संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| अष्टादशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - अष्टादशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण अष्टादशोऽध्यायः Translation - भाषांतर इन्द्रेण संवर्तकमेघेभ्यः वर्षणं कारयित्वा गोभ्यः गोपेभ्यः च कष्टदानं, श्रीकृष्णेन गोवर्धनधारणं एवं तस्याधः गवां गोपानां च गमनम्वैशम्पायन उवाचमहे प्रतिहते शक्रः सक्रोधस्त्रिदशेश्वरः ।संवर्तकं नाम गणं तोयदानामथाब्रवीत् ॥१॥भो बलाहकमातङ्गाः श्रूयतां मम भाषितम् ।यदि वो मत्प्रियं कार्यं राजभक्तिपुरस्कृतम् ॥२॥एते वृन्दावनगता दामोदरपरायणाः ।नन्दगोपादयो गोपा विद्विषन्ति ममोत्सवम् ॥३॥आजीवो यः परस्तेषां गोपत्यं च यतः स्मृतम् ।ता गावः सप्तरात्रेण पीड्यन्तां वर्षमारुतैः ॥४॥ऐरावतगतश्चाहं स्वयमेवाम्बु दारुणम् ।स्रक्ष्यामि वृष्टिं वातं च वज्राशनिसमप्रभम् ॥५॥भवद्भिश्चण्डवर्षेण चरता मारुतेन च ।हतास्ताः सव्रजा गावस्त्यक्ष्यन्ति भुवि जीवितम् ॥६॥एवमाज्ञापयामास सर्वाञ्जलधरान् प्रभुः ।प्रत्याहते वै कृष्णेन शासने पाकशासनः ॥७॥ततस्ते जलदाः कृष्णा घोरनादा भयावहाः ।आकाशं छादयामासुः सर्वतः पर्वतोपमाः ॥८॥विद्युत्सम्पातजननाः शक्रचापविभूषिताः ।तिमिरावृतमाकाशं चक्रुस्ते जलदास्तदा ॥९॥गजा इवान्यसंयुक्ताः केचिन्मकरवर्चसः ।नागा इवान्ये गगने चेरुर्जलदपुङ्गवाः ॥१०॥तेऽन्योन्यं वपुषा बद्धा नागयूथायुतोपमाः ।दुर्दिनं विपुलं चक्रुश्छादयन्तो नभस्तलम् ॥११॥नृहस्तनागहस्ताभ्यां वेणूनां चैव सर्वतः ।धाराभिस्तुल्यरूपाभिर्ववृषुस्ते बलाहकाः ॥१२॥समुद्रं मेनिरे तं हि खमारूढं नृचक्षुषः ।दुर्विगाह्यमपर्यन्तमगाधं दुर्दिनं महत् ॥१३॥नैवापतन् वै खगमा दुद्रुवुर्मृगजातयः ।पर्वताभेषु मेघेषु खे नन्दन्तु समन्ततः ॥१४॥नष्टसूर्येन्दुसदृशैर्मेघैर्नभसि दारुणैः ।अतिवृष्टेन लोकस्य विरूपमभवद् वपुः ॥१५॥मेघौघैर्निष्प्रभाकारमदृश्यग्रहतारकम् ।चन्द्रसूर्यांशुरहितं खं बभूवातिनिष्प्रभम् ॥१६॥वारिणा मेघमुक्तेन मुच्यमानेन चासकृत् ।आबभौ सर्वतस्तत्र भूमिस्तोयमयी यथा ॥१७॥विनेदुर्बर्हिणस्तत्र तोककल्परुताः खगाः ।विवृद्धिं निम्नगा याताः प्लवगाः सम्प्लवं गताः ॥१८॥गर्जितेन च मेघानां पर्जन्यनिनदेन च ।तर्जितानीव कम्पन्ते तृणानि तरुभिः सह ॥१९॥प्राप्तोऽन्तकालो लोकानां व्यक्तमेकार्णवा मही ।इति गोपगणा वाक्यं व्याहरन्ति भयार्दिताः ॥२०॥तेनोत्पाताम्बुवर्षेण गावो विप्रहता भृशम् ।हम्भारवैः क्रन्दमाना न चेलुः स्तम्भितोपमाः ॥२१॥निष्कम्पसक्थिचरणा निष्प्रयत्नखुराननाः ।हृष्टरोमार्द्रतनवः क्षामकुक्षिपयोधराः ॥२२॥काश्चित् प्राणाञ्जहुः श्रान्ता निपेतुः काश्चिदातुराः ।काश्चित्सवत्साः पतिता गावः शीकरवेजिताः ॥२३॥काश्चिदाक्रम्य क्रोडेन वत्सांस्तिष्ठन्ति मातरः ।विमुखाः श्रान्तसक्थ्यश्च निराहाराः कृशोदराः ।पेतुरार्ता वेपमाना गावो वर्षपराजिताः ॥२४॥वत्साश्चोन्मुखका बाला दामोदरमुखाः स्थिताः ।त्राहीति वदनैर्दीनैः कृष्णमूचुरिवार्दिताः ॥२५॥गवां तत् कदनं दृष्ट्वा दुर्दिनागमजं महत् ।गोपांश्चासन्ननिधनान् कृष्णः कोपं समादधे ॥२६॥स चिन्तयित्वा संरब्धो दृष्टो योगो मयेति च ।आत्मानमात्मना वाक्यमिदमूचे प्रियंवदः ॥२७॥अद्याहमिममुत्पाट्य सकाननवनं गिरिम् ।कल्पयेयं गवां स्थानं वर्षत्राणाय दुर्धरम् ॥२८॥अयं धृतो मया शैलः पृथ्वीगृहनिभोपमः ।त्रास्यते सव्रजा गा वै मद्वश्यश्च भविष्यति ॥२९॥एवं स चिन्तयित्वा तु कृष्णः सत्यपराक्रमः ।बाह्वोर्बलं दर्शयिष्यन् समीपं तं महीधरम् ।दोर्भ्यामुत्पाटयामास कृष्णो गिरिरिवापरः ॥३०॥स धृतः संगतो मेघैर्गिरिः सव्येन पाणिना ।गृहभावं गतस्तत्र गृहाकारेण वर्चसा ॥३१॥भूमेरुत्पाट्यमानस्य तस्य शैलस्य सानुषु ।शिलाः प्रशिथिलाश्चेलुर्विनिष्पेतुश्च पादपाः ॥३२॥शिखरैर्घूर्णमानैश्च सीदमानैश्च पादपैः ।विधूतैश्चोच्छ्रितैः शृङ्गैरगमः खगमोऽभवत् ॥३३॥चलत्प्रस्रवणैः पार्श्वैर्मेघोघैरेकतां गतैः ।भिद्यमानाश्मनिचयश्चचाल धरणीधरः ॥३४॥न मेघानां प्रवृष्टानां न शैलस्याश्मवर्षिणः ।विविदुस्ते जना रूपं वायोस्तस्य च गर्जतः ॥३५॥मेघैः सशैलसंस्थानैर्नीलैः प्रस्रवणार्पितैः ।मिश्रीकृत इवाभाति गिरिरुद्दामबर्हवान् ॥३६॥आप्लुतोऽयं गिरिः पक्षैरिति विद्याधरोरगाः ।गन्धर्वाप्सरसश्चैव वाचो मुञ्चन्ति सर्वशः॥३७॥सहस्ततलविन्यस्तो मुक्तमूलः क्षितेस्तलात् ।रीतीर्निर्वर्तयामास काञ्चनाञ्जनराजतीः॥३८॥कानिचिच्छिथिलानीव संच्छिन्नार्द्धानि कानिचित् ।गिरेर्मेघप्रविष्टानि तस्य शृङ्गाणि चाभवन् ॥३९॥गिरिणा कम्पमानेन कम्पितानां तु शाखिनाम् ।पुष्पमुच्चावचं भूमौ व्यशीर्यत समन्ततः ॥४०॥निःसृताः पृथुमूर्धानः स्वस्तिकार्धविभूषिताः ।द्विजिह्वपततः क्रुद्धाः खेचराः खे समन्ततः ॥४१॥आर्तिं जग्मुः खगगणा वर्षेण च भयेन च ।उत्पत्त्योत्पस्य गगनात् पुनः पेतुरवाङ्मुखाः॥४२॥रेसुरारोषिताः सिंहाः सजला इव तोयदाः ।गर्गरा इव मथ्यन्तो नेदुः शार्दूलपुङ्गवाः ॥४३॥विषमैश्च समीभूतैः समैश्चात्यन्तदुर्गमैः ।व्यावृत्तदेहः च गिरिरन्य एवोपलक्ष्यते ॥४४॥अतिवृष्टस्य तैर्मेघैस्तस्य रूपं बभूव ह ।स्तम्भितस्येव रुद्रेण त्रिपुरस्य विहायसि ॥४५॥बाहुदण्डेन कृष्णस्य विधृतं सुमहत्तदा ।नीलाभ्रपटलच्छन्नं तद्गिरिच्छत्रमाबभौ ॥४६॥स्वप्नायमानो जलदैर्निमीलितगुहामुखः ।बाहूपधाने कृष्णस्य प्रसुप्त इव खे गिरिः ॥४७॥निर्विहङ्गरुतैर्वृक्षैर्निर्मयूररुतैर्वनैः ।निरालम्ब इवाभाति गिरिः स्वशिखरैर्वृतः ॥४८॥पर्यस्तैर्घूर्णमानैश्च प्रचलद्भिश्च सानुभिः ।सज्वराणीव शैलस्य वनानि शिखराणि च ॥४९॥उत्तमाङ्गगतास्तस्य मेघाः पवनवाहनाः ।त्वर्यमाणा महेन्द्रेण तोयं मुमुचुरक्षयम् ॥५०॥स लम्बमानः कृष्णस्य भुजाग्रे सघनो गिरिः ।चक्रारूढ इवाभाति देशो नृपतिपीडितः ॥५१॥स मेघनिचयस्तस्थौ गिरिं तं परिवार्य ह ।पुरं पुरस्कृत्य यथा स्फीतो जनपदो महान् ॥५२॥निवेश्य तं करे शैलं तोलयित्वा च सस्मितम् ।प्रोवाच गोप्ता गोपानां प्रजापतिरिव स्थितः ॥५३॥एतद् दैवैरसम्भाव्यं दिव्येन विधिना मया ।कृतं गिरिगृहं गोपा निर्वातं शरणं गवाम् ॥५४॥क्षिप्रं विशन्तु यूथानि गवामिह हि शान्तये ।निर्वातेषु च देशेषु निवसन्तु यथासुखम् ॥५५॥यथाश्रेष्ठं यथायूथं यथासारं यथासुखम् ।विभज्यतामयं देशः कृतं वर्षनिवारणम् ॥५६॥शैलोत्पाटनभूरेषा महती निर्मिता मया ।पञ्चक्रोशप्रमाणेन क्रोशैकविस्तरो महान् ।त्रैलोक्यमप्युत्सहते रक्षितुं किं पुनर्व्रजम् ॥५७॥ततः किलकिलाशब्दो गवां हम्भारवैः सह ।गोपानां तुमुलो जज्ञे मेघनादश्च बाह्यतः॥५८॥प्राविशन्त ततो गावो गोपैर्यूथप्रकल्पिताः ।तस्य शैलस्य विपुलं प्रदरं गह्वरोदरम् ॥५९॥कृष्णोऽपि मूले शैलस्य शैलस्तम्भ इवोच्छ्रितः ।दधारैकेन हस्तेन शैलं प्रियमिवातिथिम् ॥६०॥ततो व्रजस्य भाण्डानि युक्तानि शकटानि च ।विविशुर्वर्षभीतास्ते तद् गृहं गिरिनिर्मितम् ॥६१॥अतिदैवं तु कृष्णस्य दृष्ट्वा तत् कर्म वज्रभृत् ।मिथ्याप्रतिज्ञो जलदान् वारयामास वै विभुः ॥६२॥सप्तरात्रे तु निर्वृत्ते धरण्यां विगतोत्सवः ।जगाम संवृतो मेघैर्वृत्रहा स्वर्गमुत्तमम् ॥६३॥निवृत्ते सप्तरात्रं तु निष्प्रयत्ने शतक्रतौ ।गताभ्रे विमले व्योम्नि दिवसे दीप्तभास्करे ॥६४॥गावस्तेनैव मार्गेण परिजग्मुर्यथागतम् ।स्वं च स्थानं ततो घोषः प्रत्ययात् पुनरेव सः ॥६५॥कृष्णोऽपि तं गिरिश्रेष्ठं स्वस्थाने स्थावरात्मवान् ।प्रीतो निवेशयामास शिवाय वरदो विभुः ॥६६॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि गोवर्धनधारणेऽष्टादशोऽध्यायः ॥१८॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP