संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| सप्तत्रिंशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - सप्तत्रिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण सप्तत्रिंशोऽध्यायः Translation - भाषांतर जरासंधस्य पुनराक्रमणात् शङ्कितानां यादवानां सभायां विकद्रोः भाषणम् - राज्ञः हर्यश्वस्य चरित्रं, तस्मात् यदोः एवं यादवानां उत्पत्तेः वर्णनम्वैशम्पायन उवाचस कृष्णस्तत्र बलवान् रौहिणेयेन संगतः ।मथुरां यादवाकीर्णां पुरीं तां सुखमावसत् ॥१॥प्राप्तयौवनदेहस्तु युक्तो राजश्रिया विभुः ।चचार मथुरां प्रीतः सवनाकरभूषणाम् ॥२॥कस्यचित् त्वथ कालस्य राजा राजगृहेश्वरः ।सस्मार निहतं कंसं जरासंधः प्रतापवान् ॥३॥युद्धाय योजितो भूयो दुहितृभ्यां महीपतिः ।दश सप्त च संग्रामाञ्जरासंधस्य यादवाः ।ददुर्न चैनं समरे हन्तुं शेकुर्महारथाः ॥४॥ततो मागधराट् श्रीमांश्चतुरङ्गवलान्वितः ।भूयोऽप्यष्टादशं कर्तुं संग्रामं स समारभत् ॥५॥वैलक्ष्यात् पुनरेवासौ राजा राजगृहेश्वरः ।जरासंधो बली श्रीमान् पाकशासनविक्रमः ॥६॥स साधनेन महता बृहद्रथसुतो बली ।कृष्णस्य वधमन्विच्छन् भूयो वै संन्यवर्तत ॥७॥तं श्रुत्वा सहिताः सर्वे निवृत्तं मगधेश्वरम् ।यादवा मन्त्रयामासुर्जरासंधभयार्दिताः ॥८॥ततः प्राह महातेजा विकद्रुर्नयकोविदः ।कृष्णं कमलपत्राक्षमुग्रसेनस्य शृण्वतः ॥९॥श्रूयतां तात गोविन्द कुलस्यास्य समुद्भवः ।श्रूयतामभिधास्यामि प्राप्तकालमहं ततः ।युक्तं चेन्मन्यसे साधो करिष्यसि वचो मम ॥१०॥यादवस्यास्य वंशस्य समुद्भवमशेषतः ।यथा मे कथितः पूर्वं व्यासेन विदितात्मना ॥११॥आसीद् राजा मनोर्वंशे श्रीमानिक्ष्वाकुसम्भवः ।हर्यश्व इति विख्यातो महेन्द्रसमविक्रमः ॥१२॥तस्यासीद् दयिता भार्या मधोर्दैत्यस्य वै सुता ।देवी मधुमती नाम यथेन्द्रस्य शची तथा ॥१३॥सा यौवनगुणोपेता रूपेणाप्रतिमा भुवि ।मनोरथकरी राज्ञः प्राणेभ्योऽपि गरीयसी ॥१४॥दानवेन्द्रकुले जाता सुश्रोणी कामरूपिणी ।एकपत्नीव्रतधरा खेचरा रोहिणी यथा ॥१५॥सा तमिक्ष्वाकुशार्दूलं कामयामास कामिनी ।स कदाचिन्नरश्रष्ठो भ्रात्रा ज्येष्ठेन माधव ॥१६॥राज्यान्निरस्तो विश्वस्तः सोऽयोध्यां सम्परित्यजत् ।स तदाल्पपरीवारः प्रियया सहितो वने ॥१७॥रेमे समेत्य कालज्ञः प्रियया कमलेक्षणः ।भ्रात्रा विनिष्कृतं राज्यात् प्रोवाच कमलेक्षणा ॥१८॥एह्यागच्छ नरश्रेष्ठ त्यज राज्यकृतां स्पृहाम् ।गच्छावः सहितौ वीर मधोर्मम पितुर्गृहम् ॥१९॥रम्यं मधुवनं नाम कामपुष्पफलद्रुमम् ।सहितौ तत्र रंस्यावो यथा दिवि गतौ तथा ॥२०॥पितुर्मे दयितस्त्वं हि मातुर्मम च पार्थिव ।मत्प्रियार्थं प्रियतरो भ्रातुश्च लवणस्य वै ॥२१॥रंस्यावस्तत्र सहितौ राज्यस्थाविव कामगौ ।तत्र गत्वा नरश्रेष्ठ ह्यमराविव नन्दने ।भद्रं ते विहरिष्यावो यथा देवपुरे तथा ॥२२॥तं त्यजाव महाराज भ्रातरं तेऽभिमानिनम् ।आवयोर्द्वेषिणं नित्यं मत्तं राज्यमदेन वै ॥२३॥धिगिमं गर्हितं वासं भृत्यवच्च पराश्रयम् ।गच्छावः सहितौ वीर पितुर्मे भवनान्तिकम् ॥२४॥तस्य सम्यक्प्रवृत्तस्य पूर्वजं भ्रातरं प्रति ।कामार्तस्य नरेन्द्रस्य पत्न्यास्तद् रुरुचे वचः ॥२५॥ततो मधुपुरं राजा हर्यश्वः स जगाम च ।भार्यया सह कामिन्या कामी पुरुषपुङ्गवः ॥२६॥मधुना दानवेन्द्रेण स साम्ना समुदाहृतः ।स्वागतं वत्स हर्यश्व प्रीतोऽस्मि तव दर्शनात् ॥२७॥यदेतन्मम राज्यं वै सर्वं मधुवनं विना ।ददामि तव राजेन्द्र वासश्च प्रतिगृह्यताम् ॥२८॥वनेऽस्मिँल्लवणश्चायं सहायस्ते भविष्यति ।अमित्रनिग्रहे चैव कर्णधारत्वमेष्यति ॥२९॥पालयैनं शुभं राष्ट्रं समुद्रानूपभूषितम् ।गोसमृद्धं श्रिया जुष्टमाभीरप्रायमानुषम् ॥३०॥अत्र ते वसतस्तात दुर्गं गिरिपुरं महत् ।भविता पार्थिवावासः सुराष्ट्रविषयो महान् ॥३१॥अनूपविषयश्चैव समुद्रान्ते निरामयः ।आनर्तं नाम ते राष्ट्रं भविष्यत्यायतं महत् ॥३२॥तद् भविष्यमहं मन्ये कालयोगेन पार्थिव ।अध्यास्यतां यथाकालं पार्थिवं वृत्तमुत्तमम् ॥३३॥यायातमपि वंशस्ते समेष्यति च यादवम् ।अनु वंशं च वंशस्ते सोमस्य भविता किल ॥३४॥एष मे विभवस्तात तवेमं विषयोत्तमम् ।दत्त्वा यास्यामि तपसे सागरं लवणालयम् ॥३५॥लवणेन समायुक्तस्त्वमिमं विषयोत्तमम् ।पालयस्वाखिलं तात स्वस्य वंशस्य वृद्धये ॥३६॥बाढमित्येव हर्यश्वः प्रतिजग्राह तत् पुरम् ।स च दैत्यस्तपोवासं जगाम वरुणालयम् ॥३७॥हर्यश्वश्च महातेजा दिव्ये गिरिवरोत्तमे ।निवेशयामास पुरं वासार्थममरोपमः ॥३८॥आनर्तं नाम तद् राष्ट्रं सुराष्ट्रं गोधनायुतम् ।अचिरेणैव कालेन समृद्धं प्रत्यपद्यत ॥३९॥अनूपविषये चैव वेलावनविभूषितम् ।विचित्रं क्षेत्रसस्याढ्यं प्राकारग्रामसंकुलम् ॥४०॥शशास नृपतिः स्फीतं तद् राष्ट्रं राष्ट्रवर्द्धनः ।राजधर्मेण यशसा प्रजानां नन्दिवर्द्धनः ॥४१॥तस्य सम्यक प्रचारेण हर्यश्वस्य महात्मनः ।व्यवर्धत तदक्षोभ्य राष्ट्रं राष्ट्रगुणैर्युतम् ॥४२॥स हि राजा स्थितो राज्ये राजवृत्तेन शोभितः ।प्राप्तः कुलोचितां लक्ष्मीं वृत्तेन च नयेन च ॥४३॥तस्यैव च सुवृत्तस्य पुत्रकामस्य धीमतः ।मधुमत्यां सुतो जज्ञे यदुर्नाम महायशाः ॥४४॥सोऽवर्धत महातेजा यदुर्दुन्दुभिनिःस्वनः ।राजलक्षणसम्पन्नः सपत्नैर्दुरतिक्रमः ॥४ ५॥यदुर्नामाभवत् पुत्रो राजलक्षणपूजितः ।यथास्य पूर्वजो राजा पूरुः स सुमहायशाः॥४६॥स एक एव तस्यासीत् पुत्रः परमशोभनः ।ऊर्जितः पृथिवीभर्ता हर्यश्वस्य महात्मनः ॥४७॥दस वर्षसहस्राणि स कृत्वा राज्यमव्ययम् ।जगाम त्रिदिवं राजा धर्मेणाप्रतिमो भुवि ॥४८॥ततो यदुरदीनात्मा प्रजाभिस्त्वभ्यषिच्यत ।पितर्युपरते श्रीमान् क्रमेणार्क इवोदितः ॥४९॥शशास चेमां वसुधां प्रशान्तभयतस्कराम् ।यदुरिन्द्रप्रतीकाशो नृपो येनास्य यादवाः ॥५०॥स कदाचिन्नृपश्चक्रे जलक्रीडां महोदधौ ।दारैः सह गुणोदारैः सतार इव चन्द्रमाः ॥५१॥स तत्र सहसा क्षिप्तस्तितीर्षुः सागराम्भसि ।धूम्रवर्णेन नृपतिः सर्पराजेन वीर्यवान् ॥५२॥सोऽपाकृष्यत वेगेन जले सर्पपुरं महत् ।मणिस्तम्भगृहद्वारं मुक्तादामविभूषितम् ॥५३॥कीर्णं शङ्खकुलैः शुभ्रै रत्नराशिविभूषितम् ।प्रवालाङ्कुरपत्राढ्यैः पादपैरुपशोभितम् ॥५४॥कीर्णं पन्नगनार्योघैः समुद्रोदरवासिभिः ।स्वर्णवर्णेन भास्वन्तं स्वस्तिकेनेन्दुवर्चसा ॥५५॥स तं ददर्श राजेन्द्रो विमले सागराम्भसि ।पन्नगेन्द्रपुरं तोये जगत्यामिव निर्मितम् ॥५६॥स्वच्छं चैव पुरं तत्र प्रविवेश नृपो यदुः ।अगाधं तोयदाकारं पूर्णं सर्पवधूगणैः ॥५७॥तस्य दत्तं मणिमयं जलजं परमासनम् ।स्वास्तीर्णं पद्मपत्रैश्च पद्मसूत्रोत्तरच्छदम् ॥५८॥तमासीनं नृपं तत्र परमे पन्नगासने ।द्विजिह्वपतिरव्यग्रो धूम्रवर्णोऽभ्यभाषत ॥५९॥पिता ते स्वर्गतिं प्राप्तः कृत्वा वंशमिमं महत् ।भवन्तं तेजसा युक्तमुत्पाद्य वसुधाधिपम् ॥६०॥यादवानामयं वंशस्त्वन्नाम्ना यदुपुङ्गव ।पित्रा ते मङ्गलार्थाय स्थापितः पार्थिवाकरः ॥६१॥वंशे चास्मिंस्तव विभो देवानां तनयाव्ययाः ।ऋषीणामुरगाणां च उत्पत्स्यन्ते नृयोनिजाः ॥६२॥तन्ममेमाः सुताः पञ्च कुमार्यो वृत्तसम्मताः ।उत्पन्ना यौवनाश्वस्य भगिन्यां नृपसत्तम ॥६३॥प्रतीच्छेमाः स्वधर्मेण प्राजापत्येन कर्मणा ।वरं च ते प्रदास्यामि वरार्हस्त्वं मतो मम ॥६४॥भैमाश्च कुकुराश्चैव भोजाश्चान्धकयादवाः ।दाशार्हा वृष्णयश्चेति ख्यातिं यास्यन्ति सप्त ते ॥६५॥स तस्मै धूम्रवर्णो वै कन्याः कन्याव्रते स्थिताः ।जलपूर्णेन योगेन ददाविन्द्रसमाय वै ॥६६॥वरं चास्मै ददौ प्रीतः स वै पन्नगपुङ्गवः ।श्रावयन् कन्यकाः सर्वा यथाक्रममदीनवत् ॥६७॥एतासु ते सुताः पञ्च सुतासु मम मानद ।उत्पत्स्यन्ते पितुस्तेजो मातुश्चैव समाश्रिताः ॥६८॥अस्मत्समयबद्धाश्च सलिलाभ्यन्तरेचराः ।तव वंशे भविष्यन्ति पार्थिवाः कामरूपिणः ॥६९॥स वरं कन्यकाश्चैव लब्ध्वा यदुवरस्तदा ।उदतिष्ठत् वेगेन सलिलाच्चन्द्रमा इव ॥७०॥स पञ्चकन्यामध्यस्थो ददृशे तत्र पार्थिवः ।पञ्चतारेण संयुक्तो नक्षत्रेणेव चन्द्रमाः ॥७१॥स तदन्तःपुरं सर्वं ददर्श नृपसत्तमः ।वैवाहिकेन वेषेण दिव्यस्रगनुलेपनः ॥७२॥समाश्वास्य च ताः सर्वाः स पत्नीः पावकोपमाः ।जगाम स्वपुरं राजा प्रीत्या परमया युतः ॥७३॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि विकद्रुवाक्यं नाम सप्तत्रिंशोऽध्यायः ॥३७॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP