संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| अष्टाशीतितमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - अष्टाशीतितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण अष्टाशीतितमोऽध्यायः Translation - भाषांतर पिण्डारकतीर्थान्तर्गते समुद्रे श्रीकृष्णस्य अन्यैः यादवैः सह जलविहारम्जनमेजय उवाचमुनेऽन्धकवधः श्राव्यः श्रुतोऽयं खलु भो मया ।शक्तिस्त्रयाणां लोकानां कृता देवेन धीमता ॥१॥निकुम्भस्य हतं देहं द्वितीयं चक्रपाणिना ।यदर्थं च यथा चैव तद् भवान् वक्तुमर्हति ॥२॥वैशम्पायन उवाचश्रद्दधानस्य राजेन्द्र वक्तव्यं भवतोऽनघ ।चरितं लोकनाथस्य हरेरमिततेजसः ॥३॥द्वारवत्यां निवसतो विष्णोरतुलतेजसः ।समुद्रयात्रा सम्प्राप्ता तीर्थे पिण्डारके नृप ॥४॥उग्रसेनो नरपतिर्वसुदेवश्च भारत ।निक्षिप्तौ नगराध्यक्षौ शेषाः सर्वे विनिर्गताः ॥५॥पृथग्बलः पृथग्धीमाँल्लोकनाथो जनार्दनः ।गोष्ठ्यः पृथक्कुमाराणां नृदेवामिततेजसाम् ॥६॥गणिकानां सहस्राणि निःसृतानि नराधिप ।कुमारैः सह वार्ष्णेयै रूपवद्भिः स्वलंकृतैः ॥७॥दैत्याधिवासं निर्जित्य यदुभिर्दृढविक्रमैः ।वेश्या निवेशिता वीर द्वारवत्यां सहस्रशः ॥८॥सामान्यास्ताः कुमाराणां क्रीडानार्यो महात्मनाम् ।इच्छाभोग्या गुणैरेव राजन्या वेषयोषितः ॥९॥स्थितिरेषा हि भैमानां कृता कृष्णेन धीमता ।स्त्रीनिमित्तं भवेद् वैरं मा यदूनामिति प्रभो ॥१०॥रेवत्या चैकया सार्धं बलो रेमेऽनुकूलया ।चक्रवाकानुरागेण यदुश्रेष्ठः प्रतापवान् ॥११॥कादम्बरीपानकलो भूषितो वनमालया ।चिक्रीड सागरजले रेवत्या सहितो बलः ॥१२॥षोडश स्त्रीसहस्राणि जले जलजलोचनः ।रमयामास गोविन्दो विश्वरूपेण सर्वदृक् ॥१३॥अहमिष्टा मया सार्द्धं जले वसति केशवः ।इति ता मेनिरे सर्वा रात्रौ नारायणस्त्रियः ॥१४॥सर्वाः सुरतचिह्नाङ्ग्यः सर्वाः सुरततर्पिताः ।मानमूहुश्च ताः सर्वा गोविन्दे बहुमानजम् ॥१५॥अहमिष्टाहमिष्टेति स्निग्धे परिजने तदा ।नारायणस्त्रियः सर्वा मुदा शश्लाघिरे शुभाः ॥१६॥करजद्विजचिह्नानि कुचाधरगतानि ताः ।दृष्ट्वा दृष्ट्वा जहृषिरे दर्पणे कमलेक्षणाः ॥१७॥गोत्रमुद्दिश्य कृष्णस्य जगिरे कृष्णयोषितः ।पिबन्त्य इव कृष्णस्य नयनैर्वदनाम्बुजम् ॥१८॥कृष्णार्पितमनोदृष्ट्यः कान्ता नारायणस्त्रियः ।मनोहरतरा राजन्नभवन्नेकनिश्चयाः ॥१९॥एकार्पितमनोदृष्ट्यो नेर्ष्यां ताश्चक्रिरेऽङ्गनाः ।नारायणेन देवेन तर्प्यमाणमनोरथाः ॥२०॥शिरांसि गर्वितान्यूहुः सर्वा निरवशेषतः ।वाल्लभ्यं केशवमयं वहन्त्यश्चारुदर्शनाः ॥२१॥ताभिस्तु सह चिक्रीड सर्वाभिर्हरिरात्मवान् ।विश्वरूपेण विधिना समुद्रे विमले जले ॥२२॥उवाह सर्वगन्धाढ्यं स्वच्छं वारि महोदधिः ।तोयं विलक्षणं मृष्टं वासुदेवस्य शासनात् ॥२३॥गुल्फदघ्नं जानुदघ्नमूरुदघ्नमथापि वा ।नार्यस्ताः स्तनदघ्नं वा जलं समभिकाङ्क्षितम् ॥२४॥सिषिचुः केशवं पत्न्यो धारा इव महोदधिम् ।सिषेच ताश्च गोविन्दो मेघः फुल्ललता इव ॥२५॥अवलम्ब्य पराः कण्ठे हरि हरिणलोचनाः ।उपगूहस्व मां वीर पतामीत्यब्रुवन् स्त्रियः ॥२६॥काश्चित् काष्ठमयैस्तेरुः प्लवैः सर्वाङ्गशोभनाः ।क्रौञ्चबर्हिणनागानामाकारसदृशैः स्त्रियः ॥२७॥मकराकृतिभिश्चान्या मीनाभैरपि चापराः ।बहुरूपाकृतिधरैः पुप्लुवुश्चापराः स्त्रियः ॥२८॥स्तनकुम्भैस्तथा तेरुः कुम्भैरिव तथापराः ।समुद्रसलिले रम्ये हर्षयन्त्यो जनार्दनम् ॥२९॥रराम सह रुक्मिण्या जले तस्मिन् मुदा युतः ।येनैव कार्ययोगेन रमतेऽमरसत्तमः ॥३०॥तत् तदेव हि ताश्चकुर्मुदा नारायणस्त्रियः ।तनुवस्त्रावृतास्तन्व्यो लीलयन्त्यस्तथापराः ।चिक्रीडुर्वासुदेवस्य जले जलजलोचनाः ॥३१॥यस्या यस्यास्तु यो भावस्तां तां तेनैव केशवः ।अनुप्रविश्य भावज्ञो निनायात्मवशं वशी ॥३२॥हृषीकेशोऽपि भगवान् हृषीकेशः सनातनः ।बभूव देशकालेन कान्तावशगतः प्रभुः ॥३३॥कुलशीलसमोऽस्माकं योग्योऽयमिति मेनिरे ।वंशरूपेण वर्तन्तमङ्गनास्ता जनार्दनम् ॥३४॥तदा दाक्षिण्ययुक्तं तं स्मितपूर्वाभिभाषिणम् ।कृष्णं भार्याश्चकमिरे भक्त्या च बहु मेनिरे ॥३५॥पृथग्गोष्ठ्यः कुमाराणां प्रकाशं स्त्रीगणैः सह ।अलंचक्रुर्जलं वीराः सागरस्य गुणाकराः ॥३६॥गीतनृत्यविधिज्ञानां तासां स्त्रीणां जनेश्वर ।तेजसाप्याहृतानां ते दाक्षिण्यात् तस्थिरे वशे ॥३७॥शृण्वन्तश्चारुगीतानि तथा स्वभिनयान्यपि ।तूर्याण्युत्तमनारीणां मुमुहुर्यदुपुङ्गवाः ॥३८॥पञ्चचूडां ततः कृष्णः कौबेर्यश्च वराप्सराः ।माहेन्द्रीश्चानयामास विश्वरूपेण हेतुना ॥३९॥ताः प्रोवाचाप्रमेयात्मा सान्त्वयित्वा जगत्प्रभुः ।उत्थापयित्वा प्रणताः कृताञ्जलिपुटास्तथा ॥४०॥क्रीडायुवत्यो भैमानां प्रविशध्वमशङ्किताः ।मत्प्रियार्थं वरारोहा रमयध्वं च यादवान् ॥४१॥दर्शयध्वं गुणान् सर्वान् नृत्यगीतै रहःसु च ।तथाभिनययोगेषु वाद्येषु विविधेषु च ॥४२॥एवं कृते विधास्यामि श्रेयो वो मनसेप्सितम् ।मच्छरीरसमा ह्येते सर्वे निरवशेषतः ॥४३॥शिरसाज्ञां तु ताः सर्वाः प्रतिगृह्य हरेस्तदा ।क्रीडायुवत्यो विविशुर्भैमानामप्सरोवराः ॥४४॥ताभिः प्रविष्टमात्राभिर्द्योतितः स महार्णवः ।सौदामिनीभिर्नभसि घनवृन्दमिवानघ ॥४५॥ता जले स्थलवत्स्थित्वा जगुश्चाप्यथ वादयन् ।चक्रुश्चाभिनयं सम्यक्स्वर्गावास इवाङ्गनाः ॥४६॥गन्धैर्माल्यैश्च ता दिव्यैर्वस्त्रैश्चायतलोचनाः ।हेलाभिर्हास्यभावैश्च जह्रुर्भैममनांसि ताः ॥४७॥कटाक्षैरिङ्गितैर्हास्यैः केलिरोषैः प्रसादितैः ।मनोऽनुकूलैर्भैमानां समाजह्रुर्मनांसि ताः ॥४८॥उत्क्षिप्योत्क्षिप्य चाकाशं वातस्कन्धान् बहूंश्च तान् ।मदिरावशगा भैमा मानयन्ति वराप्सराः ॥४९॥कृष्णोऽपि तेषां प्रीत्यर्थं विजह्रे वियतिं प्रभुः ।सर्वैः षोडशभिः सार्द्धं स्त्रीसहस्रैर्मुदान्वितः ॥५०॥प्रभावज्ञास्तु ते वीराः कृष्णस्यामिततेजसः ।न जग्मुर्विस्मयं भैमा गाम्भीर्यं परमास्थिताः ॥५१॥केचिद् रैवतकं गत्वा पुनरायान्ति भारत ।गृहान्यन्ये वनान्यन्ये काङ्क्षितान्यरिमर्दन ॥५२॥अपेयः पेयसलिलः सागरश्चाभवत् तदा ।आज्ञया लोकनाथस्य विष्णोरतुलतेजसः ॥५३॥अधावन् स्थलवच्चापि जले जलजलोचनाः ।गृह्य हस्ते तथा नार्यो युक्तामज्जंस्तथापि च ॥५४॥भक्ष्यभोज्यानि पेयानि चोष्यं लेह्यं तथैव च ।बहुप्रकारं मनसा ध्याते तेषां भवत्युत ॥५५॥अम्लानमाल्यधारिण्यस्ताः स्त्रियस्ताननिन्दितान् ।रहःसु रमयांचक्रुः स्वर्गे देवरतानुगाः ॥५६॥नौभिर्गृहप्रकाराभिश्चिक्रीडुरपराजिताः ।स्नातानुलिप्तमुदिताः सायाह्नेऽन्धकवृष्णयः ॥५७॥आयताश्चतुरस्राश्च वृत्ताश्च स्वस्तिकास्तथा ।प्रासादा नौषु कौरव्य विहिता विश्वकर्मणा ॥५८॥कैलासमन्दरच्छन्दा मेरुच्छन्दास्तथैव च ।तथा नानावयश्छन्दास्तथेहामृगरूपिणः ॥५९॥वैडूर्यतोरणैश्चित्राश्चित्राभिर्मणिभक्तिभिः ।मसारगल्वर्कमयैश्चित्रभक्तिशतैरपि ॥६०॥आक्रीडगरुडच्छन्दाश्चित्राः कनकरीतिभिः ।क्रौञ्चच्छन्दाः शुकच्छन्दा गजच्छन्दास्तथापरे ॥६१॥कर्णधारैर्गृहीतास्ता नावः कार्तस्वरोज्ज्वलाः ।सलिलं शोभयामासुः सागरस्य महोर्मिमत् ॥६२॥समुच्छ्रितः सितैः पोतैर्यानपात्रैस्तथैव च ।नौभिश्च झिल्लिकाभिश्च शुशुभे वरुणालयः ॥६३॥पुराण्याकाशगानीव गन्धर्वाणामितस्ततः ।वभ्रमुः सागरजले भैमयानानि सर्वतः ॥६४॥नन्दनच्छन्दयुक्तेषु यानपात्रेषु भारत ।नन्दनप्रतिमं सर्वं विहितं विश्वकर्मणा ॥६५॥उद्यानानि सभावृक्षा दीर्घिकाः स्यन्दनानि च ।निवेशितानि शिल्पानि तादृशान्येव सर्वथा ॥६६॥स्वर्गच्छन्देषु चान्येषु समासात्स्वर्गसंनिभाः ।नारायणाज्ञया वीर विहिता विश्वकर्मणा ॥६७॥वनेषु रुरुवुर्हृद्यं मधुरं चैव पक्षिणः ।मनोहरतरं चैव भैमानामतितेजसाम् ॥६८॥देवलोकोद्भवाः श्वेता विलेपुः कोकिलास्तदा ।मधुराणि विचित्राणि यदूनां काङ्क्षितानि च ॥६९॥चन्द्रांशुसमरूपेषु हर्म्यपृष्ठेषु बर्हिणः ।ननृतुर्मधुरारावाः शिखण्डिगणसंवृताः ॥७०॥पताका यानपात्राणां सर्वाः पक्षिगणायुताः ।भ्रमरैरुपगीताश्च स्रग्दामासक्तवासिभिः ॥७१॥नारायणाज्ञया वृक्षाः पुष्पाणि मुमुचुर्भृशम् ।ऋतवश्चारुरूपाणि विहायसि गतास्तथा ॥७२॥ववौ मनोहरो वातो रतिखेदहरः सुखः ।रजोभिः सर्वपुष्पाणां पृक्तश्चन्दनशैत्यभृत् ॥७३॥शीतोष्णमिच्छतां तत्र बभूव वसुधापते ।वासुदेवप्रसादेन भैमानां क्रीडतां तदा ॥७४॥न क्षुत्पिपासा न ग्लानिर्न चिन्ता शोक एव च ।आविवेश तदा भैमान् प्रभावाच्चक्रपाणिनः ॥७५॥अप्रशान्तमहातूर्या गीतनृत्योपशोभिताः ।बभूवुः सागरक्रीडा भैमानामतितेजसाम् ॥७६॥बहुयोजनविस्तीर्णं समुद्रं सलिलाशयम् ।रुद्धा चिक्रीडुरिन्द्राभा भैमाः कृष्णाभिरक्षिताः ॥७७॥परिच्छदस्यानुरूपं यानपात्रं महात्मनः ।नारायणस्य देवस्य विहितं विश्वकर्मणा ॥७८॥रत्नानि यानि त्रैलोक्ये विशिष्टानि विशाम्पते ।कृष्णस्य तानि सर्वाणि यानपात्रेऽतितेजसः ॥७९॥पृथक्पृथङ्निवासाश्च स्त्रीणां कृष्णस्य भारत ।मणिवैडूर्यचित्रास्ताः कार्तस्वरविभूषिताः ॥८०॥सर्वर्तुकुसुमाकीर्णाः सर्वगन्धाधिवासिताः ।यदुसिंहैः शुभैर्जुष्टाः शकुनैः स्वर्गवासिभिः ॥८१॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि भानुमतीहरणे अष्टाशीतितमोऽध्यायः ॥८८॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP