संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| पञ्चनवतितमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - पञ्चनवतितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण पञ्चनवतितमोऽध्यायः Translation - भाषांतर प्रद्युम्नेन प्रभावत्यां वर्षायाः वर्णनं कुर्वन्तं स्वकुलस्य परिचयदानम्वैशम्पायन उवाचनभो नभस्येऽथ निरीक्ष्य मासि कामस्तदा तोयदवृन्दकीर्णम् ।प्रभावतीं चारुविशालनेत्रामुवाच पूर्णेन्दुनिकाशवक्त्रः ॥१ ।तवाननाभो वरगात्रि चन्द्रो न दृश्यते सुन्दरि चारुबिम्बः ।त्वत्केशपाशप्रतिमैर्निरुद्धो बलाहकैश्चारुनिरन्तरोरु ॥२॥संदृश्यते सुभ्रु तडिद् घनस्था त्वं हेमचार्वाभरणान्वितेव ।मुञ्चन्ति धाराश्च घना नदन्तस्त्वद्धारयष्टेः सदृशा वराङ्गि ॥३॥घनप्रदेशेषु बलाकपङक्तयस्त्वद्दन्तपङ्क्तिप्रतिमाविभान्ति ।निमग्नपद्मानि सरित्सु सुभ्रु न भान्ति तोयानि रयाकुलानि ॥४॥अमी घना वायुवशोपयाता बलाकमालामलचारुदन्ताः ।अन्योन्यमभ्याहनितुं प्रवृत्ता वनेषु नागा इव शुक्लदन्ताः ॥५॥धनुस्त्रिवर्णं वरगात्रि पश्य कृतं तवापाङ्गमिवाननस्थम् ।विभूषयन्तं गगनं घनाश्च प्रहर्षणं कामिजनस्य कान्ते ॥६॥घनान् नदन्तः प्रतिनर्दमानान् निरीक्ष्यसुश्रोणि शिखीन्प्रहृष्टान् ।समादृतानुद्धतपिच्छभारान् प्रियाभिरामानुपनृत्यमानान् ॥७॥हर्म्येषु चान्ये शशिपाण्डुरेषु यजन्ति सुश्रोणि मयूरसंघाः ।मुहूर्तशोभामतिचारुरूपां दत्त्वा पतन्तो वलभीपुटेषु ॥८॥प्रक्लिन्नपक्षास्तरुमस्तकेषु मुहूर्तचूडामणितां विधाय ।प्रयान्ति भूमिं नवशाद्वलानामाशङ्कमाना धृतचारुदेहाः ॥९॥प्रवाति धारान्तरनिःसृतश्च सुखोऽनिलश्चन्दनपङ्कशीतः ।कदम्बसर्जार्जुनपुष्पभूतं समावहन् गन्धमनङ्गबन्धुम् ॥१०॥रतिश्रमस्वेदविनाशहेतुर्नवोदभारानयने च हेतुः ।न मारुतः स्याद् यदि चारुगात्रि न मेघकालो मम वल्लभः स्यात् ॥११॥एवंविधेषु प्रियसङ्गमेषु रतावसाने यदुपैति वायुः ।रतिश्रमस्वेदहरः सुगन्धी ततः परं किं सुखमस्ति लोके ॥१२॥जलाप्लुतानीक्ष्य महानदीनां सुगात्रि हंसाः पुलिनानि हृष्टाः ।गताः भ्रमं मानसवासलुब्धाः ससारसाः क्रौञ्चगणानुविद्धाः॥ ॥१३॥न भान्ति नद्यो न सरांसि चैव हतत्विषीवायतचारुनेत्रे ।गतेषु हंसेष्वथ सारसेषु रथाङ्गतुल्याह्वयनेषु चैव ॥१४भोगैकदेशेन शुभं शयानं ध्रुवं जगन्नाथमुपेन्द्रमीशम् ।निद्राभ्युपेता वरकालतज्ज्ञा श्रियं प्रणम्योत्तरचारुरूपाम् ॥१५॥निद्रायमाणे भगवत्युपेन्द्रे मेघाम्बराक्रान्तनिशाकरोऽद्य ।पद्मामलाभः कमलायताक्षि कृष्णस्य वक्त्रानुकृतिं करोति ॥१६॥कदम्बनीपार्जुनकेतकानां स्रजो ध्रुवं कृष्णमुपानयन्ति ।पुष्पाणि चान्यान्यृतवः समस्ताः कृष्णात् प्रसादानभिकाङ्क्षमाणाः॥१७॥नागाश्चरन्तो विषदिग्धवक्त्राः स्पृशन्ति पुष्पाण्यपि पादपान्यान् ।पेपीयमानान् भ्रमरैर्जनानां कौतूहलं ते जनयन्त्यतीव ॥१८॥तोयातिभाराम्बुदवृन्दनद्धं नभः पतिष्यन्तमिवाभिवीक्ष्य ।निपानगम्भीरमभिन्नवृष्टं मनोहरं चारुमुखस्तनोरु ॥१९॥बलाकमालाकुलमाल्यदाम्ना निरीक्ष रम्यं घनवृन्दमेतत् ।सस्यानि भूमावभिवर्षमाणं जगद्धितार्थं विमलाङ्गयष्टे ॥२०॥जलावलम्बाम्बुदवृन्दकर्षी घनैर्घनान् योधयतीव वायुः ।प्रवृत्तचक्रो नृपतिर्वनस्थान् गजान्गजैः स्वैरिव वीर्यदृप्तान् ॥२१॥अभौममम्भो विसृजन्ति मेघाः पूतं पवित्रं पवनैः सुगन्धि ।हर्षावहं चातकबर्हिणानां वराण्डजानां जलदप्रियाणाम् ॥२२॥प्लवंगमः पोडशपक्षशायी विरौति गोष्ठः सहकामिनीभिः ।ऋचो द्विजातिः प्रियसत्यधर्मा यथा सुशिष्यैः परिवार्यमाणः ॥२३॥गुणो महांस्तोयदकालजोऽयमबुद्धमेघस्वनभीषितानाम् ।परिष्वजन्तः परिवर्द्धयन्ति विनापि शय्यासमयं प्रियाणाम् ॥२४॥दोषोऽयमेकः सलिलागमस्य मां प्रत्युदारान्वयवर्णशीले ।न दृश्यते यत् तव वक्त्रतुल्यो धनग्रहग्रस्ततनुः शशाङ्कः ॥२५॥प्रदृश्यते भीरु यदा शशाङ्को घनान्तरस्थो जगतः प्रदीपः ।तदानुपश्यन्ति जनाः प्रहृष्टा बन्धुं प्रवासादिव संनिवृत्तम् ॥२६॥विलापसाक्षी प्रियहीनितानां संदृश्यते भीरु यदा शशाङ्कः ।नेत्रोत्सवः प्रोषितकामुकानां दृष्ट्वैव कान्तं भवतीत्यवैमि ॥२७॥नेत्रोत्सवः कान्तसमागतानां दावाग्नितुल्यः प्रियहीनितानाम् ।तेनैव देहेन वराङ्गनानां चन्द्रोऽपि तावत्प्रियविप्रियश्च ॥२८॥विनापि चन्द्रेण पुरे पितुस्ते यतः प्रभा चन्द्रगभस्तिगौरी ।गुणागुणांश्चन्द्रमसा न वेद्मि यतस्ततोऽहं प्रशशंसयिष्ये ॥२९॥अवाप यो ब्राह्मणराज्यमीड्यो दुरापमन्यैः सुकृतैस्तपोभिः ।गायन्ति विप्राः पवमानसंज्ञं समागताः पर्वणि चाप्युदारम् ॥३०॥पिता बुधस्योत्तरवीर्यकर्मा पुरूरवा यस्य सुतो नृदेवः ।प्राणाग्निरीड्योऽग्निमजीजनद् यो नष्टं शमीगर्भभवं भवात्मा ॥३१॥तथैव पश्चाच्चकमे महात्मा पुरोर्वशीमप्सरसां वरिष्ठाम् ।पीतः पुरा योऽमृतसर्वदेहो मुनिप्रवीरैर्वरगात्रि घोरैः ॥३२॥नृपः कुशाग्रैः पुनरेव यश्च धीमानतोऽग्निर्दिवि पूज्यते च ।आयुश्च वंशे नहुषश्च यस्य यो देवराजत्वमवाप वीरः ॥३३॥देवातिदेवो भगवान् प्रसूतो वंशे हरिर्यत्र जगत्प्रणेता ।भैमः प्रवीरः सुरकार्यहेतोर्यः सुभ्रुदक्षस्य वृतः सुताभिः ॥३४॥बभूव राजाथ वसुश्च यस्य वंशे महात्मा शशिवंशदीपः ।यश्चक्रवर्तित्वमवाप वीरः स्वैः कर्मभिः शक्रसमप्रभावः ॥३५॥यदुश्च राजा शशिवंशमुख्यो योऽवाप मह्यामधिराजभावम् ।भोजाः कुले यस्य नराधिपस्य वीराः प्रसूताः सुरराजतुल्याः ॥३६॥न कूटकृद् यस्य नृपोऽस्ति वंशे न नास्तिको नैष्कृतिकोऽपि वाथ ।अश्रद्दधानोऽप्यथवा कदर्यः शौर्येण वा वारिरुहाक्षि हीनः ॥३७॥वंशे वधूस्त्वं कमलायताक्षि श्लाघ्या गुणानामतिपात्रभूता ।कुरु प्रणामं शिखराग्रदन्ति तस्य त्वमीशस्य सतां प्रियस्य ॥३८॥नारायणायात्मभवायनाय लोकायनाय त्रिदशायनाय ।खगेन्द्रकेतोः पुरुषोत्तमाय कुरु प्रणामं श्वशुराय देवि ॥३९॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि प्रद्युम्नभाषणे पञ्चनवतितमोऽध्यायः ॥९५॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP