संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| सप्तनवतितमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - सप्तनवतितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण सप्तनवतितमोऽध्यायः Translation - भाषांतर प्रद्युम्नेन वज्रनाभस्य वधं, प्रद्युम्नादीनां पुत्राणां राज्याभिषेकःवैशम्पायन उवाचजगतश्चक्षुषि ततो मुहूर्ताभ्युदिते रवौ ।प्रादुरासीद्धरिर्देवस्तार्क्ष्येणोरगशत्रुणा ॥१॥हंसत्रायुमनोभिश्च सुशीघ्रतरगः खगः ।तस्थौ वियति शक्रस्य समीपे कुरुनन्दन ॥२॥समेत्य च यथान्यायं कृष्णो वासवसंनिधौ ।पाञ्चजन्यं हरिर्दध्मौ दैत्यानां भयवर्द्धनम् ॥३॥तं श्रुत्वाभ्यागतस्तत्र प्रद्युम्नो परवीरहा ।वज्रनाभं जहीत्युक्तः केशवेन त्वरेति च ॥४॥तार्क्ष्यमारुह्य गच्छेति पुनरेव प्रणोदितः ।चकार स तथा वीरः प्रणिपत्य सुरोत्तमौ ॥५॥स मनोरंहसा वीर तार्क्ष्येणाशु ययौ नृप ।अभ्याशं वज्रनाभस्य महाद्वन्द्वस्य भारत ॥६॥ततस्तार्क्ष्यगतो वीरस्ततर्द राणमूर्द्धनि ।वज्रनाभं स्थिरो भूत्वा सर्वास्त्रविदनिन्दितः ॥७॥तेन तार्क्ष्यगतेनैव गदया कृष्णसूनुना ।उरस्यभ्याहतो वीरो वज्रनाभो महात्मना ॥८॥स तेनाभिहतो वीरो दैत्यो मोहवशं गतः ।चक्षार च भृशं रक्तं बभ्रामैव गतासुवत् ॥९॥आश्वसेत्यथ तं कार्ष्णिरुवाच रणदुर्जयः ।लब्धसंज्ञः स वीरस्तु प्रद्युम्नमिदमब्रवीत् ॥१०॥साधु यादव वीर्येण श्लाघ्यो मम रिपुर्भवान् ।प्रतिप्रहारकालोऽयं स्थिरो भव महाबल ॥११॥एवमुक्त्वा महानादं मुक्त्वा मेघशतोपमम् ।गदां मुमोच वेगेन सघण्टां बहुकण्टकाम् ॥१२॥तया ललाटेऽभिहतः प्रद्युम्नो गदया नृप ।उद्वमन् रुधिरं भूरि मुमोह यदुनन्दनः ॥१३॥तं दृष्ट्वा भगवान् कृष्णः पाञ्चजन्यं जलोद्भवम् ।दध्मावाश्वासनकरं पुत्रस्य रिपुनाशनः ॥१४॥तं पाञ्चजन्यशब्देन प्रत्याश्वस्तं महाबलम् ।दृष्ट्वा प्रमुदिता लोका विशेषेणेन्द्रकेशवौ ॥१५॥तस्य चक्रं करे यातं कृष्णच्छन्देन भारत ।क्षुरनेमिसहस्रारं दैत्यसंघकुलान्तकम् ॥१६॥तन्मुमोचाच्युतसुतस्तस्य नाशाय भारत ।नमस्कृत्वा सुरेन्द्राय कृष्णाय च महात्मने ॥१७॥वज्रनाभस्य तत्कायादुच्चकर्त शिरस्तदा ।नारायणसुतोन्मुक्तं दैत्यानामनुपश्यताम् ॥१८॥गदः सुनाभमवधीद् यतमान रणाजिरे ।हर्म्यपृष्ठे जिघांसन्तं रणदृप्तं भयानकम् ॥१९॥साम्बः समरमध्यस्थानसुरानरिमर्दनः ।निनाय निशितैर्बाणैः प्रेताधिपपरिग्रहम् ॥२०॥निकुम्भोऽपि हते वीरे वज्रनाभे महासुरे ।जगाम षट्पुरं वीरो नारायणभयार्दितः ॥२१॥निबर्हिते देवरिपौ वज्रनाभे महासुरे ।अवतीर्णौ महात्मानौ हरी वज्रपुरं तदा ॥२२॥लब्धप्रशमनं चैव चक्रतुः सुरसत्तमौ ।सान्त्वयामासतुश्चैव बालवृद्धं भयार्दितम् ॥२३॥इन्द्रोपेन्द्रौ महात्मानौ मन्त्रयित्वा महाबलौ ।आयत्यां च तदात्वे च नृहस्पतिमतानुगौ ॥२४॥वज्रनाभस्य तद् राज्यं चतुर्धा चक्रतुर्नृप ।विजयस्य चतुर्भागं जयन्ततनयस्य वै ॥२५॥प्रद्युम्नस्य चतुर्भागं रौक्मिणेयसुतस्य च ।चन्द्रप्रभस्य ददतुश्चतुर्भागं जनेश्वर ॥२६॥कोट्यश्चतस्रो ग्रामाणामधिकास्ता विशाम्पते ।शाखापुरसहस्रं च स्फीतं वज्रपुरोपमम् ।चतुर्धा चक्रतुस्तत्र संहृष्टौ शक्रकेशवौ ॥२७॥कम्बलाजिनवासांसि रत्नानि विविधानि च ।चतुर्द्धा चक्रतुर्वीरौ वीर वासवकेशवौ ॥२८॥ततोऽभिषिक्तास्ते वीरा राजानो वासवाज्ञया ।देवदुन्दुभिवाद्येन नृप विष्णुपदीजलैः ॥२९॥स्वयं शक्रेण देवेन केशवेन च धीमता ।ऋषिवंशे महात्मानः शक्रमाधवनन्दनाः ॥३०॥विजयस्य प्रसिद्धेव गतिर्वियति धीमतः ।मातृजेन गुणेनापि माधवानां महात्मनाम् ॥३१॥अभिषिच्य जयन्तं तु वासवो भगवान् ब्रवीत् ।त्वयैते वीर संरक्ष्या राजानः समितिंजयाः ॥३२॥मम वंशकरोऽत्रैकः केशवस्य त्रयोऽनघ ।अवध्याः सर्वभूतानां भविष्यन्ति ममाज्ञया ॥३३॥गमनागमनं चैव दिवि सिद्धं भविष्यति ।त्रिविष्टपं द्वारकां च रम्यां भैमाभिरक्षिताम् ॥३४॥दिशागजसुतान् नागान् हयांश्चोच्चैःश्रवोऽन्वयान् ।इच्छयैषां प्रयच्छस्व रथांस्त्वष्टृकृतानपि ॥३५॥गजावैरावणसुतौ शत्रुञ्जयरिपुञ्जयौ ।प्रयच्छाकाशगौ वीर साम्बस्य च गदस्य च ॥३६॥आकाशेन पुरीं यातु द्वारकां भैमरक्षिताम् ।आयातु च सुतौ द्रष्टुं यथेष्टं भैमनन्दनौ ॥३७॥इति संदिश्य भगवान् देवराजः पुरन्दरः ।जगाम भगवान् स्वर्गं द्वारकामपि केशवः ॥३८॥षण्मासानुषितस्तत्र गदः प्रद्युम्न एव च ।साम्बश्च द्वारकां याता रूढे राज्ये महाबलाः ॥३९॥अद्यापि तानि राज्यानि मेरोः पार्श्वे तथोत्तरे ।तिष्ठन्ति च जगद् यावत् स्थास्यन्त्यमरसंनिभ ॥४०॥निवृत्ते मौसले युद्धे स्वर्गं यातेषु वृष्णिषु ।गदप्रद्युम्नसाम्बास्ते गता वज्रपुरं विभो ॥४१॥ततः प्रोष्य पुनर्यान्ति स्वर्ग स्वैः कर्मभिः शुभैः ।प्रसादेन च कृष्णस्य लोककर्तुर्जनेश्वर ॥४२॥प्रद्युम्नोत्तरमेतत् ते नृदेव कथितं मया ।धन्यं यशस्यमायुष्यं शत्रुनाशनमेव च ॥४३॥पुत्रपौत्रा विवर्धन्ते आरोग्यधनसम्पदः ।यशो विपुलमाप्नोति द्वैपायनवचो यथा ॥४४॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वज्रनाभवधो नाम सप्तनवतितमोऽध्यायः ॥९७॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP