संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
शततमोऽध्यायः

विष्णुपर्व - शततमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


श्रीकृष्णेन समस्तैः यादवैः सह मिलित्वा सम्माननार्थाय तेषां सभायां आमन्त्रणम्

वैशम्पायन उवाच
ततः सम्पूज्य गरुडं वासुदेवोऽनुमान्य च ।
सखिवच्चोपगृह्यैनमनुजज्ञे गृहं प्रति ॥१॥
सोऽनुज्ञातो हि सत्कृत्य प्रणम्य च जनार्दनम् ।
ऊर्ध्वमाचक्रमे पक्षी यथेष्टं गगनेचरः ॥२॥
स पक्षवातसंक्षुब्धं समुद्रं मकरालयम् ।
कृत्वा वेगेन महता ययौ पूर्वमहोदधिम् ॥३॥
कृत्यकाले उपस्थास्य इत्युक्त्वा गरुडे गते ।
कृष्णो ददर्श पितरं वृद्धमानकदुन्दुभिम् ॥४॥
उग्रसेनं च राजानं बलदेवं च सात्यकिम् ।
काश्यं सान्दीपनिं चैव ब्रह्मगार्ग्यं तथैव च ॥५॥
अन्यांश्च वृद्धान्वृष्णीनां तांश्च भोजान्धकांस्तथा ।
रत्नप्रवेकैर्दाशार्हान् वीर्यलब्धैस्तथार्चयत् ॥६॥
हता ब्रह्मद्विषः सर्वे जयन्त्यन्धकवृष्णयः ।
रणात् प्रतिनिवृत्तोऽयमक्षतो मधुसूदनः ॥७॥
इति चत्वररथ्यासु द्वारवत्यां सुपूजितः ।
चाक्रिको घोषयामास पुरुषो मृष्टकुण्डलः ॥८॥
ततः सान्दीपनिं पूर्वमभिगम्य जनार्दनः ।
ववन्दे वृष्णिनृपतिमाहुकं विनयान्वितः ॥९॥
तथाश्रुपरिपूर्णाक्षमानन्दागतचेतसम् ।
ववन्दे सह रामेण पितरं वासवानुजः ॥१०॥
उपगम्य तथा शेषान् सत्कृत्य च यथार्हतः ।
सर्वेषां नाम जग्राह दाशार्हाणामधोक्षजः ॥११॥
ततः सर्वाणि दिव्यानि सर्वरत्नमयानि च ।
आसनाग्र्याणि विविशुरुपेन्द्रप्रमुखास्तदा ॥१२॥
ततस्तद्धनमक्षय्यं किङ्करैर्यत्समाहृतम् ।
तत्सभामानयामासुः पुरुषाः कृष्णशासनात् ॥१३॥
ततः सम्मानयामास दाशार्हांश्च यदूत्तमः ।
सर्वान् दुन्दुभिशब्देन पूजयिष्यञ्जनार्दनः ॥१४॥
तामासनवतीं रम्यां मणिविद्रुमतोरणाम् ।
सभां सर्वदशार्हास्ते विविशुः कृष्णशासनात् ॥१५॥
ततः पुरुषसिंहैर्या यदुभिः सर्वतो वृता ।
खर्वार्थगुणसम्पन्ना सा सभा भरतर्षभ ।
शुशुभेऽभ्यधिकं शुभ्रा सिंहैर्गिरिगुहा यथा ॥१६॥
रामेण सह गोविन्दः काञ्चनं महदासनम् ।
उग्रसेनं पुरस्कृत्य भोजवृष्णिपुरस्कतः ॥१७॥
तत्रोपविष्टांस्तान् वीरान् यथाप्रीति यथावयः ।
समाभाष्य यदुश्रेष्ठानुवाच पुरुषोत्तमः ॥१८॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि सभाप्रवेशनं नाम शततमोऽध्यायः ॥१००॥

N/A

References : N/A
Last Updated : July 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP