TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः १४५

आचारकाण्डः - अध्यायः १४५

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः १४५
ब्रह्मोवाच ।
भारतं संप्रवक्ष्यामि भारावतरणं भुवः ।
चक्रे कृष्णो युध्यमानः पाण्डवादिनिमित्ततः ॥१॥

विष्णुनाभ्यब्जतो ब्रह्मा ब्रह्मपुत्रोऽत्रिरत्रितः ।
सोमस्ततो बुधस्तस्मादिलायां च पुरूरवाः ॥२॥

तस्यायुस्तत्र वंशेऽभूद्ययातिर्भरतः कुरुः ।
शन्तनुस्तस्य वंशेऽभूद्गङ्गायां शन्तनोः सुतः ॥३॥

भीष्मः सर्वगुणैयुक्तो ब्रह्मवैवर्तपारगः ॥४॥

शन्तनोः सत्यवत्यां च द्वौ पुत्रौ संबभूवतुः ।
चित्राङ्गदन्तु गन्धर्वः पुत्रं चित्राङ्गदोऽवधीत् ॥५॥

अन्यो विचित्रवीर्योऽभूत्काशीराजसुतापतिः ।
विचित्रवीर्ये स्वर्याते व्यासात्तत्क्षेत्रतोऽभवत् ॥६॥

धृतराष्टोऽम्बिकापुत्रः पाण्डुराम्बालिकासुतः ।
भुजिष्यायान्तु विदुरो गान्धार्यां धृतराष्ट्रतः ॥७॥

दुर्योधनप्रधानास्तु शतसंख्या महाबलाः ।
पाण्डोः कुन्त्याञ्च माद्यां च पञ्च पुत्राः प्रजज्ञिरे ॥८॥

युधिष्ठिरो भीमसेनो ह्यर्जुनो नकुलस्तथा ।
सहदेवश्च पञ्चैते महाबलपराक्रमाः ॥९॥

कुरुपाण्डवयोर्वैरं दैवयो गाद्बभूव ह ।
दुर्योधनेनाधीरेण पाण्डवाः समुपद्रुताः ॥१०॥

दग्धा जतुगृहे वीरास्ते मुक्ताः स्वधियामलाः ॥११॥

ततस्तदेकचक्रायां ब्राह्मणस्य निवेशने ।
विविशुस्ते महात्मानो निहत्य बकराक्षसम् ॥१२॥

ततः पाञ्चालविषयेद्रौपद्यास्ते स्वयंवरम् ।
विज्ञाय वीर्यशुल्कान्तां पाण्डवा उपयेमिरे ॥१३॥

द्रोणभीष्मानुमत्या तु धृतराष्ट्रः समानयत् ।
अर्द्वराज्यं ततः प्राप्ता इन्द्रप्रस्थे पुरोत्तमे ॥१४॥

राजसूयन्ततश्चक्रुः सभां कृत्वा यतव्रताः ।
अर्जुनो द्वारवत्यान्तु सुभद्रां प्राप्तवान्प्रियाम् ।
वासुदेवस्य भगिनीमनुमत्या मुरद्विषः ॥१५॥

नन्दिघोषं रथं दिव्यमग्नेर्घनुरनुत्तमम् ।
गाण्डीवं नाम तद्दिव्यं त्रिषु लोकेषु विश्रुतम् ।
अक्षयान्सायकांश्चैव तथाभेद्यञ्च दंशनम् ॥१६॥

स तेन धनुषा वीरः पाण्डवो जातवेदसम् ।
कृष्णद्वितीयो बीभत्सुरतर्पयत वीर्यवान् ॥१७॥

नृपान्दिग्विजये जित्वा रत्नान्यादाय वै ददौ ।
युधिष्ठिराय महते भ्रात्रे नीतिविदे मुदा ॥१८॥

युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः परिवारितः ।
जितो दुर्योधनेनैव मायाद्यूतेन पापिना ।
कर्णदुः शासनमते स्थितेन शकुनेर्मते ॥१९॥

अथ द्वादश वर्षाणि वने तेपुर्महत्तपः ।
सधौम्या द्रौपदीषष्ठा मुनिवृन्दाभिसंवृताः ॥२०॥

ययुर्विराटनगरं गुप्तरूपेण संश्रिताः ।
वर्षमेकं महाप्राज्ञा गोग्रहात्तमपालयन् ॥२१॥

तते याताः स्वकं राष्ट्रं प्रार्थयामासुरादृताः ।
पञ्चग्रामानर्धराज्याद्वीरा दुर्योधनं नृपम् ॥२२॥

नाप्तवन्तः कुरुक्षेत्रे युद्धञ्चक्रुर्बलान्विताः ।
अक्षौहिणीभिर्दिव्याभिः सप्तभिः परिवारिताः ॥२३॥

एकादशभिरुद्युक्ता युक्ता दुर्योधनादयः ।
आसीद्युद्धं संकुलं च देवासुररणोपमम् ॥२४॥

भीष्मः सेनापतिरभूदादौ दौर्योधने बले ।
पाण्डवानां शिखण्डी च तयोर्युद्धं बभूव ह ।
शस्त्राशस्त्रि महाघोरं धसरात्रं शराशरि ॥२५॥

शिखण्ड्यर्जुनबाणैश्च भीष्मः शरशतैश्चितः ।
उत्तरायणमावीक्ष्य ध्यात्वा देवं गदाधरम् ॥२६॥

उक्त्वा धर्मान्बहुविधांस्तर्पयित्वा पितॄन्बहून् ।
आनन्दे तु पदे लीनो विमले मुक्तकिल्बिषे ॥२७॥

ततो द्रोणो ययौ योद्धुं धृष्टद्युम्नेन बीर्यवान् ।
दिनानि पञ्च तद्युद्धमासीत्परमदारुणम् ॥२८॥

यत्र ते पृथिवीपाला हताः पार्थेन संगरे ।
शोकसागरमासाद्य द्रोणोऽपि स्वर्गमाप्तवान् ॥२९॥

ततः कर्णा ययौ योद्धुमर्जुनेन मिहात्मना ।
दिनद्वयं महायुद्धं कृत्वा पार्थास्त्रसागरे ।
निमग्नः सूर्यलोकन्तु ततः प्राप स वीर्यवान् ॥३०॥

ततः शल्यो ययौ योद्धुं धर्मराजेन धीमता ।
दिनार्धेन हतः शल्यो बाणैर्ज्वलनसन्निभैः ॥३१॥

दुर्योधनोऽथ वेगेन गदामादाय वीर्यवान् ।
अभ्यधावत वै भीभं कालान्तकयमोपमः ॥३२॥

अथ भीमेन वीरेण गदया विनिपातितः ।
अश्वत्थामा गतो द्रौणिः सुप्तसैन्यं ततो निशि ॥३३॥

जघान बाहुवीर्येण पितुर्वधमनुस्मरन् ।
धृष्टद्युम्नं जघानाथ द्रौपदेयांश्च वीर्यवान् ॥३४॥

द्रौपद्यां रुद्यमानायामश्वत्थाम्नः शिरोमणिम् ।
ऐषिकास्त्रेण तं जित्वा जग्राहार्जुन उत्तमम् ॥३५॥

युधिष्ठिरः समाश्वास्य स्त्रीजनं शोकसंकुलम् ।
स्नात्वा सन्तर्प्य देवांश्च पितॄनथ पितामहान् ॥३६॥

आश्वासितोऽथ भीष्मेण राज्यञ्चैवाकरोन्महत् ।
विष्णुमीजेऽश्वमेधेन विधिवद्दक्षिणावता ॥३७॥

राज्ये परीक्षितं स्थाप्य यादवानां विनाशनम् ।
श्रुत्वा तु मौसले राजा जप्त्वा नामसहस्रकम् ॥३८॥

विष्णोः स्वर्गं जगामाथ भीमाद्यैर्भ्रातृभिर्युतः ।
वासुदेवः पुनर्बुद्धसंमोहाय सुरद्विषाम् ॥३९॥

कल्किर्विष्णुश्च भविता शंभलग्रामके पुनः ।
अश्वारूढोऽखिलांल्लोकांस्तदा भस्मीकरिष्यति ॥४०॥

देवादीनां रक्षणाय ह्यधर्महारणाय च ।
दुष्टानाञ्च वधार्थाय ह्यवतारं करोति च ॥४१॥

यथा धन्वन्तरिर्वंशे जातः क्षीरोदमन्थने ।
देवादीनां जीवनाय ह्यायुर्वेदमुवाच ह ॥४२॥

विश्वामित्रसुतायैव शुश्रुताय महात्मने ।
भारतांश्चावतारांश्च श्रुत्वा स्वर्गं व्रजेन्नरः ॥४३॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे भारतादिवर्णनं नाम पञ्चचत्वारिंशदुत्तरशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:07.2230000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

तुषिता

  • n. स्वारोचिष मन्वंतर के वेदशिरन् ऋषि की स्त्री । इसे विभु नामक पुत्र था [भा८.१.२१] 
RANDOM WORD

Did you know?

कोणतीही ही पूजा करण्याआधी संकल्प कां करावा?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site