संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| त्रिपञ्चाशत्तमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - त्रिपञ्चाशत्तमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण त्रिपञ्चाशत्तमोऽध्यायः Translation - भाषांतर कालयवनस्य विशेषता, दूतं भूत्वा राज्ञः शाल्वस्य तं प्रति गमनम् एवं जरासंधस्य संदेशकथनम्वैशम्पायन उवाचयवनानां बलोदग्रः स कालयवनो नृपः ।बभूव राजा धर्मेण रक्षिता पुरवासिनाम् ॥१॥त्रिवर्गविदितः प्राज्ञः षड्गुणानुपजीवकः ।सप्तव्यसनसम्मूढो गुणेष्वभिरतः सदा ॥२॥श्रुतिमान् धर्मशीलश्च सत्यवादी जितेन्द्रियः ।सांग्रामिकविधिज्ञश्च दुर्गलाभानुसारणः ॥३॥शूरोऽप्रतिबलश्चैव मन्त्रिप्रवरसेवकः ।सुखासीनः सभां रम्यां सचिवैः परिवारितः ॥४॥उपास्यमानो यवनैरात्मविद्भिर्विपश्चितैः ।विविधाश्च कथा दिव्याः कथ्यमानाः परस्परम् ॥५॥एतस्मिन्नेव काले तु दिव्यगन्धवहोऽनिलः ।प्रववौ मदनाबोधं चकार सुखशीतलः ॥६॥किंस्विदित्येकमनसः सभायां ये समागताः ।उत्फुल्लनयनाः सर्वे राजा चैवावलोक्य सः ॥७॥अपश्यन्त रथं दिव्यमायान्तं भास्करोपमम् ।शातकुम्भमयैः शुभ्रं रथाङ्गैरुपशोभितम् ॥८॥दिव्यरत्नप्रभाकीर्णं दिव्यध्वजपताकिनम् ।वाहितं दिव्यतुरगैर्मनोमारुतरंहसैः ॥९॥चन्द्रभास्करबिम्बानि कृत्वा जाम्बूनदेन तम् ।रचितं वै विश्वकृता वैयाघ्रवरभूषितम् ॥१०॥रिपूणां त्रासजननं मित्राणां हर्षवर्द्धनम् ।दक्षिणादिगुपायन्तं रथं पररथारुजम् ॥११॥तत्रोपविष्टं श्रीमन्तं सौभस्य पतिमूर्जितम् ।दृष्ट्वा परमसंहृष्टश्चार्घ्यं पाद्येति चासकृत् ॥१२॥उवाच यवनेन्द्रस्य मन्त्री मन्त्रविदां वरः ।तत्रोत्थाय महाबाहुः स्वयमेव नृपासनात् ॥१३॥प्रत्युद्गम्यार्घ्यमादाय रथावतरणे स्थितः ।शाल्वोऽपि च महातेजा दृष्ट्वा राजानमागतम् ॥१४॥मुदा परमया युक्तं शक्रप्रतिमतेजसम् ।अवतीर्य सुविश्रब्ध एक एव रथोत्तमात् ॥१५॥विवेश परमं प्रीतो मित्रदर्शनलालसः ।दृष्ट्वार्घमुद्यतं राजा शाल्वो राजर्षिसत्तमः ॥१६॥उवाच श्लक्ष्णया वाचा नार्घार्होऽस्मि महाद्युते ।दूतोऽहं मनुजेन्द्राणां सकाशाद् भवतोऽन्तिकम् ॥१७॥प्रेषितो बहुभिः सार्द्ध जरासंधेन धीमता ।तेन मन्ये महाराज नार्घार्होऽस्मीति राजसु ॥१८॥कालयवन उवाचजानाम्यहं महाबाहो दौत्येन त्वामिहागतम् ।साहित्ये नरदेवानां प्रेषितो मागधेन वै ॥१९॥तेन त्वामर्चये राजन् विशेषेण महामते ।अर्घ्यपाद्यादिसत्कारैरासनेन यथाविधि ॥२०॥भवत्यभ्यर्चिते राज्ञां सर्वेषामर्चितं भवेत् ।आस्यतामासने शुभ्रे मया सार्द्धं जनेश्वर ॥२१॥वैशम्पायन उवाचस हस्तालिङ्गनं कृत्वा पृष्ट्वा च कुशलामयम् ।सुखोपविष्टौ सहितौ शुभे सिंहासने स्थितौ ॥२२॥कालयवन उवाचयद्बाहुबलमाश्रित्य वयं सर्वे नराधिपाः ।वसामो विगतोद्विग्ना देवा इव शचीपतिम् ॥२३॥किमसाध्यं भवेदस्य येनासि प्रेषितो मयि ।वद सत्यं वचस्तस्य किमाज्ञापयति प्रभुः ।करिष्ये वचनं तस्य अपि कर्म सुदुष्करम् ॥२४॥शाल्व उवाचयथा वदति राजेन्द्र मगधाधिपतिस्तव ।तथाहं सम्प्रवक्ष्यामि श्रूयतां यवनाधिप ॥२५॥जरासंध उवाचजातोऽयं जगतां बाधी कृष्णः परमदुर्जयः ।विदित्वा तस्य दुर्वृत्तमहं हन्तुं समुद्यतः ॥२६॥पार्थिवैर्बहुभिः सार्द्धं समग्रबलवाहनैः ।उपरुध्य महासैन्यैर्गोमन्तमचलोत्तमम् ॥२७॥चेदिराजस्य वचनं महार्थं श्रुतवानहम् ।तदा तयोर्विनाशाय हुताशनमयोजयम् ॥२८॥ज्वालाशतसहस्राढ्यं युगान्ताग्निसमप्रभम् ।दृष्ट्वा रामो गिरेः कूटादाप्लुतो हेमतालधृक् ॥२९॥विनिष्पत्य महासेनां मध्ये सागरसंनिभाम् ।आजघान दुराधर्षो नराश्वरथदन्तिनाम् ॥३०॥सर्पन्तमिव सर्पेन्द्रं विकृष्याकृष्य लाङ्गलम् ।नरनागाश्ववृन्दानि मुसलेन व्यपोथयत् ॥३१॥गजेन गजमास्फाल्य रथेन रथयोधिनम् ।हयेन च हयारोहं पदातेन पदातिनम् ॥३२॥समरे स महातेजा नृपार्कशतसंकुले ।विचरन्विविधान् मार्गान्निदाघे भास्करो यथा ॥३३॥रामादनन्तरं कृष्णः प्रगृह्यार्कसमप्रभम् ।चक्रं चक्रभृतां श्रेष्ठः सिंहः क्षुद्रमृगं यथा ॥३४॥प्रविचाल्य महावीर्यः पादवेगेन तं गिरिम् ।शत्रुसैन्ये पपातोच्चैर्यदुवीरः प्रतापवान् ॥३५॥प्रनृत्यन्निव शैलेन्द्रस्तोयधाराभिषेचितः ।घूर्णमानो विवेशोर्वीं विनिर्वाप्य हुताशनम् ॥३६॥आदीप्यमानशिखरादवप्लुत्य जनार्दनः ।जघान वाहिनीं राजंश्चक्रव्यग्रेण पाणिना ॥३७॥विक्षिप्य विपुलं चक्रं गदापातादनन्तरम् ।नरनागाश्ववृन्दानि मुसलेन व्यचूर्णयत् ॥३८॥क्रोधानिलसमुद्धूतचक्रलाङ्गलवह्निना ।निर्दग्धा महती सेना नरेन्द्रार्काभिपालिता ॥३९॥नरनागाश्वकलिलं पत्तिध्वजसमाकुलम् ।रथानीकं पदाताभ्यां क्षणेन विदलीकृतम् ॥४०॥सेनां प्रभग्नामालोक्य चक्रानलभयार्दिताम् ।महता रथवृन्देन परिवार्य समन्ततः ॥४१॥तत्राहं युद्ध्यमानस्तु भ्रातास्य बलवान् बली ।स्थितो ममाग्रतः शूरो गदापाणिर्हलायुधः ॥४२॥द्वादशाक्षौहिणीर्हत्वा प्रभिन्न इव केसरी ।हलं सौनन्दमुत्सृज्य गदया मामताडयत् ॥४३॥वज्रपातनिभं वेगं पातयित्वा ममोपरि ।भूयः प्रहर्तुकामो मां वैशाखेनास्थितो महीम् ॥४४॥वैशाखं स्थानमास्थाय गुहः क्रौञ्चं यथा पुरा ।तथा मां दीर्घनेत्राभ्यामीक्षते निर्दहन्निव ॥४५॥तादृग्रूपं समालोक्य बलदेवं रणाजिरे ।जीवितार्थी नृलोकेऽस्मिन् कः पुमान् स्थातुमर्हति ॥४६॥गृहीत्वा स गदां भीमां कालदण्डमिवोद्यताम् ।कालाङ्कुशेन निर्धूतां स्थित एवाग्रतो मम ॥४७॥ततो जलदगम्भीरस्वरेणापूरयन् नभः ।वागुवाचाशरीरेण स्वयं लोकपितामहः ॥४८॥प्रहर्तव्यो न राज्ञायमवध्योऽयं तवानघ ।कल्पितोऽस्य वधोऽन्यस्माद् विरमस्व हलायुध ॥४९॥श्रुत्वाहं तेन वाक्येन चिन्ताविष्टो निवर्तितः ।सर्वप्राणहरं घोरं ब्रह्मणा स्वयमीरितम् ॥५०॥तेनाहं वः प्रवक्ष्यामि नृपाणां हितकाम्यया ।श्रुत्वा त्वमेव राजेन्द्र कर्तुमर्हसि तद् वचः ॥५१॥तपसोग्रेण महता पुत्रार्थी तोष्य शङ्करम् ।प्राप्तवान् देवदेव त्वामवध्यं माथुरैर्जनैः ॥५२॥महामुनिश्चायसचूर्णमश्नन्नुपस्थितो द्वादशवार्षिकं व्रतम् ।सुरासुरैः संस्तुतपादपङ्कजः स लब्धवानीप्सितकामसम्पदम् ॥५३॥तपोबलाद् गार्ग्यमुनेर्महात्मनो वरप्रभावाच्छकलैन्दुमौलिनः ।भवन्तमासाद्य जनार्दनो हिमं विलीयते भास्कररश्मिना यथा ॥५४॥यतस्व राज्ञां वचनप्रचोदितो व्रजस्व यात्रां विजयाय केशवम् ।प्रविश्य राष्ट्रं मथुरां च सेनया निहत्य कृष्णं प्रथयन् स्वकं यशः ॥५५॥माथुरो वासुदेवोऽयं बलदेवः सबान्धवः ।तौ विजेष्यसि संग्रामे गत्वा तां मथुरां पुरीम् ॥५६॥शाल्व उवाचइत्येवं नरपतिभास्करप्रगीतं वाक्यं ते कथितमिदं हितं नृपाणाम् ।तत्सर्वं सह सचिवैर्विमृश्य बुद्ध्या यद्युक्तं कुरु मनुजेन्द्र चात्मनिष्ठम् ॥५७॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शाल्ववाक्ये त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP