TransLiteral Foundation
संस्कृत सूची|संस्कृत साहित्य|पुराण|गरूडपुराणम्|आचारकाण्डः|
अध्यायः २०४

आचारकाण्डः - अध्यायः २०४

विष्णू पुराणाचा एक भाग असलेल्या गरूड पुराणात मृत्यूनंतरच्या स्थितीबद्दलची चर्चा आहे, शिवाय श्रद्धाळू हिंदू धर्मीयांमध्ये मृत्यूनंतर जी विविध क्रिया कर्मे केली जातात, त्याला गरूडपुराणाची पार्श्वभूमी आहे.


अध्यायः २०४
सूत उवाच ।
एवं धन्वन्तरिः प्राह सुश्रुतायच वैद्यकम् ।
अत नामानि वक्ष्यामि ओषधीनां समासतः ॥१॥

स्थिरा विदारिगन्धा च शालपण्यशुमत्यपि ।
लाङ्गली कलसी चैव क्रोष्टुपुच्छा गुहा मता ॥२॥

पुनर्नवाथ पर्षाभूः कठिल्या कारुणा तथा ।
एरण्डश्चोरुवूकः स्यादामर्दो वर्धमानकः ॥३॥

झषा नागबला ज्ञेया श्वदंष्ट्रा गोक्षुरो मतः ।
शतावरी वरा भीरु पीवरीन्दीवरी वरी ॥४॥

व्याघ्री तु बृहती कृष्णा हंसपादी मधुस्त्रवा ।
धामनी कण्टकारी स्यात्क्षुद्रा सिंही निदिग्धिका ॥५॥

वृश्चिका त्र्यमृता काली विषघ्नी सर्पदंष्ट्रिका ।
मर्कटी चात्मगुप्ता स्यादार्षेयी कपिकच्छुका ॥६॥

मुद्गपर्णो क्षुद्रसहा माषपर्णो महासहा ।
त्यजा परा च महा ज्ञेया दण्डयोन्यङ्कसंज्ञया ।
न्यग्रोधस्तु वटो ज्ञेयः अश्वत्थः कपिलो मतः ॥७॥

प्लक्षोऽथ गर्दभाण्डः स्यात्पर्कटी च कपीतनः ।
पार्थस्तु ककुभो धन्वि विज्ञेयोर्ऽजुननामभिः ॥८॥

नन्दीवृक्षः प्ररोही स्यात्पुष्टिकारीति चोच्यते ।
वञ्जुलो वेतसो ज्ञेयो भल्लातश्चाप्यरुष्करः ॥९॥

लोध्रः सारवको धृष्टस्तिरीटश्चापि कीर्तितः ।
बृहत्फला महाजम्बूर्ज्ञेया बालफला परा ॥१०॥

तृतीया जलजम्बूः स्यान्नादेयी सा च कीर्तिता ।
कणा कृष्णोपकुञ्ची च शौण्डी मागधिकेति च ॥११॥

कथिता पिप्पली तज्ज्ञैस्तन्मूलं ग्रन्थिकं स्मृतम् ।
ऊषणं मरिचं ज्ञेयं शुण्ठी विश्वं महौषधम् ॥१२॥

व्योषं कटुत्रयं विद्यात्त्र्यूषणं तच्च कीर्त्यते ।
लाङ्गली हलिनी च स्याच्छेयसी गज पिप्पली ॥१३॥

त्रायन्ती त्रायमाणा स्यादुत्साया सुवहा स्मृता ।
चित्रकः स्याच्छिखी वह्निरग्निसंज्ञाभिरुच्यते ॥१४॥

षड्ग्रन्थोग्रा वचा ज्ञेया श्वेता हैमवतीति च ।
कुटजो वृक्षकः शक्रो वत्सको गिरिमाल्लिका ॥१५॥

कलिङ्गेन्द्रयवारिष्टं तस्य बीजानि लक्षयेत् ।
मुस्तक्तो मेघनामा स्यात्कौन्ती ज्ञेया हरेणुका ॥१६॥

एला च बहुला प्रोक्ता सूक्ष्मैला च तथा त्रुटिः ।
पद्मा भार्ङ्गो तथा काञ्जी ज्ञेया ब्राह्मणयष्टिका ॥१७॥

मूर्वा मधुरसा ज्ञेया तेजनी तिक्तवल्लिका ।
महानिम्बो बृहन्निम्बो दीप्यकः स्याद्यवानिका ॥१८॥

विडङ्गं क्रिमशत्रुः स्याद्रामठं हिङ्गुरुच्यते ।
अजाजी जीरकं ज्ञेया कारवी चोपकुञ्चिका ॥१९॥

विज्ञेया कटुका तिक्ता तथा कटुकरोहिणी ।
तगरं स्यान्नतं वक्रं चोचं त्वचवराङ्गकम् ॥२०॥

उदीच्यं बालकं प्रोक्तं ह्रीबेरं चाम्बुनामभिः ।
पत्रकं दलसंज्ञाभिश्चारकं तस्कराह्वयम् ॥२१॥

हेमाभं नागसंज्ञाभिर्नागकेशर उच्यते ।
असृक्कुङ्कुममाख्यातं तथा काश्मीरबाह्लिकम् ॥२२॥

अयो लोहं समुद्दिष्टं यौगिकैर्लोहनामभिः ।
पुरं कुटनटं विद्यान्महिषाक्षः पलङ्कषा ॥२३॥

काश्मरी कट्फला ज्ञेया श्रीपर्णो चेति कीर्तिता ।
शल्लकी गजभक्ष्या च पत्री च सुरभी स्त्रवः ॥२४॥

धात्रीमामलकीं विद्यादक्षश्चैव विभीतकः ।
पथ्याभया च विज्ञेया पूतना च हरीतकी ॥२५॥

त्रिफला फलमेवोक्ता तच्च ज्ञेयं फलत्रिकम् ।
उदकीर्यो दीर्घवृन्तः करञ्जश्चेति कीर्तितः ॥२६॥

यष्टी यष्ट्याह्वयं प्रोक्तं मदुकं मधुयष्टिका ।
धातकी ताम्रपर्णो स्यात्समङ्गा कुञ्जरा मता ॥२७॥

सितं मलयजं शीतं गोशीर्षं सितचन्दनम् ।
विद्याद्रक्तं चन्दनं च द्वितीयं रक्तचन्दनम् ॥२८॥

काकोली च स्मृता वीरा वयस्या चार्कपुष्पिका ।
शृङ्गी कर्कटशृङ्गी च महाघोषा च कीर्तिता ॥२९॥

तुगाक्षीरी शुभा वांशी विज्ञेया वंशलोचना ।
मृद्विका च स्मृता द्राक्षा तथा गोस्तनिका मता ॥३०॥

स्यादुशीरं मृणालञ्च सेव्यं लामज्जकं तथा ।
सारञ्च गोपवल्ली च गोपी भद्रा च कथ्यते ॥३१॥

दन्ती कटङ्कटेरी च ज्ञेया दारुनिशेति च ।
हरिद्रा रजनी प्रोक्ता पीतिका रात्रिनामिका ॥३२॥

वृक्षादनी छिन्नरुहा नीलवल्ली रसामृता ।
वसुकोटश्च विज्ञेयो वाशिरः काम्पिल्लो मतः ॥३३॥

पाषाणभेदकोऽरिष्टो ह्यस्मभित्कुट्टभेदकः ।
घण्टाकः शुष्कको ज्ञेयो वचोऽथ सूचको मतः ॥३४॥

सुरसो बीजकश्चैव पीतशालोऽभिधीयेत ।
वज्रवृक्षो महावृक्षः स्नुही स्नुक्च सुधा गुडा ॥३५॥

तुलसीं सुरसां विद्यादुपस्थेति च कथ्यते ।
कुठेरकोऽप्यर्जुनकः पर्णो सौगन्धिपर्णिक्रः ॥३६॥

नीलश्च सिन्धुवारश्च निर्गुण्डीति सुगन्धिका ।
ज्ञेया सुगन्धिपर्णोति वासन्ती कुलजेति च ॥३७॥

कालीयकं पीतकाष्ठं कतकाख्यः पुनः स्मृतः ।
गायत्रीखदिरो ज्ञेयस्तद्भेदः कन्दरो मतः ॥३८॥

इन्दी वरं कुवलयं पद्मं नीलोत्पलं स्मृतम् ।
सौगन्धिकं शतदलमब्जं कमलमुच्यते ॥३९॥

अजवर्णो भवेदूर्जो वाजिकर्णोऽश्वकर्णकः ।
श्लेष्मान्तकस्तथा शेलुर्बहुवारश्च कथ्यते ॥४०॥

सुनन्दकः ककुद्भद्रं छत्राकी छत्रसंज्ञका ।
कबरी कुम्भको धृष्टः क्षुद्विधो धनकृत्तथा ॥४१॥

कृष्णार्जकः करालश्च कालमानः प्रकीर्तितः ।
प्राची बला नदीक्रान्ता काकजङ्घाथ वायसी ॥४२॥

ज्ञेया मूषिकपर्णो तु भ्रमन्ती चाखुपर्णिका ।
विषमुष्टिर्द्रावणञ्च केशमुष्टिरुदाहृता ॥४३॥

किंलिहीं कटुकीं विद्यादन्तकश्चाम्लवेतसः ।
अश्वत्था बहुपत्रा च विज्ञेया चामलक्यपि ॥४४॥

अरूषक्रं पत्र शूकं क्षीरी राजादनं मतम् ।
महापत्रं दाडिमं च तमेव करकं वदेत् ॥४५॥

मसूरी विदली शष्पा कालिन्दीति निरुच्यते ।
कण्टकाख्या महाश्यामा वृक्षपादीति वक्ष्यते ॥४६॥

विद्या कुन्ती निकुम्भा च त्रिभङ्गी त्रिपुटी त्रिवृत् ।
सप्तला यवतिक्ता च चर्मा चर्मकसेति च ॥४७॥

शङ्खिनी सुकुमारी च तिक्ताक्षी चाक्षिपीलुकम् ।
गवाक्षी चामृता श्वेता गिरिकर्णो गवादिनी ॥४८॥

काम्पिल्लकोऽथ रक्ताङ्गो गुण्डा रोचनिकेति च ।
हेमक्षीरी स्मृता पीता गौरी वै कालदुग्धिका ॥४९॥

गाङ्गेरुकी नागबला विशाला चेन्द्रवारुणी ।
तार्क्ष्यं शैलं नीलवर्णमञ्जनञ्च रसाञ्जनम् ॥५०॥

निर्यासो यश्च शाल्मल्याः स मोचरससंज्ञकः ।
प्रत्यक्पुष्पी खरी ज्ञेया अपामार्गो मयूरकः ॥५१॥

सिंहास्यवृषवासाकमाटरूषकमादिशेत् ।
जीवको जीवशाकश्च कर्बुरञ्च शटीं विदुः ॥५२॥

कट्फलं सोमवृक्षः स्यादग्निगन्धा सुगन्धिका ।
शताङ्गं शतपुष्पा च मिंसिर्मधुरिकामता ॥५३॥

ज्ञेयं पुष्करमूलञ्च पुष्करं पुष्कराह्वयम् ।
यासोऽथ धन्वयासश्च दुष्पर्शोऽथ दुरालभा ॥५४॥

वाकुची सोमराजी च सोमवल्लीति कीर्तिता ।
मार्कवः केशराजश्च भृङ्गराजो निगद्यते ॥५५॥

प्रोक्तस्त्वेडगजस्तज्ज्ञैश्चक्रमर्दकसंज्ञखः ।
सुरङ्गीतगरः स्नायुः कलनाशा तु वायसी ॥५६॥

महाकालः स्मृतो बेलस्तण्डुलीयो घनस्तनः ।
इक्ष्वाकुस्तिक्ततुम्बी स्यात्तिक्तालबुर्निगद्यते ॥५७॥

धामार्गवोऽथ कोषातक्यथ यामिनी ।
विद्यात्कोशतकीभेदं कृतभेदनसंज्ञका ॥५८॥

तथा जीमूतकाख्या च खुड्डाको देवताडकः ।
गृध्रनखी गृध्रनखी हिङ्गुकाकादनी मता ॥५९॥

अश्वारिश्चैव बोद्धव्यः करवीरोऽश्वमारकः ।
सिन्धुः सैन्धवसिन्धूत्थमणिमन्थमुदाहृतम् ॥६०॥

क्षारो यवाग्रजश्चैव यवक्षारोऽभिधीयते ।
सर्जिका सर्जिकाक्षारो द्वितीयः परिकीर्तितः ॥६१॥

काशीशं पुष्पकाशीशं विज्ञेयं नेत्त्रभेषजम् ।
धातुकाशीशकाशी च संज्ञेयं तच्च कीर्तितम् ॥६२॥

सौराष्ट्री मृत्तिकाक्षारं काक्षी वै पङ्कपर्पटी ।
विद्यात्समाक्षिकं धातु ताप्यं ताप्युत्थसम्भवम् ॥६३॥

शिला मनः शिला ज्ञेया नेपाली कुलटीति च ।
आलं मनस्तालकं वा हरितालं विनिर्दिशेत् ॥६४॥

गन्धको गन्धपाषाणो रसः पारद उच्यते ।
ताम्रमौदुम्बरं शुल्बं विद्यान्म्लेच्छमुखं तथा ॥६५॥

अद्रिसारस्त्वयस्तीक्ष्णं लोहकञ्चापि कथ्यते ।
माक्षिकं मधु च क्षौद्रं तच्च पुष्परसं स्मृतम् ॥६६॥

ज्येष्ठन्तु सोदकं तत्स्यात्काञ्जिकन्तु सुवीरकम् ।
सीता सितोपला चैव मत्स्यण्डीशर्करा स्मृता ॥६७॥

त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम् ।
नागकेशरसंयुक्तं तच्चतुर्जातमिष्यते ॥६८॥

पिप्पली पिप्पलीमूलं चव्यचित्रकनागरैः ।
कथितं पञ्चकोलञ्च कोलकं कोलसंज्ञया ॥६९॥

प्रियङ्गुः कङ्गुका ज्ञेया कोरदूषश्च कोद्रवः ।
त्रिपुटः पुटसंज्ञश्च कलापो लङ्गको मतः ॥७०॥

सतीनो वर्तुलश्चैव वेणुश्चापि प्रकीर्तितः ।
पिचुकं पितलं चाक्षं बिडालपदकं तथा ॥७१॥

विद्यात्कर्षं तथा चापि सुवर्णं कवलग्रहम् ।
पलार्धं शुक्तिमिच्छन्ति तथाष्टौमाषकास्त्विति ॥७२॥

पलं बिल्वञ्च मुष्टिः स्याद्द्वे पले प्रसृतिं वदेत् ।
अञ्जलिं कुडवञ्चैव विद्यात्पलचतुष्टयम् ॥७३॥

अष्टमानं पलान्यष्टौ तच्च मानमिति स्मृतम् ।
चतुर्भिः कुडवैः प्रस्थ प्रस्थाश्चत्वार आढकः ॥७४॥

काशपात्रञ्च संप्रोक्तो द्रोणश्चचतुराढके ।
तुला पलशतं प्रोक्तं भागो विंशत्पलः स्मृतः ॥७५॥

मानमेवं विधं प्रोक्तं प्रस्थद्रव्येषु पण्डितैः ।
द्रवद्रव्येषु चोद्दिष्टं द्विगुणं परिकीर्तितम् ॥७६॥

भद्रदारु देवकाष्ठं दारु स्याद्देवदारुकम् ।
कुष्ठमामयमाख्यातं मांसीञ्च नलदंशनम् ॥७७॥

शङ्खः शुक्तिनखः शङ्खो व्याघ्रो व्याघ्रनखः स्मृतः ।
पुरं पलङ्कषं विद्यान्महिषाक्षञ्च गुग्गुलुः ॥७८॥

रसो गन्धरसो बोले सर्जः सर्जरसो मतः ।
प्रियङ्गुः फलिनी श्यामा गौरी कान्तेति चोच्यते ॥७९॥

करञ्जौ नक्तमालः स्यात्पूतिकश्चिरबिल्वकः ।
शिग्रुः शोभाञ्जनो नाम ज्ञानमानश्च कीर्तितः ॥८०॥

जया जयन्ती शरणी निर्गुण्डी सिन्धुवारकः ।
मोरटा पीलुपर्णो च तुण्डी स्यात्तुण्डिकेरिका ॥८१॥

मदनो गालवो बोधो घोटा घोटी च कथ्यते ।
चतुरङ्गुल सम्पाको व्याधिघाताभिसंज्ञकः ॥८२॥

विद्यादारग्वधं राजवृक्षं रैवतसंज्ञकम् ।
दन्ती काकेन्दुतिक्ता स्यात्कण्टकी च विकङ्कतः ॥८३॥

निम्बोऽरिष्टः समाख्यातः पटोलं कोलकं विदुः ।
वयस्था च विशल्या च च्छिन्ना छिन्नरुहा मता ॥८४॥

वशा दन्त्यमृता चेति गुडूचीनामसंग्रहः ।
किराततिक्तकश्चैव भूनिम्बः काण्डतिक्तकः ॥८५॥

सूत उवाच ।
नामान्येतानि च हरे वन्यानां भेषजां तथा ।
अतो व्याकरणं वक्ष्ये कुमारोक्तञ्च शौनक ॥८६॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे चतुरत्तरद्विशततमोऽध्यायः

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:53:10.9130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

armsbys feeding standard

  • आम्र्सबीचे खाद्य मानक 
RANDOM WORD

Did you know?

जपाची संख्या १०८ का ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site