संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| एकोनपञ्चाशत्तमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - एकोनपञ्चाशत्तमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकोनपञ्चाशत्तमोऽध्यायः Translation - भाषांतर दन्तवक्त्रशाल्वयोः भाषणं श्रुत्वा भीष्मकेण श्रीकृष्णस्य प्रभावं वर्णयित्वा तं प्रसन्नकर्तुमेव निश्चयकरणम्वैशम्पायन उवाचइत्येवमुक्ते वचने सुनीथेन महात्मना ।करूषाधिपतिर्वीरो दन्तवक्त्रोऽभ्यभाषत ॥१॥दन्तवक्त्र उवाचयदुक्तं मागधेनात्र सुनीथेन नराधिपाः ।युक्तपूर्वमहं मन्ये यदस्माकं वचो हितम् ॥२॥न च विद्वेषणेनाहं न चाहंकारवादिना ।न चात्मविजिगीषुत्वाद् दूषयामि वचोऽमृतम् ॥३॥वाक्यार्णवं महागाधं नीतिशास्त्रार्थबृंहितम् ।क एष निखिलं वक्तुं शक्तो वै राजसंसदि ॥४॥किं त्वनुस्मरणार्थेऽहं यद् ब्रवीमि शृणुष्व मे ।आगतो वासुदेवेति किमाश्चर्यं नराधिपाः ॥५॥यथाऽऽगता वयं सर्वे कृष्णोऽपीह तथाऽऽगतः ।किमत्र दोषो गौण्यो वा कन्याहेतोः समागताः ॥६॥यदस्माभिः समेत्यैक्यात् कृतं गोमन्तरोधनम् ।तत्र युद्धकृतं दोषं कथं वै वक्तुमर्हथ ॥७॥वनवासे स्थितौ वीरौ कंसव्यामोहद्वेतुना ।देवर्षिवचनाद् राजन् वृन्दावनतटे स्थितौ ॥८॥तावाहूय वधार्थेन उभौ रामजनार्दनौ ।नागेनोद्दीपितौ वीरौ हत्वा नागं विवेशतुः ॥९॥ततः स्ववीर्यमाश्रित्य निहतो रङ्गसागरे ।गतासुरिव चासीनो मथुरेशः सहानुगः ॥१०॥किमत्र विहितो दोषो येनास्माभिर्वयेऽधिकैः ।उपरोधपरा राजन् वयं सर्वे समागताः ॥११॥सेनातिबलमालोक्य वित्रस्तौ रामकेशवौ ।पुरं बलं समुत्सृज्य गोमन्ते च गतावुभौ ॥१२॥तत्रापि गतमस्माभिर्हन्तुं समरयोधिभिः ।अप्राप्तयौवनाभ्यां च पदातिभ्यां रणाजिरे ॥१३॥रथाश्वनरनागेन नास्माभिर्विग्रहः कृतः ।कृत्वोपरोधं शैलस्य क्षत्रधर्मेण दीपितः ॥१४॥दावाग्निमुखमाविश्य दुर्विनीततपस्विनौ ।विनीत इति मन्यामः सर्वे क्षत्रियपुङ्गवाः ।प्रतियुद्धे कृते त्वेवं दूषयाम जनार्दनम् ॥१५॥यत्र यत्र प्रयास्यामो वयं तत्र भवेत् कलिः ।प्रीत्यर्थं प्रयतिष्यामः कृष्णेन सह भूमिपाः ॥१६॥इदं कुण्डिनपुरं कृष्णो नागतः कलिहेतुना ।कन्यानिमित्तागमने कस्य युद्धं प्रयच्छति ॥१७॥मर्त्येऽस्मिन् पुरुषेन्द्रोऽसौ न कश्चित् प्राकृतो नरः ।देवलोकेषु देवेषु प्रवरः पुरुषोत्तमः ॥१८॥देवानामपि कर्तासौ लोकानां च विशेषतः ।न चैव बालिशा बुद्धिर्न चेर्ष्या नापि मत्सरः ॥१९॥न स्तब्धो न कृशो नार्तः प्रणतार्तिहरः सदा ।एष विष्णुः प्रभुर्देवो देवानामपि दैवतम् ॥२०॥आगतो गरुडेनेहच्छद्मप्राकाश्यहेतुना ।नानास्त्रसहितो याति कृष्णः शत्रुविनाशने ॥२१॥इमां यात्रां विजानीध्वं प्रीत्यर्थं ह्यागतो हरिः ।सहितो यादवेन्द्रैश्च भोजवृष्ण्यन्धकैरिह ॥२२॥अर्घ्यमाचमनं दत्त्वा आतिथ्यं च नराधिपाः ।करिष्यामो वयं सर्वे केशवाय महात्मने ॥२३॥एवं संधानतः कृत्वा कृष्णेन सहिता वयम् ।वसामो विगतोद्वेगा निर्भया विगतज्वराः ॥२४॥तस्य तद वचनं श्रुत्वा दन्तवक्त्रस्य धीमतः ।शाल्वः प्रवदतां श्रेष्ठस्तानुवाच नराधिपान् ॥२५॥शाल्व उवाचकिं भयेनास्य नः सर्वे न्यस्तशस्त्रा भवामहे ।संधानकरणाद्धेतोः कृष्णस्य भयकम्पिताः ॥२६॥परस्तवेन किं कार्यं विनिन्द्य बलमात्मनः ।नैष धर्मो नरेन्द्राणां क्षात्रे धर्मे च तिष्ठताम् ॥२७॥महत्सु राजवंशेषु सम्भूताः कुलवर्द्धनाः ।तेषां कापुरुषा बुद्धिः कथं भवितुमर्हति ॥२८॥अहं जानामि वै कृष्णमादिदेवं सनातनम् ।प्रभुं सर्वामरेन्द्राणां नारायणपरायणम् ॥२९॥वैकुण्ठमजयं लोके चराचरगुरुं हरिम् ।सम्भूतं देवकीगर्भे विष्णुं लोकनमस्कृतम् ॥३०॥कंसराजवधार्थाय भारावतरणाय च ।अस्माकं च विनाशाय लोकसंरक्षणाय च ॥३१॥अंशावतरणे कृत्स्नं जाने विष्णोर्विचेष्टितम् ।संग्राममतुलं कृत्वा विष्णुना सह भूमिपाः ॥३२॥चक्रानलविनिर्दग्धा यास्यामो यमसादनम् ।तत्त्वं जानामि राजेन्द्राः कालेनायुःक्षयो भवेत् ॥३३॥नाकाले म्रियते कश्चित् प्राप्ते काले न जीवति ।एवं विनिश्चयं कृत्वा न कुर्यात्कस्यचिद्भयम् ॥३४॥स एव भगवान् विष्णुरालोक्य तपसः क्षयम् ।निहन्ता दितिजेन्द्राणां यथाकालेन योगवित् ॥३५॥बलिं वैरोचनिं चैवं बद्ध्वावध्यं महाबलम् ।कृतवान् देवदेवेशः पातालतलवासिनम् ॥३६॥एवमादीनि वै विष्णोश्चेष्टानि च नराधिपाः ।तस्मादयुक्तं भवतां विग्रहार्थं विचारणम् ॥३७॥न च संग्रामहेतोर्हि कृष्णस्यागमनं त्विह ।यस्य वा कस्य वा कन्या वरयिष्यति तस्य सा ।किमत्र विग्रहो राज्ञां प्रीतिर्भवतु वै ध्रुवम् ॥३८॥वैशम्पायन उवाचएवं कथयमानानां नृपाणां बुद्धिशालिनाम् ।न किंचिदब्रवीद् राजा भीष्मकः पुत्रकारणात् ॥३९॥महावीर्यमदोत्सिक्तं भार्गवास्त्राभिरक्षितम् ।रणप्रचण्डातिरथं विचिन्त्य मनसा सुतम् ॥४०॥भीष्मक उवाचकृष्णं न सहते नित्यं पुत्रो मे बलदर्पितः ।.नित्याभिमानी च रणे न बिभेति च कस्यचित् ॥४१॥कृष्णस्य भुजवीर्येण ह्रियते नात्र संशयः ।भविष्यति ततो युद्धं महापुरुषविग्रहम् ॥४२॥द्वेषी चैवाभिमानी च कुतो जीवति मे सुतः ।जीवितं नात्र पश्यामि मम पुत्रस्य केशवात् ॥४३॥कन्याहेतोः सुतं ज्येष्ठं पितॄणां नन्दिवर्द्धनम् ।कारयिष्ये कथं युद्धं पुत्रेण सह केशवम् ॥४४॥न च नारायणं देवं वरमिच्छति रुक्मवान् ।मूढभावो मदोन्मत्तः संग्रामेष्वनिवर्तकः ।नियतं भस्मसाद् याति तूलराशिर्यथानलात् ॥४५॥करवीरेश्वरः शूरः शृगालश्चित्रयोधिना ।क्षणेन भस्मसान्नीतः केशवेन बलीयसा ॥४६॥वृन्दावनेऽवसच्छ्रीमान् केशवो बलिनां वरः ।उद्धृत्यैकेन हस्तेन सप्ताहं धृतवान् गिरिम् ॥४७॥दुष्करं कर्म संस्मृत्य मनः सीदति मे भृशम् ॥४८॥नगेन्द्रे सहसाऽऽगम्य दैवतैः सह वृत्रहा ।अभिषिच्याब्रवीत् कृष्णमुपेन्द्रेति शचीपतिः ॥४९॥यथा वै दमितो नागः कालियो यमुनाह्रदे ।विषाग्निज्वलितो घोरः कालान्तकसमप्रभः ॥५०॥केशी चापि महावीर्यो दानवो हयविग्रहः ।निहतो वासुदेवेन देवैरपि दुरासदः ॥५१॥सान्दीपनिसुतश्चैव चिरनष्टो हि सागरे ।दैत्यं पञ्चजनं हत्वा आनीतो यममन्दिरात् ॥५२॥गोमन्ते सुमहद् युद्धे बहुभिर्वेष्टितावुभौ ।कृत्वा वित्रासजननं नागाश्वरथसंक्षयम् ॥५३॥गजेन गजवृन्दानि रथेन रथयोधिनः ।सादिनश्चाश्वयोधेन नरेण च पदातिनः ।जघ्नतुस्तौ महावीर्यौ वसुदेवसुतावुभौ ॥५४॥न देवासुरगन्धर्वा न यक्षोरगराक्षसाः ।न नागा न च दैत्येन्द्रा न पिशाचा न गुह्यकाः ॥५५॥कृतवन्तस्तथा घोरं गजाश्वरथसंक्षयम् ।तमनुस्मृत्य संग्रामं भृशं सदिति मे मनः ॥५६॥न मया श्रुतपूर्वो वा दृष्टपूर्वः कुतोऽपि वा ।तादृशो भुवि मर्त्योऽन्यो वासुदेवात्सुरोत्तमात् ॥५७॥सम्यगाह महाबाहुर्दन्तवक्त्रो महीपतिः ।सान्त्वयित्वा महावीर्यं संविधास्याम यत्क्षमम् ॥५८॥वैशम्पायन उवाचइति संचिन्त्य मनसा बलाबलविनिश्चयम् ।गमनाय मतिं चक्रे प्रसादयितुमच्युतम् ॥५९॥चिन्तयानो नरेन्द्रस्तु बहुभिर्नयशालिभिः ।सूतमागधबन्दिभ्यो बोधितः स्तुतिमङ्गलैः ॥६०॥प्रभातायां रजन्यां तु कृतपूर्वाह्णिकक्रियाः ।उपविष्टा नृपाः सर्वे स्वेषु विश्रामवेश्मसु ॥६१॥ये विसृष्टास्तु राजानो विदर्भायां नराधिपैः ।तैरागम्य स्वभूपेषु रहो गत्वा निवेदितम् ॥६२॥श्रुत्वा कृष्णाभिषेकं तु केचिद् धृष्टा नराधिपाः ।केचिद् दीनतरा भीता उदासीनास्तथा परे ॥६३॥त्रिधा प्रभिन्ना सा सेना नरनागाश्वमालिनी ।महार्णव इव क्षुब्धा अभिषेकेण चालिता ॥६४॥नृपाणां भेदमालोक्य भीष्मको राजसत्तमः ।व्यतिक्रममचिन्त्यं च कृतं नृपतिना स्वयम् ॥६५॥विचिन्त्य मनसा राजा दह्यमानेन चेतसा ।जगाम नरदेवानां समाजे प्रतिबोधितुम् ॥६६॥एतस्मिन्नन्तरे दूताः सम्प्राप्ताः क्रथकैशिकौ ।लेखमुद्धृत्य शिरसा विविशुस्ते नृपार्णवम् ॥६७॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे एकोनपञ्चाशत्तमोऽध्यायः ॥४९॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP