संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| चतुर्विंशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - चतुर्विंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण चतुर्विंशोऽध्यायः Translation - भाषांतर केशेः अत्याचाराणि, श्रीकृष्णेन तस्य वधम्वैशम्पायन उवाचअन्धकस्य वचः श्रुत्वा कंसः संरक्तलोचनः ।न किंचिदब्रवीत् क्रोधाद् विवेश स्वं निकेतनम् ॥१॥ते च सर्वे यथावेश्म यादवाः श्रुतविस्तराः ।जग्मुर्विगतसंकल्पाः कंसवैकृतशंसिनः ॥२॥अक्रूरोऽपि यथाऽऽज्ञप्तः कृष्णदर्शनलालसः ।जगाम रथमुख्येन मनसा तुल्यगामिना ॥३॥कृष्णस्यापि निमित्तानि शुभान्यङ्गगतानि वै ।पितृतुल्येन शंसन्ति बान्धवेन समागमम् ॥४॥प्रागेव च नरेन्द्रेण माथुरेणौग्रसेनिना ।केशिनः प्रेषितो दूतो वधायोपेन्द्रकारणात् ॥५॥स च दूतवचः श्रुत्वा केशी क्लेशकरो नृणाम् ।वृन्दावनगतो गोपान् बाधते स्म दुरासदः ॥६॥मानुषं मांसमश्नानः क्रुद्धो दुष्टपराक्रमः ।दुर्दान्तो वाजिदैत्योऽसावकरोत् कदनं महत् ॥७॥निघ्नन् गा वै सगोपालान् गवां पिशितभोजनः ।दुर्मदः कामचारी च स केशी निरवग्रहः ॥८॥तदरण्यं क्ष्मशानाभं नृणां मांसास्थिभिर्वृतम् ।यत्रास्ते स हि दुष्टात्मा केशी तुरगदानवः ॥९॥खुरैर्दारयते भूमिं वेगेनारुजते द्रुमान् ।हेषितैः स्पर्द्धते वायुं प्लुतैर्लङ्घयते नभः ॥१०॥अतिप्रवृद्धो मत्तश्च दुष्टोऽश्वो वनगोचरः ।आकम्पितसटो रौद्रः कंसस्य चरितानुगः ॥११॥ईरिणं तद् वनं सर्वं तेनासीत् पापकर्मणा ।कृतं तुरगदैत्येन सर्वान् गोपाञ्जिघांसता ॥१२॥तेन दुष्टप्रचारेण दूषितं तद् वनं महत् ।न नृभिर्गोधनैवापि सेव्यते वनवृत्तिभिः ॥१३॥निःसम्पातः कृतः पन्थास्तेन तद्विषयाश्रयः ।मदाच्चलितवृत्तेन नृमांसान्यश्नता भृशम् ॥१४॥नृशब्दानुसरः क्रुद्धः स कदाचिद् वनागमे ।जगाम घोषसंवासं चोदितः कालधर्मणा ॥१५॥तं दृष्ट्वा दुद्रुवुर्गोपाः स्त्रियश्च शिशुभिः सह ।क्रन्दमाना जगन्नाथं कृष्णं नाथमुपाश्रिताः ॥१६॥तासां रुदितशव्देन गोपानां क्रन्दितेन च ।दत्त्वाभयं तु कृष्णो वै केशिनं सोऽभिदुद्रुवे ॥१७॥केशी चाप्युन्नतग्रीवः प्रकाशदशनेक्षणः ।हेषमाणो जवोदग्रो गोविन्दाभिमुखो ययौ ॥१८॥तमापतन्तं सम्प्रेक्ष्य केशिनं हयदानवम् ।प्रत्युज्जगाम गोविन्दस्तोयदः शशिनं यथा ॥१९॥केशिनस्तु तमभ्याशे दृष्ट्वा कृष्णमवस्थितम् ।मनुष्यबुद्धयो गोपाः कृष्णमूचुर्हितैषिणः ॥२०॥कृष्ण तात न खल्वेष सहसा ते हयाधमः ।उपसर्प्यो भवान् बालः पापश्चैष दुरासदः ॥२१॥एष कंसस्य सहजः प्राणस्तात बहिश्चरः ।उत्तमश्च हयेन्द्राणां दानवोऽप्रतिमो युधि ॥२२॥त्रासनः सर्वभूतानां तुरगाणां महाबलः ।अवध्यः सर्वभूतानां प्रथमः पापकर्मणाम् ॥२३॥गोपानां तद् वचः श्रुत्वा वदतां मधुसूदनः ।केशिना सह युद्धाय मतिं चक्रेऽरिसूदनः ॥२४॥ततः सव्यं दक्षिणं च मण्डलं स परिभ्रमन् ।पद्भ्यामुभाभ्यां स हयः क्रोधेनारुजते द्रुमान् ॥२५॥मुखे लम्बसटे चास्य स्कन्धे केशघनावृते ।वलयोऽभ्रतरङ्गाभाः सुस्रुवुः क्रोधजं जलम् ॥२६॥स फेनं वक्त्रजं चैव ववर्ष रजसावृतम् ।हिमकाले यथा व्योम्नि नीहारमिव चन्द्रमाः ॥२७॥गोविन्दमरविन्दाक्षं हेषितोद्गारशीकरैः ।स फेनैर्वक्त्रनिर्गीर्णैः प्रोक्षयामास भारत ॥२८॥खुरोद्धूतावसिक्तेन मधुकक्षोदपाण्डुना ।रजसा स हयः कृष्णं चकारारुणमूर्धजम् ॥२९॥प्लुतवल्गितपादस्तु तक्षमाणो धरां खुरैः ।दन्तान् निर्दशमानस्तु केशी कृष्णमुपाद्रवत् ॥३०॥स संसक्तस्तु कृष्णेन केशी तुरगसत्तमः ।पूर्वाभ्यां चरणाभ्यां वै कृष्णं वक्षस्यताडयत् ॥३१॥पुनः पुनः स च बली प्राहिणोत्पार्श्वतः खुरान् ।कृष्णस्य दानवो घोरं प्रहारममितौजसः॥३२॥वक्त्रेण चास्य घोरेण तीक्ष्णदंष्ट्रायुधेन वै ।अदशद् बाहुशिखरं कृष्णस्य रुषितो हयः ॥३३॥स लम्बकेसरसटः कृष्णेन सह सङ्गतः ।रराज केशी मेघेन संसक्तः ख इवांशुमान् ॥३४॥उरस्तस्योरसा हन्तुमियेष वलवान् हयः ।वेगेन वासुदेवस्य क्रोधाद् द्विगुणविक्रमः ॥३५॥तस्योत्सिक्तस्य बलवान् कृष्णोऽप्यमितविक्रमः ।बाहुमाभोगिनं कृत्वा मुखे क्रुद्धः समादधत् ॥३६॥स तं बाहुमशक्तो वै खादितुं भेत्तुमेव च ।दशनैर्मूलनिर्मुक्तैः सफेनं रुधिरं वमन् ॥३७॥विपाटिताभ्यामोष्ठाभ्यां कटाभ्यां विदलीकृतः ।अक्षिणी विवृते चक्रे विसृते मुक्तबन्धने ॥३८॥निरस्तहनुराविष्टः शोणिताक्तविलोचनः ।उत्कर्णो नष्टचेतास्तु स केशी बह्वचेष्टत ॥३९॥उत्पतन्नसकृत्पादैः शकृन्मूत्रं समुत्सृजन् ।खिन्नाङ्गरोमा श्रान्तस्तु निर्यत्नचरणोऽभवत् ॥४०॥केशिवक्त्रविलग्नस्तु कृष्णबाहुरशोभत ।व्याभुग्न इव घर्मान्ते चन्द्रार्धकिरणैर्घनः ॥४१॥केशी च कृष्णसंसक्तः शान्तगात्रो व्यरोचत ।प्रभातावनतश्चन्द्रः श्रान्तो मेरुमिवाश्रितः ॥४२॥तस्य कृष्णभुजोद्धूताः केशिनो दशना मुखात् ।पेतुः शरदि निस्तोयाः सिताभ्रावयवा इव ॥४३॥स तु केशी भृशं शान्तः कृष्णेनाक्लिष्टकर्मणा ।स्वभुजं स्वायतं कृत्वा पाटितो बलवत्तदा ॥४४॥स पाटितो भुजेनाजौ कृष्णेन विकृताननः ।केशी नदन्महानादं दानवो व्यथितस्तदा ॥४५॥विघूर्णमानस्त्रस्ताङ्गो मुखाद् रुधिरमुद्वमन् ।भृशं व्यङ्गीकृतवपुर्निकृत्तार्द्ध इवाचलः ॥४६॥व्यादितास्यो महारौद्रः सोऽसुरः कृष्णबाहुना ।निपपात यथा कृत्तो नागो हि द्विदलीकृतः ॥४७॥बाहुना कृत्तदेहस्य केशिनो रूपमाबभौ ।पशोरिव महाघोरं निहतस्य पिनाकिना ॥४८॥द्विपादपृष्ठपुच्छार्द्धे श्रवणैकाक्षिनासिके ।केशिनस्तद्विधाभूते द्वे चार्धे रेजतुः क्षितौ ॥४९॥केशिदन्तक्षतस्यापि कृष्णस्य शुशुभे भुजः ।वृद्धः साल इवारण्ये गजेन्द्रदशनाङ्कितः ॥५०॥तं हत्वा केशिनं युद्धे कल्पयित्वा च भागशः ।कृष्णः पद्मपलाशाक्षो हसंस्तत्रैव तस्थिवान् ॥५१॥तं हतं केशिनं दृष्ट्वा गोपा गोपस्त्रियस्तथा ।बभूवुर्मुदिताः सर्वे हतविघ्ना गतक्लमाः ॥५२॥दामोदरं तु श्रीमन्तं यथास्थानं यथावयः ।अभ्यनन्दन् प्रियैर्वाक्यैः पूजयन्तः पुनः पुनः ॥५३॥गोपा ऊचुःअहो तात कृतं कर्म हतोऽयं लोककण्टकः ।दैत्यः क्षितिचरः कृष्ण हयरूपं समास्थितः ॥५४॥कृतं वृन्दावनं क्षेमं सेव्यं नृमृगपक्षिणाम् ।घ्नता पापमिमं तात केशिनं हयदानवम् ॥५५॥हता नो बहवो गोपा गावो वत्सेषु वत्सलाः ।नैके चान्ये जनपदा हतानेन दुरात्मना ॥५६॥एष संवर्तकं कर्तुमुद्यतः खलु पापकृत् ।नृलोकं निर्नरं कृत्वा चर्तुकामो यथासुखम् ॥५७॥नैतस्य प्रमुखे स्थातुं कश्चिच्छक्तो जिजीविषुः ।अपि देवसमूहेषु किं पुनः पृथिवीतले ॥५८॥वैशम्पायन उवाचअथाहान्तर्हितो विप्रो नारदः खगमो मुनिः ।प्रीतोऽस्मि विष्णो देवेश कृष्ण कृष्णेति चाब्रवीत् ॥५९॥नारद उवाचयदिदं दुष्करं कर्म कृतं केशिजिघांसया ।त्वय्येव केवलं युक्तं त्रिदिवे त्र्यम्बकस्य वा ॥६०॥अहं युद्धोत्सुकस्तात त्वद्गतेनान्तरात्मना ।इदं नरहयं युद्धं द्रष्टुं स्वर्गादिहागतः ॥६१॥पूतनानिधनादीनि कर्माणि तव दृष्टवान् ।अहं त्वनेन गोविन्द कर्मणा परितोषितः ॥६२॥हयादस्मान्महेन्द्रोऽपि बिभेति बलसूदनः ।कुर्वाणाच्च वपुर्घोरं केशिनो दुष्टचेतसः ॥६३॥यत्त्वया पाटितो देहो भुजेनायतपर्वणा ।एषोऽस्य मृत्युरन्ताय विहितो विश्वयोनिना ॥६४॥यस्मात् त्वया हतः केशी तस्मान्मच्छासनं शृणु ।केशवो नाम नाम्ना त्वं ख्यातो लोके भविष्यसि ॥६५॥स्वस्त्यस्तु भवतो लोके साधु याम्यहमाशुगः ।कृत्यशेषं च ते कार्यं शक्तस्त्वमसि मा चिरम् ॥६६॥त्वयि कार्यान्तरगते नरा इव दिवौकसः ।विडम्बयन्तः क्रीडन्ति लीलां त्वद्बलमाश्रिताः ॥६७॥अभ्याशे वर्तते कालो भारतस्याहवोदधेः ।हस्तप्राप्तानि युद्धानि रागं त्रिदिवगामिनाम् ॥६८॥पन्थानः शोधिता व्योम्नि विमानारोहणोर्ध्वगाः ।अवकाशा विभज्यन्ते शक्रलोके महीक्षिताम् ॥६९॥उग्रसेनसुते शान्ते पदस्थे त्वयि केशव ।अभितस्तन्महद् युद्धं भविष्यति महीक्षिताम् ॥७०॥त्वां चाप्रतिमकर्माणं संश्रयिष्यन्ति पाण्डवाः ।भेदकाले नरेन्द्राणां पक्षग्राहो भविष्यसि ॥७१॥त्वयि राजासनस्थे हि राजश्रियमनुत्तमाम् ।शुभां त्यक्ष्यन्ति राजानस्त्वत्प्रभावान्न संशयः ॥७२॥एष मे कृष्ण संदेशः श्रुतिभिः ख्यातिमेष्यति ।देवतानां दिविस्थानां जगतश्च जगत्पते ॥७३॥दृष्टं मे भवतः कर्म दृष्टश्चासि मया प्रभो ।कंसे भूयः समेष्यामि साधिते साधु याम्यहम् ॥७४॥एवमुक्त्वा तु स तदा नारदः खं जगाम ह ।नारदस्य वचः श्रुत्वा देवसंगीतयोनिनः ॥७५॥तथेति स समाभाष्य पुनर्गोपान् समासदत् ।गोपाः कृष्णं समासाद्य विविशुर्व्रजमेव ह ॥७६॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि केशिवधे चतुर्विशोऽध्यायः ॥२४॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP