संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| त्रिनवतितमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - त्रिनवतितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण त्रिनवतितमोऽध्यायः Translation - भाषांतर नटवेशधारिणां यादवानां सुपुरे एवं वज्रपुरे सफलं अभिनयं, दानवानां तोषयित्वा तेभ्यः उपायनानां प्राप्तिः, प्रद्युम्नस्य प्रभावत्याः गृहे प्रवेशःवैशम्पायन उवाचततः सुपुरवासीनामसुराणां नराधिप ।ददावाज्ञां वज्रनाभो दीयतां गृहमुत्तमम् ॥१॥आतिथ्यं क्रियतामेषां बहुरत्नमुपायनम् ।वासांसि सुविचित्राणि सुखाय जनरञ्जनम् ॥२॥भर्तुराज्ञां समालभ्य तथा चक्रुश्च सर्वशः ।पूर्वश्रुतो नटः प्राप्तः कौतूहलमजीजनत् ॥३॥नटस्याथ ददुर्दैत्याः सत्कारं परया मुदा ।पर्यायार्थे ददुश्चापि रत्नानि सुबहून्यथ ॥४॥ततः स ननृते तत्र वरदत्तो नटस्तथा ।सुपुरे पुरवासीनां परं हर्षं समादधत् ॥५॥रामायणं महाकाव्यमुद्दिश्य नाटकं कृतम् ।जन्म विष्णोरमेयस्य राक्षसेन्द्रवधेप्सया ॥६॥लोमपादो दशरथ ऋष्यशृङ्गं महामुनिम् ।शान्तामप्यानयामास गणिकाभिः सहानघ ॥७॥रामलक्ष्यणशत्रुघ्ना भरतश्चैव भारत ।ऋष्यशृङ्गश्च शान्ता च तथारूपैर्नटैः कृताः ॥८॥तत्कालजीविनो वृद्धा दानवा विस्मये गताः ।आचचक्षुश्च तेषां वै रूपतुल्यत्वमच्युत ॥९॥संस्फाराभिनयौ तेषां प्रस्तावानां च धारणम् ।दृष्ट्वा सर्वे प्रवेशं च दानवा विस्मयं गताः ॥१०॥ते रक्ता विस्मयं नेदुरसुराः परया मुदा ।उत्थायोत्थाय नाट्यस्य विषयेषु पुनः पुनः ॥११॥ददुर्वस्त्राणि तुष्टाश्च ग्रैवेयवलयानि च ।हारान् मनोहरांश्चैव हेमवैडूर्यभूषितान् ॥१२॥पृथगर्थेषु दत्तेषु लोकैस्ते तुष्टुवुर्नटाः ।असुरांश्च मुनींश्चैव गोत्रैरभिजनैरपि ॥१३॥प्रेषितं वज्रनाभस्य शाखानगरवासिभिः ।नटस्य दिव्यरूपस्य नरेन्द्रागमनं तदा ॥१४॥ ।पुरा श्रुतार्थो दैत्येन्द्रः प्रेषयामास भारत ।आनीयतां वज्रपुरं नटोऽसाविति हर्षितः ॥१५॥दानवेन्द्रवचः श्रुत्वा शाखानगरवासिभिः ।नीता वज्रपुरं रम्यं नटवेषेण यादवाः ॥१६॥आवासश्च ततो दत्तः सुकृतो विश्वकर्मणा ।एष्टव्यं यश्च तत् सर्वं दत्तं शतगुणोत्तरम् ॥१७॥अथ कालोत्सवं चक्रे वज्रनाभो महासुरः ।कारयामास रम्यं च चमूवाटं प्रहृष्टवान् ॥१८॥ततस्तान् परिविश्रान्तान् प्रेक्षार्थाय प्रचोदयत् ।दत्त्वा रत्नानि भूरीणि वज्रनाभो महाबलः ॥१९॥उपविष्टश्च तान् द्रष्टुं सह ज्ञातिभिरात्मवान् ।छन्ने चान्तःपुरं स्थाप्य चक्षुर्दृश्ये नराधिप ॥२०॥भैमापि बद्धनेपथ्या नटवेषधरास्तथा ।कार्यार्थे भीमकर्माणो नृत्यार्थमुपचक्रमुः ॥२१॥ततो घनं ससुषिरं मुरजानकभूषितम् ।तन्त्रीस्वरगणैर्विद्धानातोद्यानन्ववादयन् ॥२२॥ततस्तु देवगान्धारं छालिक्यं श्रवणामृतम् ।भैमस्त्रियः प्रजगिरे मनःश्रोत्रसुखावहम् ॥२३॥आगान्धारग्रामरागं गङ्गावतरणं तथा ।विद्धमासारितं रम्यं जगिरे स्वरसम्पदा ॥२४॥लयतालसमं श्रुत्वा गङ्गावतरणं शुभम् ।असुरांस्तोषयामासुरुत्थायोत्थाय भारत ॥२५॥नान्दिं च वादयामासुः प्रद्युम्नो गद एव च ।साम्बश्च वीर्यसम्पन्नः कार्यार्थं नटतां गतः ॥२६॥नान्द्यन्ते च तदा श्लोकं गङ्गावतरणाश्रितम् ।रौक्मिणेयस्तदोवाच सम्यक् स्वभिनयान्वितम् ॥२७॥रम्भाभिसारं कौबेरं नाटकं ननृतुस्ततः ।शूरो रावणरूपेण रम्भावेषा मनोवती ॥२८॥नलकूबरस्तु प्रद्युम्नः साम्बस्तस्य विदूषकः ।कैलासो रूपितश्चापि मायया यदुनन्दनैः ॥२९॥शापश्च दत्तः क्रुद्धेन रावणस्य दुरात्मनः ।नलकूबरेण च यथा रम्भा चाप्यथ सान्त्विता ॥३०॥एतत् प्रकरणं वीरा ननृतुर्यदुनन्दनाः ।नारदस्य मुनेः कीर्तिं सर्वज्ञस्य महात्मनः ॥३१॥पादोद्धारेण नृत्येन तथैवाभिनयेन च ।तुष्ढुवुर्दानवा वीरा भैमानामतितेजसाम् ॥३२॥ते ददुर्वस्त्रमुख्यानि रत्नान्याभरणानि च ।हारांस्तरलविद्धांश्च वैडूर्यमणिभूषितान् ॥३३॥विमानानि विचित्राणि रथांश्चाकाशगामिनः ।गजानाकाशगांश्चैव दिव्यनागकुलोद्भवान् ॥३४॥चन्दनानि च दिव्यानि शीतानि रसवन्ति च ।गुरूण्यगुरुमुख्यानि गन्धाढ्यानि च भारत ॥३५॥चिन्तामणीनुदारांश्च चिन्तिते सर्वकामदान् ।प्रेक्षासु तासु बह्वीषु ददन्तो दानवास्तथा ॥३६॥धनरत्नैर्विरहिताः कृताः पुरुषसत्तम ।स्त्रियो दानवमुख्यानां तथैव च जनेश्वर ॥३७॥ततो हंसी प्रभावत्याः सखी प्राह प्रभावतीम् ।गतास्मि द्वारकां रम्यां भैमगुप्तामनिन्दिते ॥३८॥प्रद्युम्नश्च मया दृष्टो विविक्ते चारुलोचने ।भक्तिश्च कथिता तस्य मया तव शुचिस्मिते ॥३९॥तेन हृष्टेन कालश्च कृतः कमललोचने ।अद्य प्रदोषसमये त्वया सह समागमे ॥४०॥तदद्य रुचिरश्रोणि तव प्रियसमागमः ।न ह्यात्मवति भाषन्ति मिथ्या भैमकुलोद्भवाः ॥४१॥ततः प्रभावती हृष्टा हंसीं तामिदमब्रवीत् ।उषितासि ममावासे स्वप्तुमर्हसि सुन्दरि ॥४२॥त्वयाहं सहिताऽऽवासे द्रष्टुमिच्छामि कैशविम् ।निःसाध्वसा भविष्यामि त्वया सह विहङ्गमे ॥४३॥हंसी तथेति चोवाच सखीं कमललोचनाम् ।आरुरोह च तद्धर्म्यं प्रभावत्या विहङ्गमा ॥४४॥विश्वकर्मकृते तत्र हर्म्यपृष्ठे प्रभावती ।संविधानं चकाराशु प्रद्युम्नागमनक्षमम् ॥४५॥तस्मिन् कृते संविधाने काममानयितुं ययौ ।प्रभावतीमनुज्ञाप्य हंसी वायुसमा गतौ ॥४६॥नटवेषधरं कामं गत्वोवाच शुचिस्मिता ।अद्य भूतः स भगवन् समयो वर्तते निशि ॥४७॥तथेति प्राह तां कामः सा निवृत्ताथ पक्षिणी ।अभ्यागता च सा हंसी प्रभावतिमथाब्रवीत् ।अभ्येति रौक्मिणेयोऽसावाश्वसायतलोचने ॥४८॥प्रद्युम्नो नीयमानं तु ददृशे माल्यमात्मवान् ।भ्रमरैरावृतं वीरः सुगन्धमरिमर्दनः ॥४९॥निलिल्ये तत्र माल्ये तु भूत्वा मधुकरस्तदा ।प्रभावत्या नीयमाने विदितार्थः प्रतापवान् ॥५०॥प्रवेशितं च तन्माल्यं स्त्रीभिर्मधुकरायुतम् ।उपनीतं प्रभावत्यै स्त्रीभिस्तद् भ्रमरावृतम् ॥५१॥अविदूरे च विन्यस्तं प्रभावत्या जनाधिप ।भ्रमरास्ते ययुः सौम्य संध्याकाले ह्युपस्थिते ॥५२॥स भैमप्रवरो वीरस्तैः सहायैर्विहीनतः ।कर्णोत्पले प्रभावत्या निलिल्ये शनकैरिव ॥५३॥ततः प्रभावती हंसीमुवाच वदतां वरा ।उद्यतं पूर्णचन्द्रं सा समीक्ष्यातिमनोहरम् ॥५४॥सखि दह्यन्ति मेऽङ्गानि मुखं च परिशुष्यति ।औत्सुक्यं हृदि चातीव कोऽयं व्याधिरनौषधः ॥५५॥दधद् द्विगुणमौत्सुक्यमसौ पूर्णनिशाकरः ।नवोदितः शीतरश्मिः सख्यं हरति च प्रियः ॥५६॥न दृष्टपूर्वो हि मया श्रुतमात्रेण काङ्क्षितः ।अहो धूमयतेऽङ्गानि स्त्रीस्वभावस्य धिक् खलु ॥५७॥कल्पयामि यथाबुद्ध्या यदि नाभ्येति मे प्रियः ।कुमुद्वतीगतं मार्गं हा गमिष्याम्यकिंचना ॥५८॥मदनाशीविषेणास्मि हा हा दष्टा मनस्विनी ।शीतवीर्याः प्रकृत्यैव जगतो ह्रादनाः सुखाः ।दहन्ति मम गात्राणि किं नु चन्द्रगभस्तयः ॥५९॥प्रकृत्या शीतलो वायुर्नानापुष्परजोवहः ।दावाग्निसदृशो मेऽद्य दन्दहीति शुभां तनुम् ॥६०॥ततः संकल्पये एव स्थैर्यं कार्यमिवात्मनः ।नावतिष्ठति निर्वीर्यं मनः सकल्पधर्षितम् ॥६१॥विमनस्कास्मि मुह्यामि वेपथुर्मे महान् हृदि ।बम्भ्रमीति च मे दृष्टिर्हा हा यामि ध्रुवं क्षयम् ॥६२॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि प्रद्युम्नगमने त्रिनवतितमोऽध्यायः॥९३॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP