TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २१३

आचारकाण्डः - अध्यायः २१३

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः २१३
सूत उवाच ।
हरेः श्रुत्वाब्रवीद्ब्रह्मा यथा व्यासाय शौनक ।
ब्राह्मणादिसमाचारं सर्वदं ते तथा वदे ॥१॥

श्रुतिस्मृती तु विज्ञाय श्रौतं कर्म समाचरेत् ।
श्रौतं कर्म न चेदुक्तं तदा स्मार्तं समाचरेत् ॥२॥

तत्राप्यशक्तः करणे सदाचारं चरेद्वुधः ।
श्रुतिस्मृती ह विप्राणां लोचने कर्मदर्शने ॥३॥

श्रुत्युक्तः परमो धर्मः स्मृतिशास्त्रगतोऽपरः ।
सिष्टाचारेण संप्राप्तस्त्रयो धर्माः सनातनाः ॥४॥

सत्यं दानं दयालोभो विद्येज्या पूजनं दमः ।
अष्टौ तानि पवित्राणि शिष्टाचारस्य लक्षणम् ॥५॥

तेजोमयानि पूर्वेषां शरीराणीन्द्रियाणि च ।
न लिप्यते पातकेन पद्मपत्रमिवाम्भसा ॥६॥

निवासमुख्या वर्णानां धर्माचाराः प्रकीर्तिताः ।
सत्यं यज्ञस्तपो दानमेतद्धर्मस्य लक्षणम् ॥७॥

अदत्तस्यानुपादानं दानमध्ययनं जपः ।
विद्या वित्तं तपः शौचं कुले जन्म त्वरोगिता ॥८॥

संसारोच्छित्तिहेतुश्च धर्मादेव प्रवर्तते ।
धर्मात्सुखं च ज्ञानं च ज्ञानान्मोक्षोऽधिगम्यते ॥९॥

इज्याध्ययनदानानि यथाशास्त्रं सनातनः ।
ब्रह्मक्षत्त्रियवैश्यानां सामान्यो धर्म उच्यते ॥१०॥

याजनाध्ययने शुद्धे विशुद्धाच्च प्रतिग्रहः ।
वृत्तित्रयमिदं प्राहुर्मुनयः श्रेष्ठवर्णिनः ॥११॥

शस्त्रेणाजीवनं राज्ञो भूतानाञ्चाभिरक्षणम् ।
पाशुपाल्यं कृषिः पण्यं वैश्यस्याजीवनं स्मृतम् ॥१२॥

शूद्रस्य द्विजशुश्रूषा द्विजानामनुपूर्वशः ।
गुरौ वासोऽग्निशुश्रूषा स्वाध्यायो ब्रह्मचारिणः ॥१३॥

त्रिः स्नाता स्नापिता भैक्ष्यं गुरौ प्राणान्तिकी स्थितिः ।
समेखलो जटी दण्डी मुण्डी वा गुरुसंश्रयः ॥१४॥

अग्निहोत्रोपचरणं जीवनं च स्वकर्मभिः ।
धर्मदारेषु कल्पेत पर्ववर्जं रतिक्रियाः ॥१५॥

देवपित्रतितिभ्यश्च पूजादिष्वनुकल्पनम् ।
श्रुतिस्मृत्यर्थसंस्थानं धर्मोऽयं गृहमेधिनः ॥१६॥

जटित्वमग्निहोत्रत्वं भूशय्याजिनधारणम् ।
वने वासः पयोमूलनीवारफलवृत्तिता ॥१७॥

प्रतिषिद्धान्निवृत्तिश्च त्रिः स्नानं व्रतधारिता ।
देवतातिथिपूजा च धर्मोऽयं वनवासिनः ॥१८॥

सर्वारम्भपरित्यागो भिक्षान्नं वृक्षमूलता ।
निष्परिग्रहताद्रोहः समता सर्वजन्तुषु ॥१९॥

प्रियाप्रियपरिष्वङ्गेसुखदुः खाधिकारिता ।
सबाह्याभ्यन्तरे शौचं वाग्यमो ध्यानचारिता ॥२०॥

सर्वैद्रियसमाहारो धारणाध्याननित्यता ।
भावसंशुद्धिरेत्येष परिव्राड्धर्म उच्यते ॥२१॥

अहिंसा सूनृता वाणी सत्यशौचे क्षमा दया ।
वर्णिनां लिङ्गिनां चैव सामान्यो धर्म उच्यते ॥२२॥

यथोक्तकारिणः सर्वे प्रयान्ति परमां गतिम् ।
आ बोधात्स्वपनं यावत्गृहिधर्मं च वच्मि ते ॥२३॥

ब्राह्मे मुहूर्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् ।
कायक्लेशांश्च तन्मूलान्वेदतत्त्वार्थमेव च ॥२४॥

शर्वर्यन्ते समुत्थाय कृतशौचः समाहितः ।
स्नात्वा सन्ध्यामुपासीत सर्वकालमतन्द्रितः ॥२५॥

प्रातः सन्ध्यामुपा सीत दन्तधावनपूर्विकाम् ।
उभे मूत्रपुरीषे च दिवा कुर्यादुदङ्मुखः ॥२६॥

रात्रौ च दक्षिणे कुर्यादुभे सन्ध्ये यथा दिवा ।
छायायामन्धकारे वा रात्रौ वाहनि वा द्विजः ॥२७॥

यथा तु समुखः कुर्यात्प्राणबाधाभयेषु च ।
गोमयाङ्गारवल्मीकफालाकृष्टे शुभे ॥२८॥

मार्गोपजीव्यच्छायासु न मूत्रं च पुरीषकम् ।
अन्तर्जलाद्देवगृहाद्वल्मीकान्मूषिकस्थलात् ॥२९॥

परेषां शौचशिष्टाच्च श्मशानाच्च मृदं त्यजेत् ।
एकां लिङ्गे मृदं दद्याद्वाम हस्ते मृदं द्विधा ॥३०॥

उभयोर्द्वे च दातव्ये मूत्रशौचं प्रचक्षते ।
एकां लिङ्गे गुदे तिस्त्रस्तथा वामकरे दश ॥३१॥

पञ्च पादे दशैकस्मिन्करयोः सप्तमृत्तिकाः ।
अर्धप्रसृतिमात्रा तु प्रथमा मृत्तिका स्मृता ॥३२॥

द्वितीया च तृतीया च तदर्धा परिकीर्तिता ।
उपविष्टस्तु विण्मूत्रं कर्तुं यस्तु न विन्दति ॥३३॥

स कुर्यादर्धशौचं तु स्वस्य शौचस्य सर्वदा ।
दिवा शौचस्य रात्र्यर्धं यद्वा पादो विधीयते ॥३४॥

स्वस्थस्य तु यथोद्दिष्टमार्तः कुर्याद्यथाबलम् ।
वसा शुक्रमसृङ्मज्जा लाला विण्मूत्रकर्णविट् ॥३५॥

श्लेष्माश्रदूषिका स्वेदो द्वादशैते नृणां मलाः ।
मन्येत यावता शुद्धिं तावच्छौचं समाचरेत् ॥३६॥

प्रमाणं शौचसंख्याया नादिष्टैरवशिष्यते ।
शौचं तु द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा ॥३७॥

मृज्जलाभ्यां स्मृतं बाह्यं भावशुद्धिरथान्तरम् ।
त्रिराचामेदपः पूर्वं द्विः प्रमृज्यात्ततो मुखम् ॥३८॥

संमृज्याङ्गुष्ठमूलेन त्रिभिरास्यमुपस्पृशेत् ।
अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम् ॥३९॥

अङ्गुष्ठानामिकाभ्यां च चक्षुः श्रोत्रे पुनः पुनः ।
कनिष्ठाङ्गष्ठयोर्नाभिं हृदयं तु तलेन वै ॥४०॥

सर्वाभिस्तु शिरः पश्चाद्बाहू चाग्रेण संस्पृशेत् ।
ऋचो यजूंषि सामानि त्रिः पठन्प्रीणयेत्क्रमात् ॥४१॥

अथर्वाङ्गिरसौ पूर्वं द्विः प्रमार्ष्ट्यथ तन्सुखम् ।
इतिहासपुराणानि वेदाङ्गानि वेदाङ्गानि यथाक्रमम् ॥४२॥

खं मुखे नासिके वायुं नेत्रे सूर्यं श्रुती (तीर्दि) दिशः ।
प्राणग्रन्थिमथो नाभिं ब्रह्माणं हृदये स्पृशेत् ॥४३॥

रुद्रं मूर्ध्ना समालभ्य प्रीणात्यथ शिखामृषीन् ।
बाहू यमेन्द्रवरुणकुबेरवसुधानलान् ॥४४॥

अभ्युक्ष्य चरणौ विष्णुमिन्द्रं विष्णु करद्वयम् ।
अग्निर्वायुश्च सूर्येन्दुगिरयोऽङ्गुलिपर्वसु ॥४५॥

गङ्गाद्याः सरितस्तासु या रेखाः करमध्यगाः ।
उषः काले तु संप्राप्ते शौचं कृत्वा यथार्थवत् ॥४६॥

ततः स्नानर्ं प्कुर्वीत दन्तधावनपूर्वकम् ।
मुखे पर्युषिते नित्यं भवत्यप्रयतो नरः ॥४७॥

तस्मात्सर्वप्रयत्नेन कुर्याद्वै दन्तघावनम् ।
कदम्बबिल्वखदिरकरवीरवटार्जुनाः ॥४८॥

यूथी च बृहती जाती करञ्जार्कातिमुक्तकाः ।
जम्बूमधूका पामार्गशिरीषोदुम्बरासनाः ॥४९॥

क्षीरिकण्टकिवृक्षाद्याः प्रशस्ता दन्तधावने ।
कटुतिक्तकषायाश्च धनारोग्यसुखप्रदाः ॥५०॥

प्रक्षाल्य भुक्त्वा च शुचौ देशे त्यक्त्वा तदाचामेत् ।
अमायां च तथा षष्ठ्यां नवम्यां प्रतिपद्यपि ॥५१॥

वर्जयेद्दन्तकाष्ठन्तु तथैवार्कस्य वासरे ।
अभावे दन्त काष्ठस्य निषिद्धायां तथा तिथौ ॥५२॥

अषां द्वादशगण्डूषैः कुर्वीत मुखशोधनम् ।
प्रातः स्नानं प्रशंसन्ति दृष्टादृष्टकरं हितम् ॥५३॥

सर्वमर्हति शुद्धात्मा प्रातः स्नायी जपादिकम् ।
अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः ॥५४॥

स्त्रवत्येष दिवा रात्रौ प्रातः स्नानं विशोधनम् ।
मनः प्रसादजननं रूपसौभाग्यवर्धनम् ॥५५॥

शोकदुः खप्रशमनं गङ्गास्नानवदाचरेत् ।
अद्य हस्ते तु नक्षत्रे दशम्यां ज्येष्ठके सिते ॥५६॥

दशपाप हरायां च अदत्वा दानकल्मषम् ।
विरुद्धाचरणं हिंसा परदारोपसेवनम् ॥५७॥

पारुष्यानृतपैशुन्यमसम्बद्धाभिभाषणम् ।
परद्रव्याभिधानं च मनसानिष्टचिन्तनम् ॥५८॥

एतद्दशाघघातार्थं गङ्गास्नानं करोम्यहम् ।
प्रातः संक्षेपतः स्नानं वानप्रस्थगृहस्थयोः ॥५९॥

यतेस्त्रिषवणं स्नानं सकृत्त ब्रह्मचारिणः ।
आचम्य तीर्थमावाह्य स्नायात्स्मृत्वाव्ययं हरिम् ॥६०॥

तिस्रः कोट्यस्तु विज्ञेया मन्देहा नाम राक्षसाः ।
उदयन्तं दुरात्मानः सूर्यमिच्छन्ति खादितुम् ॥६१॥

स हन्ति सूर्यं सन्ध्यायां नोपास्तिं कुरुते तु यः ।
दहन्ति मन्त्रपूतेन तोयेनानलरूपिणा ॥६२॥

अहोरात्रस्य यः सन्धिः सा सन्ध्या भवतीति ह ।
द्विनाडिका भवेत्सन्ध्या यावद्भवति दर्शनम् ॥६३॥

गन्ध्याकर्मावसाने तु स्वयं होमो विधीयते ।
स्वयं होमफलं यत्तु तदन्येन न जायते ॥६४॥

ऋत्विक्पुत्रो गुरुर्भ्राता भागिनेयोऽथ विट्पतिः ।
एभिरेव हुतं यत्तु तद्धुतं स्वयमेव हि ॥६५॥

ब्रह्मा वै गार्हपत्याग्निर्दक्षणाग्निस्त्रिलोचनः ।
विष्णुराहवनीयाग्निः कुमारः सत्य उच्यते ॥६६॥

कृत्वा होमं यथाकालं सौरान्मन्त्राञ्जपेत्ततः ।
समाहितात्मा सावित्रीं प्रणवं च यथोदितम् ॥६७॥

प्रणवे नित्ययुक्तस्य व्याहृतीषु च सप्तसु ।
त्रिपदायां च सावित्र्यां न भयं विद्यते क्वचित् ॥६८॥

गायत्त्रीं यो जपेन्नित्यं कल्यमुत्थाय मानवः ।
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥६९॥

श्वेतवर्णा समुद्दिष्टा कौशैयवसना तथा ।
अक्षसूत्रधरा देवी पद्मासनगता शुभा ॥७०॥

आवाह्य यजुपानेन तेजोऽसीति विधानतः ।
एतद्यजुः पुरा दैवैर्दृष्टिदर्शनकाङ्क्षिभिः ॥७१॥

आदित्यमण्डलान्तः स्थां ब्रह्मलोकस्थितामपि ।
तत्रावाह्य जपित्वातो नमस्काराद्विसर्जयेत् ॥७२॥

पूर्वाह्न एव कुर्वीत देवतानां च पूजनम् ।
न विष्णोः परमो देवस्तस्मात्तं पूजयेत्सदा ॥७३॥

ब्रह्मविष्णुशिवान्देवान्न पृथग्भावयेत्सुधीः ।
लोकेऽस्मिन्मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः ॥७४॥

हिरण्यं सर्पिरादित्य आपो राजा तथाष्टमः ।
एतानि सततं पश्येदर्चयेच्च प्रदक्षिणम् ॥७५॥

वेदस्याध्ययनं पूर्वं विचारोभ्यसनं जपः ।
तद्दानं चैव शिष्यभ्यो वेदाभ्यासो हि पञ्चधा ॥७६॥

वेदार्थं यज्ञशास्त्राणि धर्मशास्त्राणि चैव हि ।
मूल्येन लेखयित्वा यो दद्याद्याति स वैदिकम् ॥७७॥

इतिहा सपुराणानि लिखित्वायः प्रयच्छति ।
ब्रह्मदानसमं पुण्यं प्राप्नोति द्विगुणीकृतम् ॥७८॥

मृतीये च तथा भागे पोष्यवर्गार्थसाधनम् ।
माता पिता गुरुर्भ्राता प्रजा दीनाः समाश्रिताः ॥७९॥

अभ्यागतोऽतिथिश्चाग्निः पोष्यवर्गा उदाहृतः ।
भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् ॥८०॥

भरणं पोष्य वर्गस्य तस्माद्यत्नेन कारयेत् ।
स जीवति वरश्चैको बहुभिर्योपजीव्यति ॥८१॥

जीवन्तो मृतकास्त्वन्ये पुरुषाः स्वोदरम्भराः ।
स्वकीयोदरपूर्तिश्च कुक्कुरस्यापि विद्यते ॥८२॥

अर्थेभ्योऽपि विवृद्धेभ्यः सम्भूतेभ्यस्ततस्ततः ।
क्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥८३॥

सर्वरत्नाकरा भूमिर्धान्यानि पशवः स्त्रियः ।
अर्थस्य कार्ययोगित्वादर्थ इत्यभिधीयते ॥८४॥

अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः ।
या वृत्तिस्तां समास्थाय विप्रो जीवेदनापदि ॥८५॥

धनं तु त्रिविधं ज्ञेयं शुक्लं शबलमेव च ।
कृष्णं च तस्य विज्ञेयो विभागः सप्तधा पृथक् ॥८६॥

क्रमायत्तं प्रीतिदत्तं प्राप्तं च सह भार्यया ।
अविशेषेण सर्वेषां वर्णानां त्रिविधं धनम् ॥८७॥

वैशेषिकं धनं दृष्टं ब्राह्मणस्य त्रिलक्षणम् ।
याजनाध्यापने नित्यं विशुद्धश्च (द्धाच्च) प्रतिग्रहः ॥८८॥

त्रिविधं क्षत्रियस्यापि प्राहुर्वैशेषिकं धनम् ।
शुद्धार्थं लब्धकरजं दण्डाप्तं जयजं तथा ॥८९॥

वैशेषिकं धनं दृष्टं वैश्यस्यापि विलक्षणम् ।
कृषिगोरक्षवाणिज्यं शूद्रस्यैभ्यस्त्वनुग्रहात् ॥९०॥

कुसीदकृषिवाणिज्यं प्रकुर्वीत स्वयं परम् (कृतम्) ।
आपत्काले स्वयं कुर्वन्नैनसा युज्यते द्विजः ॥९१॥

बहवो वर्तनोपाया ऋषिभिः परिकीर्तिताः ।
सर्वेषामपि चैवैषां कुसीदमधिकं विदुः ॥९२॥

अनावृष्ट्या राजभयान्मूषिकाद्यैरुपद्रवैः ।
कृष्यादिके भवेद्बाधा सा कुसीदे न विद्यते ॥९३॥

शुक्लपक्षे तथा कृष्णे रजन्यां दिवसेपि वा ।
उष्णे वर्षति शीते वा वर्धनं न निवर्तते ॥९४॥

देशं गतानां या वृद्धिर्नानापण्योपजीविनाम् ।
कुसीदं कुर्वतः सम्यक्संस्थितस्यैव जायते ॥९५॥

लब्धलाभः पितॄन्देवान्ब्राह्मणांश्चैव पूजयेत् ।
ते तृप्तास्तस्य तद्दोषं शमयन्ति न संशयः ॥९६॥

वणिक्कुसीदं दद्याद्यो वस्त्रं गाङ्काञ्चनादिकम् ।
कृषीवलोऽन्नपानादियानशय्यासनानि च ॥९७॥

राजभ्यो विंशतिं दत्त्वा पशुस्वर्णादिकं शतम् ।
पादेनास्य च यावक्यं कुर्यात्संचयमात्मवान् ॥९८॥

अर्धेन चात्मभरणं नित्यनैमित्तिकांन्वितम् ।
पादं चेत्यर्थयामस्य मूलभूतं विवर्धयेत् ॥९९॥

विद्या शिल्पं भूतिः सेवा गोरक्षा विपणिः कृषिः ।
वृत्तिर्भैक्ष्यं कुसीदं च दश जीवनहेतवः ॥१००॥

प्रतिग्रहार्जिता विप्रे क्षत्रिये शस्त्रनिर्जिता ।
वैश्ये न्यायार्जिताः स्वार्थाः शूद्रे शुश्रूषयार्जिताः ॥१०१॥

नदी बहूदका शाकमृत्पर्णानि समित्कुशाः ।
आग्नेयो ब्रह्मघोषश्च विप्राणां धनमुत्तमम् ॥१०२॥

अयाचितोपपन्ने तु नास्ति दोषः प्रतिग्रहे ।
अमृतं तद्विदुर्देवास्तस्मात्तन्नैव वर्जयेत् ॥१०३॥

गुरुद्रव्यांश्चौज्जिहीर्षुरर्चिष्यन्दे वतातिथीन् ।
सर्वतः प्रतिगृह्णीयान्न तुष्येत्तु स्वयं ततः ॥१०४॥

साधुतः प्रतिगृह्णीयादथ वासाधुतो द्विजः ।
गुणवानल्पदोषश्च निर्गुणो हि निमज्जति ॥१०५॥

एवं त्वक्षवृत्त्या वा कृत्वा भरणमात्मनः ।
कुर्याद्विशुद्धिं परतः प्रायश्चित्तं द्विजोत्तमः ॥१०६॥

चतुर्थे च तथा भागे स्नानार्थं मृद माहरेत् ।
तिलपुष्पकुशादीनि स्नानं चाकृत्रिमे जले ॥१०७॥

नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणम् ।
मार्जनाचमावगाहाश्चाष्टस्नानं प्रकीर्तितम् ॥१०८॥

अस्नातस्तु पुमान्नार्हे जपाग्निहवनादिषु ।
प्रातः स्नानं तदर्थं तु नित्यस्नानं प्रकीर्तितम् ॥१०९॥

चाण्डालशवविष्ठाद्यान्स्पृष्ट्वा स्नानं रजस्वलाम् ।
स्नानार्हस्तु यदा स्नाति स्नानं नैमित्तिकं हि तत् ॥११०॥

पुष्यस्नानादिकं स्नानं दैवज्ञविधिचोदितम् ।
तद्धि काम्यं समुद्दिष्टं नाकामस्तत्प्रयोजयेत् ॥१११॥

जप्तुकामः पवित्राणि अर्चिष्यन्देवतातिथीन् ।
स्नानं समाचरेद्यस्तु क्रियाङ्गं तच्च कीर्तितम् ॥११२॥

मलापकर्षणार्थाय प्रवृत्तिस्तत्र नान्यथा ।
सरः सुदेवखातेषु तीर्थेषु च नदीषु च ॥११३॥

स्नानमेव क्रिया यस्मात्क्रियास्नानमतः परम् ।
अद्भिर्गात्राणि शुध्यन्ति तीर्थस्नानात्फलं लभेत् ॥११४॥

मार्जनान्मज्जनैर्मन्त्रैः पापमाशु प्रणश्यति ।
नित्यं नैमित्तिकं चापि क्रियाङ्गं मलकर्षणम् ॥११५॥

तीर्थाभावे तु कर्तव्यमुष्णोदकपरोदकैः ।
भूमिष्ठादुद्धृतं पुण्यं ततः प्रस्त्रवणोदकम् ॥११६॥

ततोऽपि सारसं पुण्यं तस्मान्नादेयमुच्यते ।
तीर्थतोयं ततः पुण्यं गागं पुण्यं तु सर्वतः ॥११७॥

गागं पयः पुनात्याशु पापमामरणान्तिकम् ।
गयायां च कुरुक्षेत्रे यत्तोयं समुपस्थितम् ॥११८॥

तस्मात्तु गाङ्गमपरं जानीयात्तोयमुत्तमम् ।
पुत्रजन्मनि योगेषु तथा संक्रमणे रवेः ॥११९॥

राहोश्च दर्शने स्नानं प्रशस्तं निशि नान्यथा ।
उषस्युषसि यत्स्नानं सन्ध्यायामुदिते रवौ ॥१२०॥

प्राजापत्येन तत्तुल्यं महापातकनाशनम् ।
यत्फलं द्वादशाब्दानि प्राजापत्ये कृते भवेत् ॥१२१॥

प्रातः स्नायी तदाप्नोति वर्षेण श्रद्धयान्वितः ।
य इच्छेद्विपुलान् भोगांश्चन्द्रसूर्यग्रहोपमान् ॥१२२॥

प्रातः स्नायी भवेन्नित्यं मासौ द्वौ माघफाल्गुनौ ।
यस्तु माघं समासाद्य प्रातः स्नायी हविष्यभुक् ॥१२३॥

इतिपापं महाघोरं मासादेव व्यपोहति ।
मातरं पितरं वापि भ्रातरं सुहृदं गुरुम् ॥१२४॥

यमुद्दिश्य निमज्जेत द्वादशांशं लभेत्तु सः ।
तुष्यत्यामलकैर्विष्णुरेकादश्या विशेषतः ॥१२५॥

श्रीकामः सर्वदा स्नानं कुर्वोतामलकैर्नरः ।
सन्तापः कीर्तिरल्पायुर्धनं निधनमेव च ॥१२६॥

आरोग्यं सर्वकामाप्तिरभ्यङ्गाद्भास्करादिषु ।
उपोषितस्य व्रतिनः कृत्तकेशस्य नापितैः ॥१२७॥

तावच्छ्रीस्तिष्ठति प्रीता यावत्तैलं न संस्पृशेत् ।
एवं स्नात्वा पितॄन्देवान्मनुष्यांस्तर्पयेन्नरः ॥१२८॥

नाभिमात्रे जले स्थित्वा चिन्तयेदूर्जमानसः ।
आगच्छन्तु मे पितर इमं गृह्णन्त्वपोञ्जलिम् ॥१२९॥

त्रींस्त्रीनेवाञ्जलीन्दद्यादाकाशे दक्षिणे तथा ।
वसित्वा वसनं शुष्कं स्थलस्था स्तर्णबर्हिषि ॥१३०॥

विधिज्ञास्तर्पणं कुर्युर्न पात्रे तु कदाचन ।
यदपां क्रूरमांसात्तु यदमेध्यं तु किञ्चन ॥१३१॥

अशान्तं मलिनं यच्च तत्सर्वमपगच्छतु ।
गृहीत्वानेन मन्त्रेण तोयं सव्येन पाणिना ॥१३२॥

प्रक्षिपोद्दिशि नैरृत्यां रक्षोऽपहतये तु तत् ।
निषिद्धभक्षणाद्यत्तु पापाद्यच्च प्रतिग्रहात् ॥१३३॥

दुष्कृतं यच्च मे किञ्चिद्बाङ्मनः कायकर्मभिः ।
पुनातु मे तदिन्द्रस्तु वरुणः सबृहस्पतिः ॥१३४॥

सविता च भगश्चैव मुनयः सनकादयः ।
आब्रह्मस्तम्बपर्यन्तं जगत्तृप्यत्विति ब्रुवन् ॥१३५॥

क्षिपेदबञ्जलींस्त्रीस्तु कुर्वन्संक्षेपतर्पणम् ।
सुराणामर्चनं कुर्याद्ब्रह्मा दीनाममत्सरी ॥१३६॥

ब्राह्मवैष्णवरौद्रैश्च सावित्रैर्मैत्रवारुणैः ।
तल्लिङ्गैरर्चयेन्मन्त्रैः सर्वदेवान्नमस्य च ॥१३७॥

नमस्कारेण पुष्पाणि विन्यसेत्तु पृथक्पृथक् ।
सर्वदेवमयं विष्णुं भास्करं चाप्यथार्चयेत् ॥१३८॥

दद्यात्पुरुषसूक्तेन यः पुष्पाण्यप एव वा ।
अर्चितं स्याज्जगादिदं तेन सर्वं चराचरम् ॥१३९॥

अन्यैश्च तान्त्रिकैर्मन्त्रैः पूजयेच्च जनार्दनम् ।
आदावर्घ्यं प्रदातव्यं ततः पश्चाद्विलेपनम् ॥१४०॥

ततः पुष्पाञ्जलिं धूपमु पहारफलानि च ।
स्नानमन्तर्जले चैव मार्जनाचमनं तथा ॥१४१॥

जलाभिमन्त्रणं यच्च तीर्थस्य परिकल्पयेत् ।
अघमर्षणसूक्तेन त्रिवारं त्वेव नित्यशः ॥१४२॥

स्नाने चरितमित्येतत्समुद्दिष्टं महात्मभिः ।
ब्रह्मक्षत्रविशां चैव मन्त्रवत्स्नानमिष्यते ॥१४३॥

तूष्णीमेव तु शूद्रस्य सनमस्कारकं स्मृतम् ।
अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ॥१४४॥

होमो दैवी बलिर्भौतो न यज्ञोऽतिथिपूजनम् ।
गवा गोष्ठे दशगुणं अग्न्यगारे शताधिकम् ॥१४५॥

सिद्धक्षेत्रेषु तीर्थेषु देवतायतनेषु च ।
सहस्रशतकोटीनामनन्तं विष्णुसन्निधौ ॥१४६॥

पञ्चमे च तथा भागे संविभागो यथार्थतः ।
पितृदे वमनुष्याणां कोटीनां चोपदिश्यते ॥१४७॥

ब्राह्मणेभ्यः प्रदायाग्र यः सुहृद्भिः सहाश्नुते ।
स प्रेत्य लभते स्वर्गमन्नदानं समाचरन् ॥१४८॥

पूर्वं मधुरमश्रीयाल्लवणाम्लौ च मध्यतः ।
कटुतिक्तकषायांश्च पयश्चैव तथान्ततः ॥१४९॥

शाकं च रात्रौ भूमिष्ठमत्यन्तं च विवर्जयेत् ।
नचैकरससेवायां प्रसज्जेत कदाचन ॥१५०॥

समृतं ब्राह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् ।
वैश्यस्य चान्नमेवान्नं शूद्रान्नं रुधिरं स्मृतम् ॥१५१॥

अमावासी वसेदत्र एकहायनमेव वा ॥१५२॥

तत्र श्रीश्चैव लक्ष्मीश्च वसते नात्र संशयः ।
उदरे गार्हपत्याग्निः पृष्ठदेशे तु दक्षिणः ॥१५३॥

आस्ये चाहवनीयोऽग्निः सत्यः पर्व च मूर्धनि ।
यः पञ्चाग्नीनिमान्वेद आहिताग्निः स उच्यते ॥१५४॥

शरिरमापः सोमं च विविधं चान्नमुच्यते ।
प्राणो ह्यग्निस्तथादित्यस्त्रिभोक्ता एक एव तु ॥१५५॥

अन्नं बलाय मे भूमेरपामग्न्यनिलस्य च ।
भवत्येतत्परिणतौ ममाप्यव्याहतं सुखम् ॥१५६॥

हस्तेन परिमार्ज्याथ कुर्यात्ताम्बूलभक्षणम् ।
श्रवणं चेतिहासस्य तत्कुर्यात्सुसमाहितः ॥१५७॥

इतिहासपुराणाद्यैः षष्ठसप्तमकेनयेत् ।
ततः सन्ध्यामुपासीत स्नात्वा वै पश्चिमां नरः ॥१५८॥

एतद्वा दिवसे प्रोक्तमनुष्ठानं मया द्विज ।
आचारं यः पठेद्विद्वाञ्छृणुयात्स दिवंव्रजेत् ।
आचारादिर्धर्मकर्ता केशवो हि स्मृतो द्विज ॥१५९॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे पञ्चोत्तरद्विशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:11.4270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

multidimensional

  • बहुमितीय 
  • बहुमितीय, बहुमित 
RANDOM WORD

Did you know?

mahavakya panchikaran he pustak upalabdha hoil ka ?
Category : Dictionary
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.