संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| अष्टषष्टितमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - अष्टषष्टितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण अष्टषष्टितमोऽध्यायः Translation - भाषांतर श्रीकृष्णेन पारिजातवृक्षस्य आदातुं नारदस्य माध्यमे इन्द्राय संदेषप्रेषणम्, दातुं अनिच्छुकं इन्द्रं गदया ताडनस्य चेतावनीवैशम्पायन उवाचततो जिगमिषुं तत्र नारदं मुनिसत्तमम् ।प्रोवाच भगवान् विष्णुरप्रमेयपराक्रमः ॥१॥महर्षे धर्मतत्त्वज्ञ स्वर्गं गत्वा त्वयानघ ।दृष्ट्वा सदस्यान् देवस्य त्रिपुरघ्नस्य धीमतः ॥२॥अनाज्ञया मद्वचनाद् विज्ञाप्यः पाकशासनः ।सम्भावयित्वा भ्रातृत्वं पौराणं वेत्सि यन्मुने ॥३॥यमस्राक्षीन्मुनिश्रेष्ठो भगवान् कश्यपस्तरुम् ।पारिजातं पुरादित्याः सुखार्थं धर्मसत्तमः ॥४॥स पुण्यमतिसौभाग्यं ददाति तरुसत्तमः ।तव दत्तं पुरा दानं व्रतेन तरुमुत्तमम् ॥५॥देवीभिर्धर्मनित्याभिर्धर्मार्थममरोत्तम ।दत्तं श्रुत्वाभिकाङ्क्षन्ति दातुं पत्न्यो मम प्रभो ॥६॥पुण्यार्थं दानधर्मार्थं मम प्रीत्यर्थमेव च ।आनाययद् द्वारवतीं पारिजातं महाद्रुमम् ॥७॥दत्ते दाने पुनः स्वर्गं तरुं त्वं नेतुमर्हसि ।स वाच्य एवं भगवान् बलभिद् भगवंस्त्वया ॥८॥तथा तथा प्रयत्नश्च कार्योऽस्मिन्मुनिसत्तम ।यथा तरुवरं दद्यात् पारिजातं सुरेश्वरः ॥९॥तत्र दूतगुणं तावत् पश्यामस्ते तपोधन ।सम्भाव्या सर्वकृत्यानां सम्पद्धि त्वयि मे मता ॥१०॥एवं नारायणेनोक्तो नारदो भगवानृषिः ।प्रहस्योवाच केशिघ्नमिदं वाक्यं तपोधनः ॥११॥बाढमेवं प्रवक्ष्यामि यदुमुख्य सुरेश्वरम् ।न तु दास्यति देवेन्द्रः पारिजातं कथंचन ॥१२॥मन्दरं पर्वतश्रेष्ठं दानवैस्त्रिदशैस्तथा ।निक्षिप्य तोयधौ पूर्वं पारिजातः समाहृतः ॥१३॥मन्दरात् पर्वतश्रेष्ठान्नयितुं प्रेषितः पुरा ।पारिजातं हरेणापि लोककर्त्रा जनार्दन ॥१४॥स्वयं विज्ञापितो गत्वा ततः शक्रेण शङ्करः ।आक्रीडद्रुम उद्याने शच्याः स्यादिति याचितः ॥१५॥तथास्त्विति वरो दत्तो महादेवेन चानघ ।न च नीतः पारिजातो मन्दरं चित्रकन्दरम् ॥१६॥क्रीडावृक्षः स शच्येति व्यपदेशेन मोक्षितः ।महेन्द्रेण महाबाहो पारिजातस्ततः पुरा ॥१७॥प्रियार्थमुमया साक्षात् पारिजातवनं हरः ।गव्यूतिशतविस्तीर्णं मन्दरस्यैव कन्दरम् ॥१८॥न तत्र सूर्यभाः कृष्ण प्रविशन्ति नगोत्तमे ।न च चन्द्रप्रभा शीता नैव कृष्ण सदागतिः ॥१९॥शीतोष्णे कृतस्तत्र शैलपुत्र्या भवन्ति हि ।स्वयंप्रभं वनं तद्धि महादेवस्य तेजसा ॥२०॥वर्जयित्वा महादेवौ सगणौ यदुनन्दन ।मां चान्यस्तद्वनं दिव्यं न प्रयाति कथंचन ॥२१॥स्रवन्ति तत्र वार्ष्णेय पारिजाताः समन्ततः ।सर्वरत्नानि मुख्यानि मनसा काङ्क्षितानि वै ॥२२॥गणास्तान्युपभुञ्जन्ति प्रवराणां महात्मनाम् ।आज्ञया देवदेवस्य लोकनाथस्य केशव ॥२३॥पारिजाताद् बहुगुणं फलं तेषां तथा वनम् ।अभिमानं प्रभाश्चैव गुणा भूरिगुणास्तथा ॥२४॥मूर्तिमन्तश्च ते वृक्षाः सोमं देवं वृषध्वजम् ।उपतिष्ठन्ति सततं प्रवरैः सह केशव ॥२५॥रौद्रेण तेजसा जुष्टा दुःखैर्हीनाः सुखान्विताः ।तरवो मन्दरे ते हि दयिताः शैलकन्यया ॥२६॥प्रविवेशान्धको नाम घोरस्तत्र महाबलः ।दैतेयो वरदानेन दर्पितः पापनिश्चयः॥२७॥स हतो देवदेवेन हरेणामित्रघातिना ।अवध्यः सर्वभूतानां वृत्राद् दशगुणं बली ॥२८॥एवं दुःखं न ते देव पारिजातं प्रदास्यति ।पुष्कराक्ष सहस्राक्षः सत्यमेतद् ब्रवीमि ते ॥२९॥सततं सहितो देव्या शच्या स हि वरद्रुमः ।सर्वकामप्रदः कृष्ण तथेन्द्राय महौजसे ॥३०॥श्रीभगवानुवाचमुने तद् युज्यते साधु महादेवेन धीमता ।यच्छचीकारणं कृत्वा न नीतः स तरुः पुरा ॥३१॥स ज्येष्ठः सर्वभूतानां लोककृत् प्रभवोऽव्ययः ।पारावर्यस्य सदृशं कृतवानिति मे मतिः ॥३२॥अहं यवीयान् देवस्य सर्वथा बलघातिनः ।लालनीयश्च भगवञ्जयन्त इव सत्तम ॥३३॥सर्वथा भगवांस्तावदुपायैर्बहुविस्तरैः ।करोतु यत्नं प्रीत्यर्थं शक्तो ह्यसि तपोधन ॥३४॥मया मुने प्रतिज्ञातं पुण्यार्थं सत्यभामया ।स्वर्गादिहानयिष्यामि पारिजातमिति प्रभो ॥३५॥मया तदनृतं कर्तुं कथं शक्यं तपोधन ।नानृतं हि वचो विप्र प्रोक्तं पूर्वं मयानघ ॥३६॥मयि भग्नप्रतिज्ञे वै लोकानां विप्लवो भवेत् ।यन्मया हि मुनिश्रेष्ठ लोकधर्मा गुणान्विताः ।परिधार्याः स्थितौ सर्वे स कथं ह्यनृतं वदेत् ॥३७॥न देवगन्धर्वगणा न राक्षसान चासुरा नैव च यक्षपन्नगाः ।मम प्रतिज्ञामपहन्तुमुद्यतामुने समर्थाः खलु भद्रमस्तु ते ॥३८॥स पारिजातं यदि न प्रदास्यतिप्रयाच्यमानो भवतामरेश्वरः ।ततः शचीव्यामृदितानुलेपनेगदां विमोक्ष्यामि पुरंदरोरसि ॥३९॥इति प्रवाच्यो यदि सामपूर्वकंप्रयाच्यमानो न तरुं प्रयच्छति ।सुनिश्चयं मद्गमनाय सर्वथात्वयापि कार्यः खलु तत्र निश्चयः ॥४०॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे नारदकृष्णभाषणे अष्टषष्टितमोऽध्यायः ॥६८॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP