संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
नवाधिकशततमोऽध्यायः

विष्णुपर्व - नवाधिकशततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


बलदेवेन प्रद्युम्नाय आह्निकस्तोत्रस्य उपदेशम्

वैशम्पायन उवाच
अत्राश्चर्यात्मकं स्तोत्रमाह्निकं जयतां वर ।
प्रद्युम्ने द्वारकां प्राप्ते हत्वा तं कालशम्बरम् ॥१॥
बलदेवेन रक्षार्थं प्रोक्तमाह्निकमुच्यते ।
यञ्जप्त्वा तु नृपश्रेष्ठ सायं पूतात्मतां व्रजेत् ॥२॥
कीर्तितं बलदेवेन विष्णुना चैव कीर्तितम् ।
धर्मकामैश्च मुनिभिर्ऋषिभिश्चापि कीर्तितम् ॥३॥
कर्हिचिद् रुक्मिणीपुत्रो हलिना संयुतो गृहे ।
उपविष्टः प्रणम्याथ तमुवाच कृताञ्जलिः ॥४॥
प्रद्युम्न उवाच
कृष्णानुज महाभाग रोहिणीतनय प्रभो ।
किंचित्स्तोत्रं मम ब्रूहि यज्जप्त्वा निर्भयोऽभवम् ॥५॥
श्रीबलदेव उवाच
सुरासुरगुरुर्ब्रह्मा पातु मां जगतः पतिः ।
अथोङ्कारवषट्कारौ सावित्री विधयस्त्रयः ॥६॥
ऋचो यजूंषि सामानि छन्दांस्याथर्वणानि च ।
चत्वारस्त्वखिला वेदाः सरहस्याः सविस्तराः ॥७॥
पुराणमितिहासश्चाखिलान्युपखिलानि च ।
अङ्गान्युपाङ्गानि तथा व्याख्यातानि च पान्तु माम् ॥८॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
इन्द्रियाणि मनो बुद्धिस्तथा सत्त्वं रजस्तमः ॥९॥
व्यानोदानौ समानश्च प्राणोऽपानश्च पञ्चमः ।
वायवः सप्त चैवान्ये येष्वायत्तमिदं जगत् ॥१०॥
मरीचिरङ्गिरात्रिश्च पुलस्त्यः पुलहः क्रतुः ।
भृगुर्वसिष्ठो भगवान् पान्तु ते मां महर्षयः ॥११॥
कश्यपाद्याश्च मुनयश्चतुर्दश दिशो दश ।
नरनारायणौ देवौ सगणौ पान्तु मां सदा ॥१२॥
रुद्राश्चैकादश प्रोक्ता आदित्या द्वादशैव तु ।
अष्टौ च वसवो देवा अश्विनौ द्वौ प्रकीर्तितौ ॥१३॥
ह्रीःश्रीर्लक्ष्मीः स्वधा पुष्टिर्मेधा तुष्टिः स्मृतिर्धृतिः ।
अदितिर्दितिर्दनुश्चैव सिंहिका दैत्यमातरः ॥१४॥
हिमवान् हेमकूटश्च निषधः श्वेतपर्वतः ।
ऋषभः पारियात्रश्च विन्ध्यो वैडूर्यपर्वतः ॥१५॥
सह्योदयश्च मलयो मेरुमन्दरदर्दुराः ।
क्रौञ्चकैलासमैनाकाः पान्तु मां धरणीधराः ॥१६॥
शेषश्च वासुकिश्चैव विशालाक्षश्च तक्षकः ।
एलापत्रः शुक्लवर्णः कम्बलाश्वतरावुभौ ॥१७॥
हस्तिभद्रः पिटरकः कर्कोटकधनंजयौ ।
तथा पूरणकश्चैव नागश्च करवीरकः ॥१८॥
सुमनास्यो दधिमुखस्तथा शृङ्गारपिण्डकः ।
मणिनागश्च भगवांस्त्रिषु लोकेषु विश्रुतः ॥१९॥
नागराडधिकर्णश्च तथा हारिद्रकोऽपरः ।
एते चान्ये च बहवो ये चान्ये नानुकीर्तिताः ॥२०॥
भूधराः सत्यधर्माणः पान्तु मां भुजगेश्वराः ।
समुद्राः पान्तु चत्वारो गङ्गा च सरितां वरा ॥२१॥
सरस्वती चन्द्रभागा शतद्रुर्देविका शिवा ।
द्वारावती विपाशा च सरयूर्यमुना तथा ॥२२॥
कल्माषी च रथोष्मा च बाहुदा च हिरण्यदा ।
प्लक्षा चेक्षुमती चैव स्रवन्ती च बृहद्रथा ॥२३॥
ख्याता चर्मण्वती चैव पुण्या चैव वधूसरा ।
एताश्चान्याश्च सरितो याश्चान्या नानुकीर्तिताः ॥२४॥
उत्तरापथगामिन्यः सलिलैः स्नपयन्तु माम् ।
वेणी गोदावरी सीता कावेरी कौङ्कणावती ॥२५॥
कृष्णा वेणा शुक्तिमती तमसा पुष्पवाहिनी ।
ताम्रपर्णी ज्योतिरथा उत्फलोदुम्बरावती ॥२६॥
नदी वैतरणी पुण्या विदर्भा नर्मदा शुभा ।
वितस्ता भीमरथ्या च ऐला चैव महानदी ॥२७॥
कालिन्दी गोमती पुण्या नदः शोणश्च विश्रुतः ।
एताश्चान्याश्च वै नद्यो याश्चान्या न तु कीर्तिताः ॥२८॥
दक्षिणापथवाहिन्यः सलिलैः स्नपयन्तु माम् ।
क्षिप्रा चर्मण्वती पुण्या मही शुभ्रवती तथा ॥२९॥
सिन्धुर्वेत्रवती चैव भोजान्ता वनमालिका ।
पूर्वभद्रा पराभद्रा ऊर्मिला च परद्रुमा ॥३०॥
ख्याता वेत्रवती चैव चापदासीति विश्रुता ।
प्रस्थावती कुण्डनदी नदी पुण्या सरस्वती ॥३१॥
चित्रघ्नी चेन्दुमाला च तथा मधुमती नदी ।
उमा गुरुनदी चैव तापी च विमलोदका ॥३२॥
विमला विमलोदा च मत्तगङ्गा पयस्विनी ।
एताश्चान्याश्च वै नद्यो याश्चान्या नानुकीर्तिताः ॥३३॥
ता मां समभिषिञ्चन्तु पश्चिमामाश्रिता दिशम् ।
भागीरथी पुण्यजला प्राच्यां दिशि समाश्रिता ।३४॥
सा तु दहतु मे पापं कीर्तिता शम्भुना धृता ।
प्रभासं च प्रयागं च नैमिषं पुष्कराणि च ॥३५॥
गङ्गातीर्थं कुरुक्षेत्रं श्रीकण्ठं गौतमाश्रमम् ।
रामह्रदं विनशनं रामतीर्थं तथैव च॥३६॥
गङ्गाद्वारं कनखलं सोमो वै यत्र चोत्थितः ।
कपालमोचनं तीर्थं जम्बूमार्गं च विश्रुतम् ॥३७॥
सुवर्णबिन्दुं विख्यातं तथा कनकपिङ्गलम् ।
दशाश्वमेधिकं चैव पुण्याश्रमविभूषितम् ॥३८॥
बदरी चैव विख्याता नरनारायणाश्रमः ।
विख्यातं फल्गुतीर्थं च तीर्थं चन्द्रवटं तथा ॥३९॥
कोकामुखं पुण्यतमं गङ्गासागरमेव च ।
मगधेषु तपोदश्च गङ्गोद्भेदश्च विश्रुतः ॥४०॥
तीर्थान्येतानि पुण्यानि सेवितानि महर्षिभिः ।
मां प्लावयन्तु सलिलैः यानि मे कीर्तितानि वै ॥४१॥
सूकरं योगमार्गं च श्वेतद्वीपं तथैव च ।
ब्रह्मतीर्थं रामतीर्थं वाजिमेधशतोपमम् ॥४२॥
धारासम्पातसंयुक्ता गङ्गा किल्बिषनाशिनी ।
गङ्गा वैकुण्ठकेदारं सूकरोदभेदनं परम् ।
तच्छापमोचनं तीर्थं पुनन्त्वेतानि किल्बिषात् ॥४३॥
धर्मार्थकामविषयो यशःप्राप्तिः शमो दमः ।
वरुणेशोऽथ धनदो यमो नियम एव च ॥४४॥
कालो नयः संनतिश्च क्रोधो मोहः क्षमा धृतिः ।
विद्युतोऽभ्राण्यथौषध्यः प्रमादोन्मादविग्रहाः॥४५॥
यक्षाः पिशाचा गन्धर्वाः किन्नराः सिद्धचारणाः ।
नक्तंचराः खेचरिणो दंष्ट्रिणः प्रियविग्रहाः॥४६॥
लम्बोदराश्च बलिनः पिङ्गाक्षा विश्वरूपिणः ।
मरुतः सहपर्जन्याः कलात्रुटिलवाः क्षणाः ॥४७॥
नक्षत्राणि ग्रहाश्चैव ऋतवः शिशिरादयः ।
मासाहोरात्रयश्चैव सूर्याचन्द्रमसौ तथा ॥४८॥
आमोदश्च प्रमोदश्च प्रहर्षः शोक एव च ।
रजस्तमस्तपः सत्यं शुद्धिर्बुद्धिर्धृतिः श्रुतिः ॥४९॥
रुद्राणी भद्रकाली च भद्रा ज्येष्ठा तु वारुणी ।
भासी च कालिका चैव शाण्डिली चेति विश्रुताः॥५०॥
आर्या कुहूः सिनीवाली भीमा चित्ररथी रतिः ।
एकानंशा च कूष्माण्डी देवी कात्यायनी च या॥५१॥
लोहित्या जनमाता च देवकन्यास्तु याः स्मृताः ।
गोनन्दा देवपत्नी च मां रक्षन्तु सबान्धवम्॥५२॥
नानाभरणवेशाश्च नानारूपाङ्किताननाः ।
नानादेशविचारिण्यो नानाशस्त्रोपशोभिताः ॥५३॥
मेदोमज्जाप्रियाश्चैव मद्यमांसवसाप्रियाः ।
मार्जारद्वीपिवक्त्राश्च गजसिंहनिभाननाः ॥५४॥
कङ्कवायसगृध्राणां क्रौञ्चतुल्याननास्तथा ।
व्यालयज्ञोपवीताश्च चर्मप्रावरणास्तद्या ॥५५॥
क्षतजोक्षितवक्त्राश्च खरभेरीसमस्वनाः ।
मत्सराः क्रोधनाश्चैव प्रासादा रुचिरालयाः ॥५६॥
मत्तोन्मत्तप्रमत्ताश्च प्रहरन्त्यश्च धिष्ठिताः ।
पिङ्गाक्षाः पिङ्गकेशाश्च ततोऽन्या लूनमूर्धजाः ॥५७॥
ऊर्ध्वकेश्यः कृष्णकेश्यः श्वेतकेश्यस्तथावराः ।
नागायुतबलाश्चैव वायुवेगास्तथापराः ॥५८॥
एकहस्ता एकपादा एकाक्षाः पिङ्गला मताः ।
बहुपुत्राल्पपुत्राश्च द्विपुत्राः पुत्रमण्डिकाः ॥५९॥
मुखमण्डी बिडाली च पूतना गन्धपूतना ।
शीतवातोष्णवेताली रेवती ग्रहसंज्ञिताः ॥६०॥
प्रियहास्याः प्रियक्रोधाः प्रियवासाः प्रियंवदाः ।
सुखप्रदाश्चासुखदाः सदा द्विजजनप्रियाः ॥६१॥
नक्तंचराः सुखोदर्काः सदा पर्वणि दारुणाः ।
मातरो मातृवत्पुत्रं रञ्जन्तु मम नित्यशः ॥६२॥
पितामहमुखोद्भूता रौद्रा रुद्राङ्गसम्भवाः ।
कुमारस्वेदजाश्चैव ज्वरा वै वैष्णवादयः ॥६३॥
महाभीमा महावीर्या दर्पोदभूता महाबलाः ।
क्रोधनाक्रोधनाः क्रूराः सुरविग्रहकारिणः ॥६४॥
नक्तंचराः केसरिणो दंष्ट्रिणः प्रियविग्रहाः ।
लम्बोदरा जघनिनः पिङ्गाक्षा विश्वरूपिणः ॥६५॥
शक्त्यृष्टिशूलपरिघप्रासचर्मासिपाणयः ।
पिनाकवज्रमुसलब्रह्मदण्डायुधप्रियाः ॥६६॥
दण्डिनः कुण्डिनः शूरा जटामुकुटधारिणः ।
वेदवेदाङ्गकुशला नित्ययज्ञोपवीतिनः ॥६७॥
व्यालापीडाः कुण्डलिनो वीराः केयूरधारिणः ।
नानावस्वनसंवीताश्चित्रमाल्यानुलेपनाः ॥६८॥
गजाश्वोष्ट्रर्क्षमार्जारसिंहव्याघ्रनिभाननाः ।
वराहोलूकगोमायुमृगाखुमहिषाननाः ॥६९॥
वामना विकटाः कुब्जाः कराला लूनमूर्धजाः ।
सहस्रशतशश्चान्ये सहस्रजटधारिणः ॥७०॥
श्वेताः कैलाससंकाशाः केचिद् दिनकरप्रभाः ।
केचिज्जलदवर्णाभा नीलाञ्जनचयोपमाः ॥७१॥
एकपादा द्विपादाश्च तथा द्विशिरसोऽपरे ।
निर्मांसाः स्थूलजंघाश्च व्यादितास्या भयङ्कराः ॥७२॥
वापीतडागकूपेषु समुद्रेषु सरित्सु च ।
श्मशानशैलवृक्षेषु शून्यागारनिवासिनः ॥७३॥
एते ग्रहाश्च सततं रक्षन्तु मम सर्वतः ।
महागणपतिर्नन्दी महाकालो महाबलः ।
माहेश्वरो वैष्णवश्च ज्वरौ लोकभयावहौ ॥७४॥
ग्रामणीश्चैव गोपालो भृङ्गरीटिर्गणेश्वरः ।
देवश्च वामदेवश्च घण्टाकर्णः करंधमः ॥७५॥
श्वेतमोदः कपाली च जम्भकः शत्रुतापनः ।
मज्जनोन्मज्जनौ चोभौ संतापनविलापनौ ॥७६॥
निजघासोऽघसश्चैव स्थूणाकर्णः प्रशोषणः ।
उल्कामाली धमधमो ज्वालामाली प्रमर्दनः ॥७७॥
संघट्टनः संकुटनः काष्ठभूतः शिवंकरः ।
कूष्माण्डः कुम्भमूर्धा च रोचनो वैकृतो ग्रहः ॥७८॥
अनिकेतः सुरारिघ्नः शिवश्चाशिव एव च ।
क्षेमकः पिशिताशी च सुरारिर्हरिलोचनः ॥७९॥
भीमको ग्राहकश्चैव तथैवाग्रमयो ग्रहः ।
उपग्रहोऽर्यकश्चैव तथा स्कन्दग्रहोऽपरः ॥८०॥
चपलोऽसमवेतालस्तामसः सुमहाकपिः ।
हृदयोद्वर्तनश्चैडः कुण्डाशी कङ्कणप्रियः ॥८१॥
हरिश्मश्रुर्गरुत्मन्तो मनोमारुतरंहसः ।
पार्वत्या रोषसम्भूताः सहस्राणि शतानि च ॥८२॥
शक्तिमन्तो धृतिमन्तो ब्रह्मण्याः सत्यसङ्गराः ।
सर्वकामापहन्तारो द्विषतां च मृधेमृधे ॥८३॥
रात्रावहनि दुर्गेषु कीर्तिताः सकलैर्गुणैः ।
तेषां गणानां पतयः सगणाः पान्तु मां सदा ॥८४॥
नारदः पर्वतश्चैव गन्धर्वाप्सरसां गणाः ।
पितरः कारणं कार्यमाधयो व्याधयस्तथा ॥८५॥
अगस्त्यो गालवो गार्ग्यः शक्तिर्धीम्यः पराशरः ।
कृष्णात्रेयश्च भगवानसितो देवलो बलः ॥८६॥
बृहस्पतिरुतथ्यश्च मार्कण्डेयः श्रुतश्रवाः ।
द्वैपायनो विदर्भश्च जैमिनिर्माठरः कठः ॥८७॥
विश्वामित्रो वसिष्ठश्च लोमशश्च महामुनिः ।
उत्तङ्कश्चैव रैभ्यश्च पौलोमश्च द्वितस्त्रितः ॥८८॥
ऋषिर्वै कालवृक्षीयो मुनिर्मेधातिथिस्तथा ।
सारस्वतो यवक्रीतिः कुशिको गौतमस्तथा ॥८९॥
संवर्त ऋष्यशृङ्गश्च स्वस्त्यात्रेयो विभाण्डकः ।
ऋचीको जमदग्निश्च तथौर्वस्तपसां निधिः ॥९०॥
भरद्वाजः स्थूलशिराः कश्यपः पुलहः क्रतुः ।
बृहदग्निर्हरिश्मश्रुर्विजयः कण्व एव च ॥९१॥
वैतण्डी दीर्घतापश्च वेदगाथोंऽशुमाञ्छिवः ।
अष्टावक्रो दधीचिश्च श्वेतकेतुस्तथैव च ॥९२॥
उद्दालकः क्षीरपाणिः शृङ्गी गौरमुखस्तथा ।
अग्निवेश्यः शमीकश्च प्रमुचुर्मुमुचुस्तथा ॥९३॥
एते चान्ये च ऋषयो बहवः शंसितव्रताः ।
मुनयः शंसितात्मानो ये चान्ये नानुकीर्तिताः ॥९४॥
त्रयोऽग्नयस्त्रयो वेदास्त्रैविद्याः कौस्तुभो मणिः॥९५॥
उच्चैःश्रवा हयः श्रीमान् वैद्यो धन्वन्तरिर्हरिः ।
अमृतं गौः सुपर्णश्च दधि गौराश्च सर्षपाः ॥९६॥
शुक्लाः सुमनसः कन्याः श्वेतच्छत्रं यवाक्षताः ।
दूर्वा हिरण्यं गन्धाश्च वालव्यजनमेव च ॥९७॥
तथाप्रतिहतं चक्रं महोक्षश्चन्दनं विषम् ।
श्वेतो वृषः करी मत्तः सिंहो व्याघ्रो हयो गिरिः॥९८॥
पृथिवी चोद्धृता लाजा ब्राह्मणा मधु पायसम् ।
स्वस्तिको वर्द्धमानश्च नन्द्यावर्तः प्रियङ्गवः ॥९९॥
श्रीफलं गोमयं मत्स्यो दुन्दुभिः पटहस्वनः ।
ऋषिपत्न्यश्च कन्याश्च श्रीमद् भद्रासनं धनुः ।
रोचना रुचकश्चैव नदीनां संगमोदकम् ॥१००॥
सुपर्णाः शतपत्राश्च चकोरा जीवजीवकाः ।
नन्दीमुखो मयूरश्च बद्धमुक्तामणिध्वजाः ॥१०१॥
आयुधानि प्रशस्तानि कार्यसिद्धिकराणि च ।
पुण्यं वै विगतक्लेशं श्रीमद् वै मङ्गलान्वितम् ॥१०२॥
रामेणोदाहृतं पूर्वमायुःश्रीजयकाङ्क्षिणा ।
य इदं श्रावयेद् विद्वांस्तथैव शृणुयान्नरः॥१०३॥
मङ्गलाष्टशतं स्नातो जपन् पर्वणि पर्वणि ।
वधबन्धपरिक्लेशं व्याधिशोकपराभवम् ॥१०४॥
न च प्राप्नोति वैकल्यं परत्रेह च शर्मदम् ।
धन्यं यशस्यमायुष्यं पवित्रं वेदसम्मितम् ॥१०५॥
श्रीमत्स्वर्ग्यं सदा पुण्यमपत्यजननं शिवम् ।
शुभं क्षेमकरं नॄणां मेधाजननमुत्तमम् ।
सर्वरोगप्रशमनं स्वकीर्तिकुलवर्धनम् ॥१०६॥
श्रद्दधानो दयोपेतो यः पठेदात्मवान्नरः ।
सर्वपापविशुद्धात्मा लभते च शुभां गतिम् ॥१०७॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि बलदेवाह्निकं नाम नवाधिकशततमोऽध्यायः ॥१०९॥

N/A

References : N/A
Last Updated : July 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP