संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| द्विपञ्चाशत्तमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - द्विपञ्चाशत्तमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण द्विपञ्चाशत्तमोऽध्यायः Translation - भाषांतर शाल्वस्य कथनानुसारेण जरासंधादिभिः नरेशेभिः शाल्वमेव कालयवनसमीपे दूतरूपेण प्रेषणम्वैशम्पायन उवाचततः प्रयाते वसुदेवपुत्रे नराधिपा भूषणभूषिताङ्गाः ।सभां समाजग्मुः सुरेन्द्रकल्पाः प्रबोधनार्थं गमनोत्सवास्ते ॥१॥सभागतान् सोमरविप्रकाशान् सुखोपविष्टान् रुचिरासनेषु ।समीक्ष्य राजा सुनयार्थवादी जगाद वाक्यं नरराजसिंहः ॥२॥स्वयंवरकृतं दोषं विदित्वा वो नराधिपाः ।क्षन्तव्यो मम वृद्धस्य दुर्दग्धस्य फलोदयम् ॥३॥वैशम्पायन उवाचएवमाभाष्य तान् सर्वान् सत्कृत्य च यथाविधि ।ततो विसर्जयामास नृपांस्तान् मध्यदेशजान् ॥४॥पूर्वपश्चिमजांश्चैव उत्तरापथिकानपि ।येऽपि सर्वे महेष्वासाः प्रहृष्टमनसो नराः ॥५॥यथार्हेण च सम्पूज्य जग्मुस्ते नरपुङ्गवाः ।जरासंधः सुनीथश्च दन्तवक्त्रश्च वीर्यवान् ॥६॥शाल्वः सौभपतिश्चैव महाकूर्मश्च पार्थिवः ।क्रथकैशिकमुख्याश्च नृपाः प्रवरवंशजाः ॥७॥वेणुदारिश्च राजर्षिः काश्मीराधिपतिस्तथा ।एते चान्ये च बहवो दक्षिणापथिका नृपाः ॥८॥श्रोतुकामा रहो वाक्यं स्थिता वै भीष्मकान्तिके ।तान् वै समीक्ष्य राजेन्द्रः स राजा भीष्मको बली ॥९॥स्नेहपूर्णेन मनसा स्थितांस्तानवनीश्वरान् ।त्रिवर्गसहितं श्लक्ष्णं षड्गुणालंकृतं शुभम् ॥१०॥उवाच नयसम्पन्नं स्निग्धगम्भीरया गिरा ।भीष्मक उवाचभवतामवनीशानां समालोक्य नयान्वितम ॥११॥वचनं व्याहृतं श्रुत्वा कृतवान् कार्यमीदृशम् ।सद्भिर्भवद्भिः क्षन्तव्यं वयं नित्यापराधिनः ॥१२॥वैशम्पायन उवाचएवमुक्त्वा तु राजा स भीष्मको नयकोविदः ।उवाच सुतमुद्दिश्य वचनं राजसंसदि ॥१३॥भीष्मक उवाचपुत्रस्य चेष्टामालोक्य त्रासाकुलितलोचनः ।मन्ये बालानिमाँल्लोकान् स एष पुरुषः परः ॥१४॥कीर्तिः कीर्तिमतां श्रेष्ठो यशश्च विपुलं तथा ।स्थापितं भुवि मर्त्येऽस्मिन् स्वबाहुबलमूर्जितम् ॥१५॥धन्या खलु महाभागा देवकी योषितां वरा ।पुत्रं त्रिभुवनश्रेष्ठं कृत्वा गर्भेण केशवम् ॥१६॥कृष्णं कमलपत्राक्षं श्रीपुञ्जममरार्चितम् ।नेत्राभ्यां स्नेहपूर्णाभ्यां वीक्षते मुखपङ्कजम् ॥१७॥वैशम्पायन उवाचएवं लालप्यमानं तु राजानं राजसंसदि ।उवाच श्लक्ष्णया वाचा शाल्वराजो महाद्युतिः ॥१८॥शाल्व उवाचअलं खेदेन राजेन्द्र सुताय रिपुमर्दिने ।क्षत्रियस्य रणे राजन् ध्रुवं जयपराजयौ ॥१९॥नियता गति मर्त्यानामेष धर्मः सनातनः ।बलकेशवयोरन्यस्तृतीयः कः पुमानिह ॥२०॥रणे योधयितुं शक्तस्तव पुत्रं महाबलम् ।रथातिरथवृन्दानामेक एव रणाजिरे ॥२१॥रिपून् बाधयितुं शक्तो धनुर्गृह्य महाभुजः ।भार्गवास्त्रं महारौद्रं देवैरपि दुरासदम् ॥२२॥सृजतो बाहुवीर्येण कः पुमान् प्रसहिष्यति ।अयं तु पुरुषः कृष्णो ह्यनादिनिधनोऽव्ययः ॥२३॥तं विजेता नृलोकेऽस्मिन् नापि शूलधरः स्वयम् ।तव पुत्रो महाराज सर्वशास्त्रार्थतत्त्ववित् ॥२४॥विदित्वा देवमीशानं न योधयति केशवम् ।अद्य तस्य रणे जेता यवनाधिपतिर्नृप ॥२५॥स कालयवनो नाम अवध्यः केशवस्य ह ।तप्त्वा सुदारुणं घोरं तपः परमदुश्चरम् ॥२६॥रुद्रमाराधयामास द्वादशाब्दानयोऽशनः ।पुत्रकामेन मुनिना तोष्य रुद्रात्सुतो वृतः ॥२७॥माथुराणामवध्योऽयं भवेदिति च शङ्करात् ।एवमस्त्विति रुद्रोऽपि प्रददौ मुनये सुतम् ॥२८॥एवं गार्ग्यस्य तनयः श्रीमान् रुद्रवरोद्भवः ।माथुराणामवध्योऽयं मथुरायां विशेषतः ॥२९॥कृष्णोऽपि बलवानेष माथुरो जातवानयम् ।स जेष्यति रणे कृष्णं मथुरायां समागतः ॥३०॥मन्यध्वं यदि वा युक्तां नृपा वाचं मयेरिताम् ।तत्र दूतं विसृजध्वं यवनेन्द्रपुरं प्रति ॥३१॥वैशम्पायन उवाचश्रुत्वा सौभपतेर्वाक्यं सर्वे ते नृपसत्तमाः ।कुर्म इत्यब्रुवन् हृष्टा जरासंधं महाबलम् ॥३२॥स तेषां वचनं क्षुत्वा जरासंधो महीपतिः ।बभूव विमना राजन् ब्रह्मणो वचनं स्मरन् ॥३३॥जरासंध उवाचमां समाश्रित्य पूर्वस्मिन् नृपा नृपभयार्दिताः ।प्राप्नुवन्ति हृतं राज्यं सभृत्यबलवाहनम् ॥३४॥इह संचोद्यते भूपैः परसंश्रयहेतुना ।कन्येव स्वपतिद्वेषादन्यं रतिपरायणा ॥३५॥अहो सुबलवद् दैवमशक्यं विनिवर्तितुम् ।यदहं कृष्णभीतोऽन्यं संश्रयामि बलाधिकम् ॥३६॥नूनं योगविहीनोऽहं कारयिष्ये पराश्रयम् ।श्रेयो हि मरणं मह्यं न चान्यं संश्रये नृपाः ॥३७॥कृष्णो वा बलदेवो वा योवासौ वा नराधिपः ।हन्तारं प्रतियोत्स्यामि यथा ब्राह्मप्रचोदितः ॥३८॥एषा मे निश्चिता बुद्धिरेतत्सत् पुरुषव्रतम् ।अतोऽन्यथा न शक्तोऽहं कर्तुं परसमाश्रयम् ॥३९॥भवतां साधुवृत्तानामाबाधं न करोति सः ।तेन दूतं प्रदास्यामि नृपाणां रक्षणाय वै ॥४०॥व्योममार्गेण यातव्यं यथा कृष्णो न बाधते ।गच्छन्तमनुचिन्त्यैवं प्रेषयध्वं नृपोत्तमाः ॥४१॥अयं सौभपतिः श्रीमाननलार्केन्दुविक्रमः ।रथेनादित्यवर्णेन प्रयाति स्वपुरं बली ॥४२॥यवनेन्द्रो यथाभ्येति नरेन्द्राणां समागमम् ।वचनं च तथास्माभिर्दूत्ये नः कृष्णविग्रहे ॥४३॥वैशम्पायन उवाचपुनरेवाब्रवीद् राजा सौभस्य पतिमूर्जितम ।गच्छ सर्वनरेन्द्राणां साहाय्यं कुरु मानद ॥४४॥यवनेन्द्रो यथा याति यथा कृष्णं विजेष्यति ।यथा वयं च तुष्यामस्तथा नीतिर्विधीयताम् ॥४५॥एवं संदिश्य सर्वांस्तान् भीष्मकं पूज्य धर्मतः ।प्रययौ स्वपुरं राजा स्वेन सैन्येन संवृतः ॥४६॥शाल्वोऽपि नृपतिश्रेष्ठस्तांश्च सम्पूज्य धर्मतः ।जगामाकाशमार्गेण रथेनानिलरंहसा ॥४७॥तेऽपि सर्वे महीपाला दक्षिणापथवासिनः ।अनुव्रज्य जरासंधं गताः स्वनगरं प्रति ॥४८॥भीष्मकः सह पुत्रेण तावुभौ चिन्त्य दुर्नयम ।स्वे गृहे न्यवसद् दीनः कृष्णमेवानुचिन्तयन् ॥४९॥विदिता रुक्मिणी साध्वी स्वयंवरनिवर्तनम् ।कृप्णस्यागमनाद्धेतोर्नृपाणां दोषदर्शनम् ॥५०॥गत्वा तु सा सखीमध्ये उवाच व्रीडितानना ।न चान्येषां नरेन्द्राणां पत्नी भवितुमुत्सहे ।कृष्णात् कमलपत्राक्षात्सत्यमेतद् वचो मम ॥५१॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे द्विपञ्चाशत्तमोऽध्यायः ॥५२॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP