संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| सप्तदशाधिकशततमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - सप्तदशाधिकशततमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण सप्तदशाधिकशततमोऽध्यायः Translation - भाषांतर शिवपार्वत्योः क्रीडाविहारं, पार्वत्या उषसं पतिसमागमस्य वरदानं, उषसः विरहव्यथा वर्णनम्वैशम्पायन उवाचक्रीडाविहारोपगतः कदाचिदभवद् भवः ।देव्या सह नदीतीरे रम्ये श्रीमति स प्रभुः ॥१॥शतानि तत्राप्सरसां चिक्रीडुश्च समन्ततः ।सर्वर्तुकवने रम्ये गन्धर्वपतयस्तथा ॥२॥कुसुमैः पारिजातस्य पुष्पैः संतानकस्य च ।गन्धोद्दाममिवाकाशं नदीतीरं तु सर्वशः ॥३॥वेणुवीणामृदङ्गैश्च पणवैश्च सहस्रशः ।वाद्यमानैः स शुश्राव गीतमप्सरसां तदा ॥४॥सूतमागधकल्पैश्चास्तुवन्नप्सरसां गणाः ।देवदेवं सुवपुषं स्रग्विणं रक्तवाससम् ॥५॥श्रीमहेशं देवदेवमर्चयन्ति मनोरमम् ।ततस्तु देव्या रूपेण चित्रलेखा वराप्सराः ॥६॥भवं प्रसादयामास देवी च प्राहसत् तदा ।प्रसादयन्तीमीशानं प्रहसन्त्यप्सरोगणाः ॥७॥भवस्य पार्षदा दिव्या नानारूपा महौजसः ।देव्या ह्यनुज्ञया सर्वे क्रीडन्ते तत्र तत्र ह ॥८॥अथ ते पार्षदास्तत्र रहस्ये सुविपश्चितः ।महादेवस्य रूपेण तच्चिह्नं रूपमास्थिताः ॥९॥ततो देव्याः सुरूपेण लीलया वदनेन च ।देवी प्रहासं मुमुचे ताश्चैवाप्सरसस्तदा ।ततः किलकिलाशब्दः प्रादुर्भूतः समन्ततः ॥१०॥प्रहर्षमतुलं लेभे भवः प्रीतमनास्तदा ।बाणस्य दुहिता कन्या तत्रोषा नाम भामिनी ॥११॥देवं संक्रीडितं दृष्ट्वा देव्या सह नदीगतम् ।दीप्यमानं महादेवं द्वादशादित्यतेजसम्॥१२॥नानारूपं वपुः कृत्वा देव्याः प्रियचिकीर्षया ।उषा मनोरथं चक्रे पार्वत्याः संनिधौ तथा ॥१३॥धन्या हि भर्तृसहिता रमत्येवं समागता ।मनसा त्वथ संकल्पमुषया भाषितं तथा ॥१४॥विज्ञाय तमभिप्रायमुषायाः पर्वतात्मजा ।प्राह देवी ततो वाक्यमुषां हर्षयती शनैः॥१५॥उषे त्वं शीघ्रमप्येवं भर्त्रा सह रमिष्यसि ।यथा देवो मया सार्धं शङ्करः शत्रुनाशनः ॥१६॥एवमुक्ते तदा देव्या वाक्ये चिन्ताविलेक्षणा ।उषा भावं तदा चक्रे भर्त्रा रंस्ये कदा सह ॥१७॥तदा हैमवती वाक्यं सम्प्रहस्येदमब्रवीत् ।उषे शृणुष्व वाक्यं मे यदा संयोगमेष्यसि ॥१८॥वैशाखे मासि हर्म्यस्थां द्वादश्यां त्वां दिनक्षये ।रमयिष्यति यः स्वप्ने स ते भर्ता भविष्यति ॥१९॥एवमुक्ता दैत्यसुता कन्यागणसमावृता ।अपाक्रामत हर्षेण रममाणा यथासुखम् ॥२०॥ततः सखीभिर्हास्यन्ती हर्षेणोत्फुल्ललोचना ।तालिकासंनिपातैश्च ह्यन्योन्यं जघ्नुरूर्जिताः ॥२१॥किन्नर्यो यक्षकन्याश्च नानादैतेयकन्यकाः ।अप्सरोगणकन्याश्च उषायाः सखितां गताः ॥२२॥उक्ता च तत्र ताभिश्च भर्ता तव वरानने ।भविष्यत्यचिरेणेव देव्या वचनकल्पितः ॥२३॥न हि देव्या वचो मिथ्या भविष्यति कदाचन ।रूपाभिजनसम्पन्नः पतिस्ते कल्पितस्तया ॥२४॥उषा सखीनां तद् वाक्यं प्रतिपूज्य यथाविधि ।दत्तं मनोरथं देव्या भावयन्ती व्यवस्थिता ॥२५॥ततः क्रीडाविहारं तमनुभूय सहोमया ।गतेऽहनि ततः सर्वा नार्यस्ताः परमाद्भुताः ॥२६॥ययुः स्वानालयान् सर्वा देवी चादर्शनं गता ।काश्चिदश्वैस्तथा यानैर्गजैरन्यास्तथा रथैः ॥२७॥पुरं प्रविविशुर्हृष्टाः काश्चिदाकाशमास्थिताः ।ततः प्रभृति सा देवी काममोहं गता विभो ॥२८॥देव्यास्तु वचनं स्मृत्वा संस्मरन्ती पतिं तदा ।निद्रां न भजते रात्रौ न दिवा भोजनं तथा ॥२९॥स्मरन्ती पतिभावं सा विललाप नृपात्मजा ।निन्दन्ती शशिनं नाके सेवती न च चन्दनम् ॥३०॥सा बाला मोहिता राजन् कामेन परिपीडिता ।उपचर्यन्ति तां सख्यो विज्वरामपि सज्वराम् ॥३१॥तप्यते हृदयं तस्या लेपितं चन्दनेन च ।कपोले पाण्डिमाचिह्नं नेत्रे जलसमन्विते ॥३२॥जम्भणं च तथा स्वापो देहे तस्या व्यवर्धत ।पद्मिनीकन्दचूर्णानि शीतलानि मुहुर्मुहुः ॥३३॥क्षिपन्ति सख्यो हृदये पीडिते मन्मथाग्निना ।व्यजनानि प्रकुर्वन्ति पृच्छन्ति च पुनः पुनः ॥३४॥का व्यथा किं शरीरं ते किमिदं तव भामिनि ।किं तुभ्यं रोचते देवि तदाख्याहि वरानने ॥३५॥कस्मादिदं समुत्पन्नं दुःखसाध्यं मनोरमे ।त्वन्मनोऽनुगतं वाक्यं वदन्त्येतास्तु सारिकाः ॥३६॥शुका नीलतमाः सुभ्रु पठन्ति हि पुमानिव ।प्रह्लादजननं वाक्यं किमर्थं नाद्य भाषसे ॥३७॥तव तातो महावीरो देवानामपि दुर्जयः ।तस्याग्रे तिष्ठते कोऽपि न भूमौ वरवर्णिनि ॥३८॥बलेः पुत्रो महावीरो बाणो हि दुरतिक्रमः ।जितामरावतीकं च नगरं शोणिताह्वयम् ।यत्र संतिष्ठते दैवः शूलहस्तो महेश्वरः ॥३९॥पुत्रोऽयमिति जानीहि गिरिजां योऽब्रवीद्धरः ।बाणं प्रति महादेवस्तव तातमुषे शृणु ॥४०॥का व्यथा ते मुखे स्वेदो नासाग्रे च विराजते ।नीहारबिन्दवः पद्मे राजन्ते शरदागमे ॥४१॥सम्पूर्णचन्द्रप्रतिमं मुखं चन्द्रो यथा घने ।न शोभते तु विच्छायं किमर्थं कारणं वद ॥४२ ।श्वासान् मुञ्चसि बाले त्वं न रतिं यासि भावतः ।गृहाण भोजनं दिव्यं यत् ते मनसि वर्तते ॥४३॥ताम्बूलं रोचते पूर्वं तत् किमर्थं न गृह्यते ।मिष्टानि यानि वस्तूनि दुर्लभानीतरैर्जनैः ॥४४॥गृहाण देवि उत्तिष्ठ वद पीडां शरीरजाम् ।इति कोलाहलं श्रुत्वा उषावेश्मसमुद्भवम् ॥४५॥दासीभिः कीर्तितं तत्र मातुरग्रे पृथक् पृथक् ।राजपुत्री यदा देवि समायाता गृहे सती ॥४६॥जलक्रीडाविहाराच्च मूकेव परिलक्ष्यते ।अतो दासीजना देवि वदामस्त्वां वयं जनाः ॥४७॥को मोहः किमिदं मौनं कः स्वापो म्लानता कथम् ।विचार्य भिषजो देवि दिश्यन्तां कष्टशान्तये ॥४८॥शिरीषपुष्पसदृशं यच्छरीरं सुकोमलम् ।तत् कथं सहते देवि व्याधिभारं वरानने ॥४९॥इति श्रुत्वा तदा देवी सत्वरा हंसगामिनी ।प्राप्य देशमुषा यत्र किमिदं कष्टलक्षणम् ॥५०॥पल्लवाकृतिहस्तेन कोमलं तत्करं तदा ।स्पृष्ट्वाङ्गुलीरनायासं स्फोटयामास भाविनी ॥५१॥किमस्ति तव कल्याणि का व्यथा तव वर्तते ।एते वैद्याः समागत्य पृच्छन्ति भवतीं हि तत् ॥५२॥वैद्या ऊचुःजलक्रीडां गता तत्र राजपुत्री सखीगणैः ।पार्वत्याः क्रीडितं तत्र जानीमः श्रमसम्भवम् ॥५३॥श्रमाद्ग्लानिः समुत्पन्ना जृम्भणं च पुनः पुनः ।स्वापश्च जायते तेन मा भयं कर्तुमर्हसि ॥५४॥देव्युवाचहदये निहितं वैद्याश्चन्दनं हिमसंयुतम् ।अमात्याः किमिदं शीघ्रं किमिदं बुद्बुदायते ॥५५॥अतिदाहो महान् स्वेदः पिपासा न बुभुक्षते ।प्रलाप एव किं तस्यां शास्त्रतो ब्रूत निश्चितम् ॥५६॥वैद्या ऊचुःक्रीडाविहारे मिलिताः स्त्रीजना देवसंनिधौ ।रूपेणाप्रतिमा देवी राजपुत्री च भाविनी ॥५७॥दृष्टिपातः कृतस्ताभिस्तेन पुत्र्यां व्यथाभवत् ।रक्षामन्त्रैस्तथा पीतैः सर्षपैस्तां कुमारिकाम् ॥५८॥पानीयैरभिषेकेण परा शान्तिर्भविष्यति ।इत्युक्त्वा भिषजः सर्वे निवृत्ता नृपवेश्मतः ॥५९॥सूचयन्तः पुनः सर्वे कामाभिप्रायजां व्यथाम् ।मातृपृष्टा वरारोहा चिरकालमुवाच सा ॥६०॥लज्जावती महाभागा मातरं रुदती भृशम् ।मातर्न रोचते नित्यं भाषणं न च भोजनम् ॥६१॥न चाप्युत्सवकं मातः सदाहं हृदयं शृणु ।इत्युक्त्वा विररामाथ ह्युषा नारी वरानना ॥६२॥सर्वाभिः स्त्रीभिरारब्धमन्योन्यं मुखवीक्षणम् ।लज्जानुकारि नारीणां यौवनं हि भवेदिति ॥६३॥इयं च राजकन्या हि भर्तृयोग्या किमुच्यते ।पितुः प्रसादान्मातुश्च प्राप्नुयात् सदृशं वरम् ॥६४॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि बाणयुद्धे उषाविरहोनाम सप्तदशाधिकशततमोऽध्यायः॥११७॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP