृब्रह्मविदां तथा ॥१९॥
दाने विवाहे यज्ञे च संग्रामे देशविप्लवे ।
आपद्यपि च कष्टायां सद्यः शौचं विधीयते ॥२०॥
कालोऽग्निः कर्ममृद्वायुर्मनो ज्ञानं तपो जपः (लम्) ।
पश्चात्ताषो निराहारः सर्वेषां शुद्धिहेतवः ॥२१॥

अकार्यकारिणां दानं वेगो नद्यास्तु शुद्धिकृत् ।
क्षात्त्रेण कर्मणा जीवेद्विशां वाप्यापदि द्विजः ॥२२॥

फलसोमक्षौमवीरुद्दधि क्षीरं घृतं जलम् ।
तिलोदनरसक्षारमधु लाक्षा शृतं हविः ॥२३॥

वस्त्रोपलासवं पुष्पं शाकमृच्चर्मपादुकम् ।
एणत्वचं च कौशेयं लवणं मासमेव च ॥२४॥

पिण्याकमूलगन्धांश्च वैश्यवृत्तो न विक्रयेत् ।
धर्मार्थं विक्रयं नेयास्तिला धान्येन तत्समाः ॥२५॥

लवणादि न विक्रीयात्तथा चापद्गतो द्विजः ।
हीनाद्विप्रो विगृह्णंश्च लिप्यते नार्कवद्द्विजः ॥२६॥
कुर्यात्कृष्यादिकं तद्वदविक्रेया हयास्तथा ।
बुभुक्षितस्त्र्यं स्थित्वा दृष्ट्वा वृत्तिविवर्जितम् ।
राजा धर्म्यां प्रकुर्वीत वृत्तिं विप्रादिकस्य च ॥२७॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे याज्ञवल्क्योक्ताशौचापद्वृत्त्योर्निरूपणं नाम पडुत्तरशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:05.0200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पिप्पल II.

  • n. एक ब्राह्मणभक्षक राक्षस, जो अगस्त्य ऋषि के द्वादशवर्षीय सत्र के समय लोगों को त्रस्त करता था । 
RANDOM WORD

Did you know?

अतिथी व अतिथिसत्कार याचे विशेष महत्व काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.