संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| अष्टात्रिंशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - अष्टात्रिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण अष्टात्रिंशोऽध्यायः Translation - भाषांतर विकद्रुणा यदोः संततिवर्णनम्, जरासंधस्य आक्रमणानि सोढुं मथुरापुरी न समर्था इति कथनम्वैशम्पायन उवाचस तासु नागकन्यासु कालेन महता नृपः ।जनयामास विक्रान्तान् पञ्च पुत्रान् कुलोद्वहान् ॥१॥मुचुकुन्दं महाबाहुं पद्मवर्णं तथैव च ।माधवं सारसं चैव हरितं चैव पार्थिवम् ॥२॥एतान् पञ्चसुतान्राजा पञ्चभूतोपमान् भुवि ।ईक्षमाणो नृपः प्रीतिं जगामातुलविक्रमः ॥३॥ते प्राप्तवयसः सर्वे स्थिताः पञ्च यथाद्रयः ।तेजिता बलदर्पाभ्यामूचुः पितरमग्रतः ॥४॥तात युक्ताः स्म वयसा बले महति संस्थिताः ।क्षिप्रमाज्ञप्तुमिच्छामः किं कुर्मस्तव शासनात् ॥५॥स तान् नृपतिशार्दूलः शार्दूलानिव वैगितान् ।प्रीत्या परमया प्राह सुतान् वीर्यकुतूहलात् ॥६॥विन्ध्यर्क्षवन्तावभितो द्वे पुर्यौ पर्वताश्रये ।निवेशयतु यत्नेन मुचुकुन्दः सुतो मम ॥७॥सह्यस्य चोपरिष्टात्तु दक्षिणां दिशमाश्रितः ।पद्मवर्णोऽपि मे पुत्रो निवेशयतु मा चिरम् ॥८॥तत्रैव परतः कान्ते देशे चम्पकभूषिते ।सारसो मे पुरं रम्यं निवेशयतु पुत्रकः ॥९॥हरितोऽयं महाबाहुः सागरे हरितोदके ।दीपं पन्नगराजस्य सुतो मे पालयिष्यति ॥१०॥माधवो मे महाबाहुर्ज्येष्ठपुत्रश्च धर्मवित् ।यौवराज्येन संयुक्तः स्वपुरं पालयिष्यति ॥११॥सर्वे नृपश्रियं प्राप्ता अभिषिक्ताः सचामराः ।पित्रानुशिष्टाश्चत्वारो लोकपालोपमा नृपाः ॥१२॥स्वं स्वं निवेशनं सर्वे भेजिरे नृपसत्तमाः ।पुरस्थानानि रम्याणि मृगयन्तो यथाक्रमम् ॥१३॥मुचुकुन्दश्च राजर्षिर्विन्ध्यमध्यमरोचयत् ।स्वस्थानं नर्मदातीरे दारुणोपलसंकटे ॥१४॥स च तं शोधयामास विविक्तं च चकार ह ।सेतुं चैव समं चक्रे परिखाश्चामितोदकाः ॥१५॥स्थापयामास भागेषु देवतायतनान्यपि ।रथ्या वीथीर्नृणां मार्गाश्चत्वराणि वनानि च ॥१६॥स तां पुरीं धनवतीं पुरुहूतपुरीप्रभाम् ।नातिदीर्घेण कालेन चकार नृपसत्तमः ॥१७॥नाम चास्याः शुभं चक्रे निर्मितं स्वेन तेजसा ।तस्याः पुर्या नृपश्रेष्ठो देवश्रेष्ठपराक्रमः ॥१८॥महाश्मसंघातवती यथेयं विन्ध्यसानुगा ।माहिष्मती नाम पुरी प्रकाशमुपयास्यति ॥१९॥उभयोर्विन्ध्ययोः पादे नगयोस्तां महापुरीम् ।मध्ये निवेशयामास श्रिया परमया वृताम् ॥२०॥पुरिकां नाम धर्मात्मा पुरीं देवपुरीप्रभाम् ।उद्यानशतसम्बाधां समृद्धापणचत्वराम् ॥२१॥ऋक्षवन्तं समभितस्तीरे तत्र निरामये ।निर्मिता सा पुरी राज्ञा पुरिका नाम नामतः ॥२२॥स ते द्वे विपुले पुर्यौ देवभोग्योपमे शुभे ।पालयामास धर्मात्मा राजा धर्मे व्यवस्थितः ॥२३॥पद्मवर्णोऽपि राजर्षिः सह्यपृष्ठे पुरोत्तमम् ।चकार नद्या वेणायास्तीरे तरुलताकुले ॥२४॥विषयस्याल्पतां ज्ञात्वा सम्पूर्णं राष्ट्रमेव च ।निवेशयामास नृपः स वप्रप्रायमुत्तमम् ॥२५॥पद्मावतं जनपदं करवीरं च तत्पुरम् ।निर्मितं पद्मवर्णेन प्राजापत्येन कर्मणा ॥२६॥सारसेनापि विहितं रम्यं क्रौञ्चपुरं महत् ।चम्पकाशोकबहुलं विपुलं ताम्रमृत्तिकम् ॥२७॥वनवासीति विख्यातः स्फीतो जनपदो महान् ।पुरस्य तस्य तु श्रीमान् द्रुमैः सार्वर्तुकैर्वृतः ॥२८॥हरितोऽपि समुद्रस्य द्वीपं समभिपालयत् ।रत्नसंचयसम्पूर्णं नारीजनमनोहरम् ॥२९॥तस्य दाशा जले मग्ना मद्गुरा नाम विश्रुताः ।ये हरन्ति सदा शङ्खान् समुद्रोदरचारिणः ॥३०॥तस्यापरे दाशजनाः प्रवालाञ्जलसम्भवान् ।संचिन्वन्ति सदा युक्ता जातरूपं च मौक्तिकम् ॥३१॥जलजानि च रत्नानि निषादास्तस्य मानवाः ।प्रचिन्वन्तोऽर्णवे युक्ता नौभिः संयानगामिनः॥३२॥मत्स्यमांसेन तै सर्वे वर्तन्ते स्म सदा नराः ।गृहणन्तः सर्वरत्नानि रत्नद्वीपनिवासिनः ॥३३॥तैः संयानगतैर्द्रव्यैर्वणिजो दूरगामिनः ।हरितं तर्पयन्त्येकं यथैव धनदं तथा ॥३४॥एवमिक्ष्वाकुवंशात् तु यदुवंशो विनिःसृतः ।चतुर्धा यदुपुत्रैस्तु चतुर्भिभिद्यते पुनः ॥३५॥स यदुर्माधवे राज्यं विसृज्य यदुपुङ्गवे ।त्रिविष्टपं गतो राजा देहं त्यक्त्वा महीतले ॥३६॥बभूव माधवसुतः सत्त्वतो नाम वीर्यवान् ।सत्त्ववृत्तिर्गुणोपेतो राजा राजगुणे स्थितः ॥३७॥सत्त्वतस्य सुतो राजा भीमो नाम महानभूत् ।येन भैमाः सुसंवृत्ताः सत्त्वतात् सात्त्वताः स्मृताः ॥३८॥राज्ये स्थिते नृपे तस्मिन् रामे राज्यं प्रशासति ।शत्रुघ्नो लवणं हत्वा चिच्छेद स मधोर्वनम् ॥३९॥तस्मिन् मधुवने स्थाने पुरीं च मथुरामिमाम् ।निवेशयामास विभुः सुमित्रानन्दवर्धनः ॥४०॥पर्यये चैव रामस्य भरतस्य तथैव च ।सुमित्रासुतयोश्चैव स्थानं प्राप्तं च वैष्णवम् ॥४१॥भीमेनेयं पुरी तेन राज्यसम्बन्धकारणात् ।स्ववशे स्थापिता पूर्वं स्वयमध्यासिता तथा ॥४२॥ततः कुशे स्थिते राज्ये लवे तु युवराजनि ।अन्धको नाम भीमस्य सुतो राज्यमकारयत् ॥४३॥अन्धकस्य सुतो जज्ञे रेवतो नाम पार्थिवः ।ऋक्षोऽपि रेवताज्जज्ञे रम्ये पर्वतमूर्धनि ॥४४॥ततो रैवत उत्पन्नः पर्वतः सागरान्तिके ।नाम्ना रैवतको नाम भूमौ भूमिधरः स्मृतः ॥४५॥रैवतस्यात्मजो राजा विश्वगर्भो महायशाः ।बभूव पृथिवीपालः पृथिव्यां प्रथितः प्रभुः ॥४६॥तस्य तिसृषु भार्यासु दिव्यरूपासु केशव ।चत्वारो जज्ञिरे पुत्रा लोकपालोपमाः शुभाः ॥४७॥वसुर्बभ्रुः सुषेणश्च सभाक्षश्चैव वीर्यवान् ।यदुप्रवीराः प्रख्याता लोकपाला इवापरे ॥४८॥तैरयं यादवो वंशः पार्थिवैर्बहुलीकृतः ।यैः साकं कृष्णलोकेऽस्मिन् प्रजावन्तः प्रजेश्वराः॥४९॥वसोस्तु कुन्तिविषये वसुदेवः सुतो विभुः ।ततः स जनयामास सुप्रभे द्वे च दारिके ॥५०॥कुन्तीं च पाण्डोर्महिषीं देवतामिव भूचरीम् ।भार्यां च दमघोषस्य चेदिराजस्य सुप्रभाम् ॥५१॥एष ते स्वस्य वंशस्य प्रभवः सम्प्रकीर्तितः ।श्रुतो मया पुरा कृष्ण कृष्णद्वैपायनान्तिकात् ॥५२॥त्वं त्विदानीं प्रणष्टेऽस्मिन् वंशे वंशभृतां वर ।स्वयम्भूरिव सम्प्राप्तो भवायास्मज्जयाय च ॥५३॥न तु त्वां पौरमात्रेण शक्ता गूहयितुं वयम् ।देवगुह्येष्वपि भवान् सर्वज्ञः सर्वभावनः ॥५४॥शक्तश्चापि जरासंधं नृपं योधयितुं विभो ।त्वद्बुद्धिवशगाः सर्वे वयं योधव्रते स्थिताः ॥५५॥जरासंधस्तु बलवान् नृपाणां मूर्ध्नि तिष्ठति ।अप्रमेयबलश्चैव वयं च कृशसाधनाः ॥५६॥न चेयमेकाहमपि पुरी रोधं सहिष्यति ।कृशभक्तेन्धनक्षामा दुर्गैरपरिवेष्टिता ॥५७॥असंस्कृताम्बुपरिखा द्वारयन्त्रविवर्जिता ।वप्रप्राकारनिचया कर्तव्या बहुविस्तरा ॥५८॥संस्कर्तव्यायुधागारा योक्तव्या चेष्टिकाचयैः ।कंसस्य बलभोग्यत्वान्नातिगुप्ता पुरा जनैः ॥५९॥सद्यो निपतिते कंसे राज्येऽस्माकं नवोदये ।पुरी प्रत्यग्ररोधेव न रोधं विसहिष्यति ॥६०॥बलं सम्मर्दभग्नं च कृष्यमाणं परेण ह ।असंशयमिदं राष्ट्रं जनैः सह विनङ्क्ष्यति ॥६१॥यादवानां विरोधेन ये जिता राज्यकामुकैः ।ते सर्वे द्वैधमिच्छन्ति यत्क्षमं तद्विधीयताम् ॥६२॥वञ्चनीया भविष्यामो नृपाणां नृपकारणात् ।जरासंधभयार्तानां द्रवतां राज्यसम्भ्रमे ॥६३॥आर्ता वक्ष्यन्ति नः सर्वे रुध्यमानाः पुरे जनाः ।यादवानां विरोधेन विनष्टाः स्मेति केशव ॥६४॥एतन्मम मतं कृष्ण विस्रम्भात्समुदाहृतम् ।त्वं तु विज्ञापितः पूर्वं न पुनः सम्प्रबोधितः ॥६५॥यदत्र वः क्षमं कृष्ण तच्च वै संविधीयताम् ।त्वमस्य नेता सैन्यस्य वयं त्वच्छासने स्थिताः ।त्वन्मूलश्च विरोधोऽयं रक्षास्मानात्मना सह ॥६६॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि विकद्रुवाक्यं नामाष्टात्रिंशोऽध्यायः॥३८॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP