संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| एकसप्ततितमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - एकसप्ततितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकसप्ततितमोऽध्यायः Translation - भाषांतर नारदात् श्रीकृष्णस्य महत्ताप्रतिपादनं श्रुत्वापि इन्द्रस्य तं पारिजातस्य दाने अनुद्यतावैशम्पायन उवाचमहेन्द्रवचनं श्रुत्वा नारदो वदतां वरः ।विविक्ते देवराजानमिदं वचनमब्रवीत् ॥१॥कामं प्रियाणि राजानो वक्तव्या नात्र संशयः ।प्राप्तकालं तु वक्तव्यं हितमप्रियमप्युत ॥२॥अनियुक्तपुरोभागो न स्यादिति वदन्ति हि ।सुलोकगतितत्त्वज्ञो नयविज्ञानकोविदः ॥३॥कार्याकार्ये समुत्पन्ने परिपृच्छति मां भवान् ।यतस्ततः प्रवक्ष्यामि गृह्यतां यदि रोचते ॥४॥अनुक्तेनापि सुहृदा वक्तव्यं जानता हितम् ।न्याय्यं च प्राप्तकालं च पराभवमनिच्छता ॥५॥वक्तव्यं सर्वथा सद्भिरप्रियं चापि यद्धितम् ।आनृण्यमेतत् स्नेहस्य सद्भिरेवादृतं पुरा ॥६॥अनृते धर्मभग्ने च न शुश्रूषति चाप्रिये ।न प्रियं च हितं वाच्यं सद्भिरेवेति निन्दिताः ॥७॥सर्वथा देव वक्तव्यं श्रूयतां शृण्वतां वर ।श्रुत्वा च कुरु सर्वज्ञ मम श्रेयस्करं वचः ॥८॥अन्योन्यभेदो भ्रातॄणां सुहृदां वा बलान्तक ।भवत्यानन्दकृद् देव द्विषतां नात्र संशयः ॥९॥हितानुबन्धसहितं कार्यं ज्ञेयं सुरेश्वर ।विपरीतं च तद्बुद्ध्या नित्यं बुद्धिमतां वर ॥१०॥यत्स्यात्तापकरं पश्चादारब्धं कार्यमीदृशम् ।आरभेन्नैव तद् विद्वानेष बुद्धिमतां नयः ॥११॥विपाकमस्य कार्यस्य नानुपश्यामि शोभनम् ।यदत्र कारणं देव निबोध विबुधाधिप ॥१२॥य एको विश्वमध्यास्ते प्रधानं जगतो हरिः ।प्रकृत्या यं परं सर्वे क्षेत्रज्ञं वै विदुर्बुधाः ॥१३॥तस्याव्यक्तस्य यो व्यक्तो भागः सर्वभवोद्भवः ।तस्यात्मा परमो देवो विष्णुः सर्वस्य धीमतः ॥१४॥प्रकृत्याः प्रथमो भाग उमा देवी यशस्विनी ।व्यक्तः सर्वमयो विश्वः स्त्रीसंज्ञो लोकभावनः ॥१५॥रुक्मिण्याद्याः स्त्रियस्तस्या व्यक्तत्वं प्रथमो गुणः ।अव्यया प्रकृतिर्देवी गुणी देवो महेश्वरः ॥१६॥न विशेषोऽस्य रुद्रस्य विष्णोश्चामरसत्तम ।गुणिनश्चाव्ययः शास्ता सदा च प्रथमोऽगुणः ॥१७॥नारायणो महातेजाः सर्वकृत्ययेकभावनः ।भोक्ता महेश्वरो देवः कर्ता विष्णुरधोक्षजः ॥१८॥ब्रह्मा देवगणाश्चान्ये पश्चात्सृष्टा महात्मना ।महादेवेन देवेश प्रजापतिगणास्तथा ॥१९॥एवं पुराणपुरुषो विष्णुर्देवेषु पठ्यते ।अचिन्त्यश्चाप्रमेयश्च गुणेभ्यश्च परस्तथा ॥२०॥अदित्या तपसा विष्णुर्महात्माऽऽराधितः पुरा ।वरेण च्छन्दिता तेन परितुष्टेन चादितिः ॥२१॥तयोक्तस्त्वत्समं पुत्रमिच्छामीति सुरोत्तम ।प्रणिपत्य च विज्ञाय नारायणमधोक्षजम् ॥२२॥तेनोक्तं भुवने नास्ति मत्समः पुरुषोऽपरः ।अंशेन तु भविष्यामि पुत्रः खल्वहमेव ते ॥२३॥स जातः सर्वकृद् देवो भ्राता तव सुरेश्वर ।नारायणो महातेजा यमुपेन्द्रं प्रचक्षते ॥२४॥इच्छन्नेव हरिर्देव काश्यपत्वमुपागतः ।तैस्तैर्भावैर्विकुरुते भूतभव्यभवाप्ययः ॥२५॥प्रादुर्भावं गतो देवो जगतो हितकाम्यया ।माथुरं जगतो नाथः कर्ता हर्ता च केशवः ॥२६॥यथा पललपिण्डः स्याद् व्याप्तः स्नेहेन मानद ।तथा जगदिदं व्याप्तं विष्णुना प्रभविष्णुना ॥२७॥ब्रह्मण्यदेवः सर्वात्मा तैस्तैर्भावैर्विकुर्वति ।जगत्यतिगुणो देवो वैकुण्ठः सर्वभावनः ॥२८॥अतः समस्तदेवानां पूज्य एव च केशवः ।पद्मनाभश्च भगवान् प्रजासर्गकरो विभुः ॥२९॥अनन्तो धारणार्थं च बिभर्ति च महद्यशः ।यज्ञ इत्यपि सद्भिश्च कथ्यते वेदवादिभिः ॥३०॥श्वेतः कृतयुगे देवो रक्तस्त्रेतायुगे तथा ।द्वापरे च तथा पीतः कृष्णः कलियुगे विभुः ॥३१॥अवधीत्स हिरण्याक्षं दिव्यरूपधरो हरिः ।दधाराप्सु निमज्जन्तीमेष देवो वसुन्धराम् ॥३२॥वाराहं वपुराश्रित्य जगतो हितकाम्यया ।जघ्ने हिरण्यकशिपुं नारसिंहवपुर्हरिः ॥३३॥जिगाय जगतीं चैव विष्णुर्वामनरूपधृक् ।बबन्ध च बलिं देवः श्रीमान् पन्नगबन्धनैः ॥३४॥देवदानवसम्भूतानाक्रामयदपि श्रियम् ।त्वय्यनन्तः पुरा विष्णुरुदारोऽमितविक्रमः ॥३५॥सावशेषं तपो यस्य तन्निहन्ति जनार्दनः ।अलीकेष्वपि वर्तन्तं व्रतमेतन्महात्मनः ॥३६॥जघ्ने च दानवान् मुख्यान् देवानां ये च शत्रवः ।तव प्रियार्थं गोविन्दो धर्मनित्यः सतां गतिः ॥३७॥रामत्वमपि चावाप्य जघ्ने रावणमात्मवान् ।भूत्वा कामगुणांश्चैव जघान द्विरदं हरिः ॥३८॥हिताय जगतोऽद्यापि लोके वसति मानुषे ।उपेन्द्रो जगतां नाथः सर्वभूतोत्तमोत्तमः ॥३९॥जटी कृष्णाजिनी दण्डी दृष्टपूर्वो मया हरिः ।दैतेयेषु चरन् देवस्तृणेष्वग्निरिवोद्धतः ॥४०॥अद्राक्षमपि गोविन्दं दानवैकार्णवं जगत् ।कुर्वाणं दानवैर्हीनं जगतो हितकाम्यया ॥४१॥अवश्यं पारिजातं ते नयिष्यति जनार्दनः ।द्वारकाममरश्रेष्ठ नानृतं च ब्रवीम्यहम् ॥४२॥भ्रातृस्नेहाभिभूतस्त्वं न कृष्णे प्रहरिष्यसि ।नापि कृष्णस्त्वयि ज्येष्ठे प्रहरिष्यति वासव ॥४३॥नैव चेच्छ्रोष्यति प्रोक्तं मया देव कथञ्चन ।पृच्छ त्वं नयधर्मज्ञान् ये हितास्तव मन्त्रिणः ॥४४॥वैशम्पायन उवाचनारदेनैवमुक्तस्तु महेन्द्रो जनमेजय ।इदमुत्तरमीशोऽथ प्रत्युवाच जगद्गुरुम् ॥४५॥एवंविधप्रभावं त्वं कृष्णं वदसि यद् द्विज ।एवमेतत् सुबहुशः श्रुतं खलु मया मुने ॥४६॥यतश्चैवंविधः कृष्णस्ततोऽहं तस्य वै तरुम् ।न प्रदास्यामि दातव्यं सतां धर्ममनुस्मरन् ॥४७॥महाप्रभावो नाल्पार्थे रुष्येदिति विचिन्तयन् ।व्यवस्थितोऽहं भद्रं ते मुने सर्वगुणादिति ॥४८॥महाप्रभावाः सततं भवन्ति हि सहिष्णवः ।श्रोतारश्चैव सततं वृद्धानां ज्ञानचक्षुषाम् ॥४९॥महात्मा कारणे नाल्पे कृष्णो धर्मभृतां वरः ।भ्रात्रा ज्येष्ठेन सर्वज्ञो विरोधं गन्तुमर्हति ॥५०॥यथैवं मम मातुः स वरं प्रादादधोक्षजः ।तथैव तस्याः पुत्राणां ज्येष्ठानां सोढुमर्हति ॥५१॥यथैवोपेन्द्रतां यातः स्वयमिच्छञ्जनार्दनः ।तथैव भ्रातुरिन्द्रस्य सम्मानं कर्तुमर्हति ॥५२॥ज्यैष्ठ्यमेतेन देवेन नारब्धं किं पुरातने ।अथेदानीमपीच्छेत् स ज्येष्ठोऽस्तु मधुसूदनः ॥५३॥सुनिश्चितं बलरिपुमीक्ष्य नारदो विसर्जितस्त्रिदशवरेण धर्मभृत् ।ययौ पुरीं यदुवृषभाभिरक्षितां कुशस्थलीं धृतिमतिमांस्तपोधनः ॥५४॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे नारदस्य स्वर्गात्पुनरागमने एकसप्ततितमोऽध्यायः ॥७१॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP