संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| एकादशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - एकादशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकादशोऽध्यायः Translation - भाषांतर श्रीकृष्णस्य अङ्गच्छटा, भाण्डीर वटः, यमुना एवं कालियदहस्य वर्णनम्, श्रीकृष्णेन कालियनागस्य निग्रहविचारणम्वैशम्पायन उवाचकदाचित् तु तदा कृष्णो विना संकर्षणेन वै ।चचार तद् वनं रम्यं कामरूपी वराननः ॥१॥काकपक्षधरः श्रीमाञ्छ्यामः पद्मदलेक्षणः ।श्रीवत्सेनोरसा युक्तः शशाङ्क इव लक्ष्मणा ॥२॥साङ्गदेनाग्रहस्तेन पङ्कजोद्भिन्नवर्चसा ।सुकुमाराभिताम्रेण क्रान्तविक्रान्तगामिना ॥३॥पीते प्रीतिकरे नॄणां पद्मकिञ्जल्कसप्रभे ।सूक्ष्मे वसानो वसने ससंध्य इव तोयदः ॥४॥वत्सव्यापारयुक्ताभ्यां व्यग्राभ्यां गण्डरज्जुभिः ।भुजाभ्यां साधुवृत्ताभ्यां पूजिताभ्यां दिवौकसैः ॥५॥सदृशं पुण्डरीकस्य गन्धेन कमलस्य च ।रराज चास्य तद् बाल्ये रुचिरौष्ठपुटं मुखम् ॥६॥शिखाभिस्तस्य मुक्ताभी रराज मुखपङ्कजम् ।वृतं षट्पदपंक्तीभिर्यथा स्यात् पद्ममण्डलम् ॥७॥तस्यार्जुनकदम्बाख्या नीपकन्दलमालिनी ।रराज माला शिरसि नक्षत्राणां यथा दिवि ॥८॥स तया मालया वीरः शुशुभे कण्ठसक्तया ।मेघमालाम्बुदश्यामो नभस्य इव मूर्तिमान् ॥९॥एकेनामलपत्रेण कण्ठसूत्रावलम्बिना ।रराज बर्हिपत्रेण मन्दमारुतकम्पिना ॥१०॥क्वचिद्गायन्क्वचित्क्रीडंश्चञ्चूर्यंश्च क्वचित्क्वचित् ।पर्णवाद्यं श्रुतिसुखं वादयंश्च क्वचिद् वने ॥११॥गोपवेणुं सुमधुरं कामात् तमपि वादयन् ।प्रह्लादनार्थं च गवां क्वचिद् वनगतो युवा ॥१२॥गोकुलेऽम्बुधरश्यामश्चचार द्युतिमान् प्रभुः ।रेमे च तत्र रम्यासु चित्रासु वनराजिषु ॥१३॥मयूररवघुष्टासु मदनोद्दीपनीषु च ।मेघनादप्रतिव्यूहेर्नादितासु समन्ततः ॥१४॥शाद्वलच्छत्रमार्गासु शिलीन्ध्राभरणासु च ।कन्दलामलपत्रासु स्रवन्तीषु नवं जलम् ॥१५॥केसराणां नवैर्गन्धैर्मदनिःश्वसितोपमैः ।अभीक्ष्णं निःश्वसन्तीषु कामिनीष्विव नित्यशः ॥१६॥सेव्यमानो नवैर्वातैर्द्रुमसंघातनिःसृतैः ।तासु कृष्णो मुदं लेभे सौम्यासु वनराजिषु ॥१७॥स कदाचिद् वने तस्मिन्गोभिः सह परिभ्रमन् ।ददर्श विपुलोदग्रं शाखिनं शाखिनां वरम् ॥१८॥स्थितं धरण्यां मेघाभं निबिडं पत्रसंचयैः ।गगनार्धोच्छ्रिताकारं पर्वताभोगधारिणम् ॥१९॥नीलचित्राङ्गवर्णैश्च सेवितं बहुभिः खगैः ।फलैः प्रवालैश्च घनैः सेन्द्रचापघनोपमम् ॥२०॥भवनाकारविटपं लतापुष्पसुमण्डितम् ।विशालमूलावनतं पवनाम्भोदधारिणम् ॥२१॥आधिपत्यमिवान्येषां तस्य देशस्य शाखिनाम् ।कुर्वाणं शुभकर्माणं निरावर्षमनातपम् ॥२२॥न्यग्रोधं पर्वताग्राभं भाण्डीरं नाम नामतः ।दृष्ट्वा तत्र मतिं चक्रे निवासाय ततः प्रभुः ॥२३॥स तत्र वयसा तुल्यैर्वत्सपालैः सहानघ ।रेमे वै वासरं कृष्णः पुरा स्वर्गगतो यथा ॥२४॥तं क्रीडमानं गोपालाः कृष्णं भाण्डीरवासिनम् ।रमयन्ति स्म बहवो वन्यैः क्रीडनकैस्तदा ॥२५॥अन्ये स्म परिगायन्ति गोपा मुदितमानसाः ।गोपालाः कृष्णमेवान्ये गायन्ति स्म रतिप्रियाः ॥२६॥तेषां स गायतामेव वादयामास वीर्यवान् ।पर्णवाद्यान्तरे वेणुं तुम्बीं वीणां च तत्र ह ॥२७॥कदाचिच्चारयन्नेव गाः स गोवृषभेक्षणः ।जगाम यमुनातीरं लतालंकृतपादपम् ॥२८॥तरङ्गापाङ्गकुटिलां वारिस्पर्शसुखानिलाम् ।तां च पद्मोत्पलवतीं ददर्श यमुनां नदीम् ॥२९॥सुतीर्थां स्वादुसलिलां ह्रदिनीं वेगगामिनीम् ।तोयवातोद्यतैर्वेगैरवनामितपादपाम् ॥३०॥हंसकारण्डवोद्घुष्टा सारसैश्च निनादिताम् ।अन्योन्यमिथुनैश्चैव सेवितां मिथुनेचरैः ॥३१॥जलजैः प्राणिभिः कीर्णां जलजैर्भूषितां गुणैः ।जलजैः कुसुमैश्चित्रां जलजैर्हरितोदकाम् ॥३२॥प्रसृतस्रोतचरणां पुलिनश्रोणिमण्डलाम् ।आवर्तनाभिगम्भीरां पद्मरोमानुरञ्जिताम् ॥३३॥तटच्छेदोदरां कान्तां त्रितरङ्गवलीधराम् ।फेनप्रहृष्टवदनां प्रसन्नां हंसहासिनीम् ॥३४॥रुचिरोत्पलरक्तोष्ठीं नतभ्रूं जलजेक्षणाम् ।ह्रददीर्घललाटान्तां कान्तां शैवलमूर्द्धजाम् ॥३५॥चक्रवाकस्तनतटीं तीरपार्श्वायताननाम् ।दीर्घस्रोतायतभुजामाभोगश्रवणायुताम् ॥३६॥कारण्डवाकुण्डलिनीं श्रीमत्पङ्कजलोचनाम् ।तटजाभरणोपेतां मीननिर्मलमेखलाम् ॥३७॥वारिप्लवप्लवक्षौमां सारसारावनूपुराम् ।काशचामीकरं वासो वसानां हंसलक्षणम् ॥३८॥भीमनक्रानुलिप्ताङ्गीं कूर्मलक्षणभूषिताम् ।निपानश्वापदापीडां नृभिः पीतपयोधराम् ॥३९॥श्वापदोच्छिष्टसलिलामाश्रमस्थानसंकुलाम् ।तां समुद्रस्य महिषीमीक्षमाणः समन्ततः ॥४०॥चचार रुचिरं कृष्णो यमुनामुपशोभयन् ।तां चरन्स नदीं श्रेष्ठां ददर्श ह्रदमुत्तमम् ॥४१॥दीर्घं योजनविस्तारं दुस्तरं त्रिदशैरपि ।गम्भीरमक्षोभ्यजलं निष्कम्पमिव सागरम् ॥४२॥तोयजैः श्वापदैस्त्यक्तं शून्यं तोयचरैः खगैः ।अगाधेनाम्भसा पूर्णं मेघपूर्णमिवाम्बरम् ॥४३॥दुःखोपसर्प्यं तीरेषु ससर्पैर्विपुलैर्बिलैः ।विषारणिभवस्याग्नेर्धूमेन परिवेष्टितम् ॥४४॥अभोग्यं तत् पशूनां हि अपेयं च जलार्थिनाम् ।उपभोगैः परित्यक्तं सुरैस्त्रिषवणार्थिभिः ॥४५॥आकाशादप्यसंचार्यं खगैराकाशगोचरैः ।तृणेष्वपि पतत्स्वप्सु ज्वलन्तमिव तेजसा ॥४६॥समन्ताद्योजनं साग्रं देवैरपि दुरासदम् ।विषानलेन घोरेण ज्वालाप्रज्वलितद्रुमम् ॥४७॥व्रजस्योत्तरतस्तस्य क्रोशमात्रे निरामये ।तं दृष्ट्वा चिन्तयामास कृष्णो वै विपुलं ह्रदम् ॥४८॥अगाधं द्योतमानं च कस्यायं महतो ह्रदः ।अस्मिन् स कालियो नाम कालाञ्जनचयोपमः ॥४९॥उरगाधिपतिः साक्षाद्ध्रदे वसति दारुणः ।उत्सृज्य सागरावासं यो मया विदितः पुरा ॥५०॥भयात् पतगराजस्य सुपर्णस्योरगाशिनः ।तेनेयं दूषिता सर्वा यमुना सागरङ्गमा ॥५१॥भयात् तस्योरगपतेर्नायं देशो निषेव्यते ।तदिदं दारुणाकारमरण्यं रूढशाद्वलम् ॥५२॥सावरोहद्रुमं घोरं कीर्णं नानालताद्रुमैः ।रक्षितं सर्पराजस्य सचिवैराप्तकारिभिः ॥५३॥वनं निर्विषयाकारं विषान्नमिव दुःस्पृशम् ।तैराप्तकारिभिर्नित्यं सर्वतः परिरक्षितम् ॥५४॥शैवालनलिनैश्चापि वृक्षैः क्षुद्रलताकुलैः ।कर्तव्यमार्गौ भ्राजेते हृदस्यास्य तटावुभौ ॥५५॥तदस्य सर्पराजस्य कर्तव्यो निग्रहो मया ।यथेयं सरिदम्भोदा भवेच्छिवजलाशया ॥५६॥व्रजोपभोग्या च यथा नागे च दमिते मया ।सर्वत्र सुखसंचारा सर्वतीर्थसुखाश्रया ॥५७॥एतदर्थं च वासोऽयं व्रजेऽस्मिन् गोपजन्म च ।अमीषामुत्पथस्थानां निग्रहार्थं दुरात्मनाम् ॥५८॥एनं कदम्बमारुह्य तदेव शिशुलीलया ।विनिपत्य ह्रदे घोरे दमयिष्यामि कालियम् ॥५९॥एवं कृते बाहुवीर्ये लोके ख्यातिं गमिष्यति ॥६०॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि बालचरिते यमुनावर्णनं नामैकादशोऽध्यायः ॥११॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP