संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| दशाधिकशततमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - दशाधिकशततमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण दशाधिकशततमोऽध्यायः Translation - भाषांतर द्वारकायां आगतानां राजानां मध्ये नारदेन श्रीकृष्णस्य परमधन्यतायाः प्रतिपादनम्वैशम्पायन उवाचहृतो यदैव प्रद्युम्नः शाम्बरेणात्मघातिना ।मासेऽस्मिन्नेव साम्बस्तु जाम्बवत्यामजायत ॥१॥बाल्यात्प्रभृति रामेण शस्त्रेषु विनियोजितः ।रामादनन्तरश्चैव मानितः सर्ववृष्णिभिः ॥२॥जातमात्रे ततः कृष्णः शुभां तामवसत् पुरीम् ।निहतामित्रसामन्तः शक्रोद्यानं यथामरः ॥३॥यादवीं च श्रियं दृष्ट्वा स्वां श्रियं द्वेष्टि वासवः ।जनार्दनभयाच्चैव न शान्तिं लेभिरे नृपाः ॥४॥कस्यचित् त्वथ कालस्य पुरे वारणसाह्रये !दुर्योधनस्य यज्ञे वै समीयुः सर्वपार्थिवाः ॥५॥तां श्रुत्वा माधर्वीं लक्ष्मीं सपुत्रं च जनार्दनम् ।पुरीं द्वारावतीं चैव निविष्टां सागरान्तरे ॥६॥दूतैस्तैः कृतसंघानाः पृथिव्यां सर्वपार्थिवाः ।श्रियं द्रष्टुं दृषीकेशमाजग्मुः कृष्णमन्दिम् ॥७॥दुर्योधनमुखाः सर्वे धृतराष्ट्रवशानुगाः ।पाण्डवप्रमुखाश्चैव धृष्टद्युम्नादयो नृपाः ॥८॥पाण्ड्याश्चोलकलिङ्गेशा बाह्रीका द्राविडाः खशाः ।अक्षौहिणीः प्रकर्षन्तो दृशा चाष्टौ च भूमिपाः ॥९॥आजग्मुर्यादवपुरीं गोविन्दभुजपालिताम् ।ते पर्वतं रैवतकं परिवार्यावनीश्वराः ॥१०॥विविशुर्योजनाख्यासु स्वासु स्वासु च भूमिषु ।ततः श्रीमान् हृषीकेशाः सह् याद्वपुङ्गवैः ॥११॥समीपं मानवेन्द्राणां निर्ययौ कमलेक्षणः ।स तेषां नरदेवानां मध्यस्थेो मधुसूदनः ॥१२॥व्यराजत यदुश्रेष्ठः शरदीव दिवाकरः ।कृत्वा सिंहासने कृष्णः काञ्चने निषसाद् ह ।राजानोऽपि यथास्थानं निषेदुर्विविधेष्वथ ॥१४॥सिंहासनेषु चित्रेषु पीठेषु च नराधिपाः ।स यादवनरेन्द्राणां समाजः शुशुभे तदा ॥१५॥सुराणामसुराणां च सदसि ब्रह्मणो यथा ।तेषां चित्राः कथास्तत्र प्रवृत्तास्तत्समागमे ।यदूनां पार्थिवानां च केशवस्योपश्रृण्वतः ॥१६॥एतस्मिन्नन्तरे वायुर्ववौ मेघरवोपमः ।तुमुलं दुर्दिनं चासीत् सविद्युत्स्तनयित्नुमत् ॥१७॥तद् दुर्दिनतलं भित्त्वा नारद्ः प्रत्यदृश्यत ।संचेष्टितजटाभारो वीणासक्तेन बाहुना ॥१८॥स पपात नरेन्द्राणां मध्ये सागरसंनिभः ।नारदॊऽग्निशिखाकारः श्रीमाञ्छक्रसखो मुनिः ॥१९॥तस्मिन् निपतिते भूमौ नारदे मुनिपुङ्गवे ।तदद्भुतं महामेधं व्यपाकृष्यत दुर्दिनम् ॥२०॥सोऽवगाह्य नरेन्द्राणां मध्ये सागरसंनिभः ।आसनस्थं यदुश्रेष्ठमुवाच मुनिरव्ययम् ॥२१॥आश्चर्यं खलु देवानामेकस्त्वं पुरुषोत्तमः ।धन्यश्चासि महाबाहो लोकेनान्योऽस्ति कश्चन ॥२२॥एवमुक्तः स्मितं कृत्वा प्रत्युवाच मुनिं प्रभुः ।आश्चर्यश्चैव धन्यश्च दक्षिणाभिः सहेत्यहम् ॥२३॥एवमुक्तो मुनिश्रेष्ठः प्राह मध्ये मद्दीभृताम् ।कृष्ण पर्याप्तवाक्योऽस्मि गमिष्यामि यथागतम् ॥२४॥तं प्रस्थितमभिप्रेक्ष्य पार्थिवाः प्राहुरीश्वरम् ।गुह्यं मन्त्रमजानन्तो वचनं नारदेरितम् ॥२५॥आश्चर्यमित्यभिहितं धन्योऽसीति च माधव ।दक्षिणाभिः सहेत्येवं प्रत्युक्तेऽपि च नारदे ॥२६॥किमेतन्नाभिजानीमो दिव्यं मन्त्रपदं महत् ।यदि श्राव्यमिदं कृष्ण श्रोतुमिच्छाम तत्त्वतः ॥२७॥तानुवाच ततः कृष्णः सर्वान् पार्थिवपुङ्गवान् ।श्रोतव्यं नारदस्त्वेष द्विजो वः कथयिष्यति ॥२८॥ब्रूहि नारद तत्त्वार्थं श्रीतुकामा महीभुजः ।यत् त्वयाभिहितं वाक्यं मया नु प्रतिभाषितम् ॥२९ ॥,स पीठे काञ्चने शुभ्रे सूपविष्टः स्वलंकृतः ।प्रभावं तस्य वन्द्यस्य प्रवक्तुमुपचक्रमे ॥३०॥नारद उवाच॥श्रूयतां भो नृपश्रेष्ठा यावन्तः स्थ समागताः ।अस्य कृष्णस्य महतो यथा पारमहं गतः ॥३१॥अहं कदाचिद् गङ्गायास्तीरे त्रिषवणातिथिः ।चराम्येकः क्षपापाये दृश्यमाने दिवाकरे ॥३२॥अपश्यं गिरिकूटाभं कपालद्वयदेहिनम् ।क्रोशमण्डलविस्तारं तावद् द्विगुणमायतम् ॥३३॥चतुश्चरणसुश्लिष्टं क्लिन्नं चैव सपङ्किलम् ॥।मम वीणाकृतिं कूर्मं गजचर्मचयोपमम् ॥३४॥सोऽहं तं पाणिना स्पृष्ट्वा प्रोक्तवाञ्जलचारिणम् ।त्वमाश्चर्यशरीरोऽसि कूर्म धन्योऽसि मे मतः ॥३५॥यस्त्वमेवमभेद्याभ्यां कपालाभ्यां समावृतः ।तोये चरसि निःशङ्कः कंचिद्न्यमचिन्तयन् ॥३६॥स मामुवाचाम्बुचरः कूर्मो मानुषवत्स्वयम् ।किमाश्चर्ये मयि मुने धन्यश्चाहं कथं विभो ॥३७॥गङ्गेयं निम्नगा धन्या किमाश्चर्यमतः परम्॥यत्राहमिव सत्त्वानि चरन्त्ययुतशो द्विज ॥३८॥सोऽहं कुतूहलाविष्टो नर्दी गङ्गामुपस्थितः ।धन्यासि त्वं सरिच्छ्रेष्ठे नित्यमाश्चर्यभूषिता ॥३९॥या त्वमेवं महादेहैः श्वापदैरुपशोभिता ।ह्रदिनी सागरं यासि रक्षन्ती तापसालयान् ॥४०॥एवमुक्ता ततो गङ्गा रूपिणी प्रत्यभाषत ।नारदं देवगन्धर्वं शक्रस्य दयितं द्विजम् ॥४५॥मा मैवं देवगन्धर्व संग्रामकलहप्रिय ।नाहं धन्या द्विजश्रेष्ठ नैवाश्चर्योपशोभिता ॥४२॥तव सत्ये निविष्टस्य वाक्यं मां प्रतिबाधते ।सर्वाश्चर्यकरो लोके धन्यश्चैवार्णवो द्विज ॥४३॥यत्राहमिव विस्तीर्णाः शतशो यान्ति निम्नगाः ।सोऽहं त्रिपथगावाक्यं श्रुत्वार्णवमुपस्थितः ॥४४॥आश्चर्य खलु लोकान धन्यश्चासि महार्णव ।येन खल्वसि योनिस्त्वमम्भसां सलिलेश्वरः ॥४५॥स्थाने त्वां वारिवाहिन्यः सरितो लोकपावना: ।इमाः समभिगच्छन्ति पत्न्यो लोकनमस्कृताः ॥४६॥समुद्रस्त्वेवमुक्तस्तु ततो मामवदद्वचः ।स्वं जलौघतलं भित्त्वा व्युत्थितः पवनेरितः ॥४७॥मा मैवं देवगन्धर्व नास्म्याश्चर्यो द्विजर्षभ ।वसुधेयं मुने धन्या यत्राहमुपरि स्थितः ॥४८॥ऋते तु पृथिवीं लोके किमाश्चर्यमतः परम् ।सोऽहं सागरवाक्येन क्षितिं क्षितितले स्थितः ॥४९॥कौतूहलसमाविष्टो ह्यब्रुवं जगतो गतिम् ।धरित्रि देहिनां योने धन्या खल्वसि शोभने ॥५०॥आश्चर्यं चापि भूतेषु महत्या क्षमया युते ।तेन खल्वसि भूतानां धरणी मनुजारणिः ॥५१॥क्षमा त्वत्तः प्रभूता च कर्म चाम्बरगामिनाम् ।ततो भूः स्तुतिवाक्येन सा मयोक्तेन तेजिता ॥५२॥विहाय सहजं धैर्यं प्रत्यक्षा मामभाषत ।देवगन्धर्व मा मैवं संग्रामकलहप्रिय ॥५३॥नास्मि धन्या न चाश्चर्ये पारक्येयं धृतिर्मम ।एते धन्या द्विजश्रेष्ठ पर्वता धारयन्ति माम् ॥५४॥आश्चर्याणि च दृश्यन्ते एते लोकस्य हेतवः ।सोऽहं धरणिवाक्येन पर्वतान् समुपस्थितः ॥५५॥धन्या भवन्तो दृश्यन्ते बह्वाश्चर्याश्च भूधराः ।काञ्चनस्याग्ररत्नस्य घातूनां च विशेषतः ॥५६॥तेन खल्वाकराः सर्वे भवन्तो भुवि शाश्वताः ।ते ममैतद् वचः श्रुत्वा पर्वतास्तस्थुषां वराः ॥५७॥ऊचुर्मां सान्त्वयुक्तानि वचांसि घनशोभिताः ।ब्रह्मर्षे न वयं धन्या नाप्याश्चर्याणि सन्ति नः ।ब्रह्मा प्रजापतिर्धन्यः सर्वाश्चर्यः सुरेष्वपि ॥५८॥सोऽहं प्रजापतिं गत्वा सर्वप्रभवमव्ययम् ।तस्य वाक्यस्य पर्यायपर्याप्तमिव लक्षये ॥५९॥सोऽहं पितामहं देवं लोकयोनिं चतुर्मुखम् ।स्तोतुं पश्चादुपगतः प्रणतोऽवनताननः ॥६०॥सोऽहं वाक्यसमाप्त्यर्थं श्रावये पद्मयोनिजम् ।आश्चर्यं भगवानेको धन्योऽसि जगतो गुरुः ॥६१॥न किंचिदन्यत् पश्यामि भूतं यद्भवता समम् ।त्वत्तः सर्वमिदं जातं जगत् स्थावरजङ्गमम् ॥६२॥सदेवदानवा मर्त्या लोके भूतेन्द्रियात्मकाः ।भवन्ति सर्वदेवेश दृष्ट्वा सर्वमिदं जगत् ॥६३॥तेन खल्वसि देवानां देवदेवः सनातनः ।तेषामेवासि यत्स्रष्टा लोकानामादिसम्भवः ॥६४॥ततो मां प्राह भगवान् ब्रह्मा लोकपितामहः ।धन्याश्चर्याश्रितैर्वाक्यैः किं मां नारद भाषसे ॥६५॥आश्चर्यं परमं वेदा धन्या वेदाश्च नारद ।ये लोकान् धारयन्ति स्म वेदास्तत्त्वार्थदर्शिनः ॥६६॥ऋक्सामयजुषां सत्यमथर्वणि च यन्मतम् ।तन्मयं विद्धि मां विप्रं धृतोऽहं तैर्मया च ते ॥६७॥पारमेष्ठ्येन वाक्येन नोदितोऽहं स्वयम्भुवा ।वेदोपस्थानिकां चक्रे मतिं संस्थानविस्तरात् ॥६८॥सोऽहं स्वयम्भूवचनाद् वेदान् वै समुपस्थितः ।अवोचं तांश्च चतुरो मन्त्रप्रवचनान्वितान् ॥६९॥धन्या भवन्तः पुण्याश्च नित्यमाश्चर्यभूषिताः ।आधाराश्चैव विप्राणामेवमाह प्रजापतिः ॥७०॥स्वयम्भुवोऽपीह परं भवत्सु प्रश्नमागतम् ।युष्मत्परतरं नास्ति श्रुत्या वा तपसापि वा ॥७१॥प्रत्यूचुस्ते ततो वाक्यं वेदा मामभितः स्थिताः ।आश्चर्याश्चैव धन्याश्च यज्ञाश्चात्मपरायणाः ॥७२॥यज्ञार्थे च वयं सृष्टा धात्रा येन स्म नारद॥तदस्माकं परो यज्ञो न वयं स्ववशे स्थिताः ॥७३॥स्वयम्भुवः परा वेदा वेदानां क्रतवः पराः ।ततोऽहमब्रुवं यज्ञान् बृहद्वाग्भिः पुरस्कृतान्॥७४॥भो यज्ञाः परमं तेजो युष्मासु खलु लक्ष्यते ।ब्रह्मणाभिहितं वाक्यं यच्च वेदैरुदीरितम् ॥७५॥आाश्चर्यमन्यल्लोकेऽस्मिन् भवद्भ्यो नाभिगम्यते ।धन्याः खलु भवन्तो ये द्विजातीनां स्ववंशजाः ॥७६॥तेऽपि खल्वग्नयस्तृप्तिं युष्माभिर्यान्ति तर्पिताः ।भागैश्च त्रिदशाः सर्वे मन्त्रैश्चैव महर्षयः ॥७७॥अग्निष्टोमादयो यज्ञा मम वाक्यादनन्तरम् ।प्रत्यूचुर्मां ततो वाक्यं सर्वे यूपध्वजाः स्थिताः ॥७८॥आश्चर्यशब्दो नास्मासु धन्यशब्दोऽपि वा मुने ।आश्चर्यं परमं विष्णुः स ह्यस्माकं परा गतिः ॥७९॥यदाज्यं वयमश्नीमो हुतमग्निषु पावनम् ।तत् सर्वं पुण्डरीकाक्षो लोकमूर्तिः प्रयच्छति ॥८०॥सोऽहं विष्णोर्गतिं प्रेप्सुरिह सम्पतितो भुवि ।दृष्टश्चायं मया कृष्णो भवद्भिरिह संवृतः ॥८१॥यन्मयाभिहितो ह्येष त्वमाश्चर्यं जनार्दन ।धन्यश्चासीति भवतां मध्यस्थो ह्यत्र पार्थिवाः ॥८२॥प्रत्युक्तोऽह्मनेनाद्य वाक्यस्यास्य यदुत्तरम् ।दक्षिणाभिः सहेत्येवं पर्याप्तं वचनं मम ॥८३॥यज्ञानां हि गतिर्विष्णुः सर्वेषां सहदक्षिणः ।दक्षिणाभिः सहेत्येवं प्रश्नो मम समाप्तवान् ॥८४॥कूर्मेणाभिहितं पूर्वं पारम्पर्यादिहागतम् ।सदक्षिणेऽस्मिन् पुरुषे तद्वाक्यं प्रतिपादितम् ॥८५॥यन्मां भवन्तः पृच्छन्ति वाक्यस्यास्य विनिर्णयम् ।तदेतत् सर्वमाख्यातं साधयामि यथागतम् ॥८६॥नारदे तु गते स्वर्गे सर्वे ते पृथिवीभुजः ।विस्मिताः स्वानि राष्ट्राणि जग्मुः सबलवाहनाः ॥८७॥जनार्दनोऽपि सहितो यदुभिः पावकोपमैः ।स्वमेव भवनं वीरो विवेश यदुनन्दनः ॥८८॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि धन्योपाख्यानं नाम दशाधिकशततमोऽध्यायः ॥११०॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP