संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
त्र्यधिकशततमोऽध्यायः

विष्णुपर्व - त्र्यधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


श्रीकृष्णस्य संततेः वर्णनं वृष्णिवंशस्य उपसंहारं च ।

जनमेजय उवाच
बहूनां स्त्रीसहस्राणामष्टौ भार्याः प्रकीर्तिताः ।
तासामपत्यान्यष्टानां भगवान् प्रब्रवीतु मे ॥१॥
वैशम्पायन उवाच
अष्टौ महिष्यः पुत्रिण्य इति प्राधान्यतः स्मृताः ।
सर्वा वीरप्रजाश्चैव तास्वपत्यानि मे शृणु ॥२॥
रुक्मिणी सत्यभामा च देवी नाग्नजिती तथा ।
सुदत्ता च तथा शैब्या लक्ष्मणा चारुहासिनी ॥३॥
मित्रविन्दा च कालिन्दी जाम्बवत्यथ पौरवी ।
सुभीमा च तथा माद्री रुक्मिणीतनयाञ्छृणु ॥४॥
द्युम्नः प्रथमं जज्ञे शम्बरान्तकरः शुभः ।
द्वितीयश्चारुदेष्णश्च वृष्णिसिंहो महारथः ॥५॥
चारुभद्रश्चारुगर्भः सुदेष्णो द्रुम एव च ।
सुषेणश्चारुगुप्तश्च चारुविन्दश्च वीर्यवान् ॥६॥
चारुबाहुः कनीयांश्च कन्या चारुमती तथा ।
जज्ञिरे सत्यभामायां भानुर्भीमरथः क्षुपः ॥७॥
रोहितो दीप्तिमांश्चैव ताम्रजाक्षो जलान्तकः ।
भानुर्भीमलिका चैव ताम्रपर्णी जलन्धमा ॥८॥
चतस्रो जज्ञिरे तेषां स्वसारो गरुडध्वजात् ।
जाम्बवत्याः सुतो जज्ञे साम्बः समितिशोभनः ॥९॥
मित्रवान्मित्रविन्दश्च मित्रवत्यपि चाङ्गना ।
मित्रबाहुः सुनीथश्च नाग्नजित्याः प्रजाःशृणु ॥१०॥
भद्रकारो भद्रविन्दः कन्या भद्रवती तथा ।
सुदत्तायां तु शैब्यायां संग्रामजिदजायत ॥११॥
सत्यजित् सेनजिच्चैव तथा शूरः सपत्नजित् ।
सुभीमायाः सुतो माद्र्या वृकाश्वो वृकनिर्वृतिः ॥१२॥
कुमारो वृकदीप्तिश्च लक्ष्मणायाः प्रजाः शृणु ।
गात्रवान् गात्रगुप्तश्च गात्रविन्दश्च वीर्यवान्॥१३॥
जज्ञिरे गात्रवत्या च भगिन्याऽनुजया सह ।
अश्रुतश्च सुतो जज्ञे कालिन्द्याः श्रुतसम्मितः ॥१४॥
अश्रुतं श्रुतसेनायै प्रददौ मधुसूदनः ।
तं प्रदाय हृषीकेशस्तां भार्यां मुदितोऽब्रवीत् ॥१५॥
एष वामुभयोरस्तु दायादः शाश्वतीः समाः ।
बृहत्यां तु गदं प्राहुः शैब्यायामङ्गदं सुतम् ॥१६॥
उत्पन्नं कुमुदं चैव श्वेतं श्वेता तथाङ्गना ।
अगावहः सुमित्रश्च शुचिश्चित्ररथस्तथा ॥१७॥
चित्रसेनः सुदेवायाश्चित्रा चित्रवती तथा ।
वनस्तम्बश्च जज्ञाते सुतः स्तम्बवनश्च ह ॥१८॥
निवासनोऽवनस्तम्बः कन्या स्तम्बवती तथा ।
उपसन्नश्च शङ्कुश्च वज्रांशुः क्षिप्र एव च ॥१९॥
कौशिक्यां सुतसोमायां यौधिष्ठिर्यां युधिष्ठिरः ।
कपाली गरुडश्चैव जज्ञाते चित्रयोधिनौ ॥२०॥
एवमादीनि पुत्राणां सहस्राणि निबोध मे ।
दशायुतं समाख्याता वासुदेवस्य ते सुताः ॥२१॥
अयुतानि तथा चाष्टौ शूरा रणविशारदाः ।
जनार्दनस्य प्रसवः कीर्तितोऽयं तथा मया ॥२२॥
प्रद्युम्नस्य सुतो जज्ञे वैदर्भ्यां राजसत्तम ।
अनिरुद्धो रणेऽरुद्धो जज्ञे स मृगकेतनः ॥२२॥
रेवत्यां बलदेवस्य जज्ञाते निशठोल्मुकौ ।
भ्रातरौ देवसंकाशावुभौ पुरुषसत्तमौ ॥२४॥
सुतनुश्च सुतारा च शौरेरास्तां परिग्रहः ।
पौण्ड्रकः कपिलश्चैव वसुदेवस्य तौ सुतौ ॥२५॥
तारायां कपिलो जज्ञे पौण्ड्रश्च सुतनोः सुतः ।
तयोर्नृपोऽभवत् पौण्ड्रः कपिलश्च वनं ययौ ॥२६॥
तुर्यां समभवद् वीरो वसुदेवान्महाबलः ।
जरा नाम निषादानां प्रभुः सर्वधनुष्मताम् ॥२७॥
काश्या सुपार्श्वं तनयं लेभे साम्बात् तरस्विनम् ।
सानुर्जज्ञेऽनिरुद्धस्य वज्रः सानोरजायत ॥२८॥
वज्राज्जज्ञे प्रतिरथः सुचारुस्तस्य चात्मजः ।
अनमित्राच्छिनिर्जज्ञे कनिष्ठाद्वृष्णिनन्दनात् ॥२९॥
शिनेस्तु सत्यवाग् जज्ञे सत्यकश्च महारथः ।
सत्यकस्यात्मजः शूरो युयुधानस्त्वजायत ॥३०॥
असङ्गो युयुधानस्य मणिस्तस्याभवत्सुतः ।
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वृष्णिवंशानुकीर्तने त्र्यधिकशततमोऽध्यायः ॥१०३॥

N/A

References : N/A
Last Updated : July 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP