संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| चतुरधिकशततमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - चतुरधिकशततमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण चतुरधिकशततमोऽध्यायः Translation - भाषांतर प्रद्युम्नस्य जन्म, शम्बरासुरेण प्रद्युम्नस्य सूतिकागृहात् अपहरणं, प्रद्युम्नमायावतीसंवादः, प्रद्युम्नस्य शम्बरासुरस्य शतपुत्राणां सह युद्धम्जनमेजय उवाचय एष भवता पूर्वं शम्बरघ्नेत्युदाहृतः ।प्रद्युम्नः च कथं जघ्ने शम्बरं तद् ब्रवीहि मे ॥१॥वैशम्पायन उवाचरुक्मिण्यां वासुदेवस्य लक्ष्म्यां कामो धृतव्रतः ।शम्बरान्तकरो जज्ञे प्रद्युम्नः कामदर्शनः ।सनत्कुमार इति यः पुराणे परिगीयते ॥२॥तं सप्तरात्रे सम्पूर्णे निशीथे सूतिकागृहात् ।जहार कृष्णस्य सुतं शिशुं वै कालशम्बरः ॥३॥विदितं तस्य कृष्णस्य देवमायानुवर्तिनः ।ततो न निगृहीतः स दानवो युद्धदुर्मदः ॥४॥स मृत्युना परीतायुर्मायया संजहार तम् ।दोर्भ्यामुत्क्षिप्य नगरं स्वं निनाय महासुरः ॥५॥अनपत्या तु तस्यासीद् भार्या रूपगुणान्विता ।नाम्ना मायावती नाम मायेव शुभदर्शना ॥६॥ददौ तं वासुदेवस्य पुत्रं पुत्रमिवात्मजम् ।तस्या महिष्या मानिन्या दानवः कालचोदितः ॥७॥मायावती तु तं दृष्ट्वा सम्प्रहृष्टतनूरुहा ।हर्षेण महता युक्ता पुनः पुनरुदैक्षत ॥८॥अथ तस्या निरीक्षन्त्याः स्मृतिः प्रादुर्बभूव ह ।अयं स मम कान्तोऽभूत् स्मृत्वैवं चान्वचिन्तयत्॥९॥अयं स नाथो भर्ता मे यस्यार्थेऽहं दिवानिशम् ।चिन्ताशोकार्णवे मग्ना न विन्दामि रतिं क्वचित् ॥१०॥अयं भगवता पूर्वं देवदेवेन शूलिना ।खेदितेन कृतोऽनङ्गो दृष्टो जात्यन्तरे मया ॥११॥कथमस्य स्तनं दास्ये मातृभावेन जानती ।भर्तुर्भार्या त्वहं भूत्वा वक्ष्ये वा पुत्र इत्युत ॥१२॥एवं संचिन्त्य मनसा धात्र्यास्तं सा समर्पयत् ।रसायनप्रयोगैश्च शीघ्रमेव व्यवर्धयत् ॥१३॥धात्र्याः सकाशात्स च तां शृण्वन् रुक्मिणिनन्दनः ।मायावतीमविज्ञानान्मेने स्वामेव मातरम् ॥१४॥सा च तं वर्द्धयामास कार्ष्णिं कमललोचनम् ।मायाश्चास्मै ददौ सर्वा दानवी काममोहिता ॥१५॥स यदा यौवनस्थस्तु प्रद्युम्नः कामदर्शनः ।चिकीर्षितज्ञो नारीणां सर्वास्त्रविधिपारगः ॥१६॥तं सा मायावती कान्तं कामयामास कामिनी ।इङ्गितैश्चापि वीक्षन्ती प्रालोभयत सस्मिता ।प्रसज्जन्तीं तु तां देवीं बभाषे चारुहासिनीम् ॥१७॥प्रद्युम्न उवाचमातृभावं व्यतिक्रम्य किमेवं वर्तसेऽन्यथा ।अहो दुष्टस्वभावासि स्त्रीत्वे चपलमानसा ॥१८॥या पुत्रभावमुत्सृज्य मयि लोभात् प्रवर्तसे ।न तु तेऽहं सुतः सौम्ये कोऽयं शीलविपर्ययः ॥१९॥तत्त्वमिच्छाम्यहं देवि कथितं को न्वयं विधिः ।विद्युत्सम्पातचपलः स्वभावः खलु योषिताम् ॥२०॥या नरेषु प्रसज्जन्ते नगाग्रेषु घना इव ।यदि तेऽहं सुतः सौम्ये यदि वा नात्मजः शुभे ॥२१॥कथितं तत्त्वमिच्छामि किमिदं ते चिकीर्षितम् ।एवमुक्ता तु सा भीरुः कामेन व्यथितेन्द्रिया ॥२२॥प्रियं प्रोवाच वचनं विविक्ते केशवात्मजम् ।न त्वं मम सुतः कान्त नापि ते शम्बरः पिता ॥२३॥रूपवानसि विक्रान्तस्त्वं जात्या वृष्णिनन्दन ।पुत्रस्त्वं वासुदेवस्य रुक्मिण्यानन्दवर्धनः ॥२४॥दिवसे सप्तमे बालो जातमात्रोऽपवाहितः ।सूतिकागारमध्यात् त्वं शिशुरुत्तानशायितः ॥२५॥मम भर्त्रा हृतोऽसि त्वं बलवीर्यप्रवर्तिना ।पितुस्ते वासुदेवस्य धर्षयित्वा गृहं महत् ॥२६॥पाकशासनकल्पस्य हृतस्त्वं शम्बरेण ह ।सा च ते करुणं माता त्वां बालमनुशोचती ॥२७॥अत्यर्थं तप्यते वीर विवत्सा सौरभी यथा ।सोऽपि शक्रादपि महान् पिता ते गरुडध्वजः ॥२८॥इह त्वां नाभिजानाति बालमेवापवाहितम् ।कान्त वृष्णिकुमारस्त्वं न हि त्वं शम्बरात्मजः ॥२९॥वीर नैवंविधान् पुत्रान् दानवा जनयन्ति हि ।अतोऽहं कामयामि त्वां न हि त्वं जनितो मया ॥३०॥रूपं ते सौम्य पश्यन्ती सीदामि हृदि दुर्बला ।यन्मे व्यवसितं कान्त यत् तु मे हृदि वर्तते ॥३१॥तन्मे मनसि वार्ष्णेय प्रतिसंधातुमर्हसि ।एष ते कथितः सर्वः सद्भावस्त्वयि यो मम ॥३२॥श्रुत्वैवमखिलं सर्वं मायावत्या प्रभाषितम् ॥३३॥चक्रायुधात्मजः क्रुद्धः शम्बरं स समाह्वयत् ।सर्वमायास्वभिज्ञोऽसौ नाम विश्राव्य चात्मनः ॥३४॥अहो दानवदुष्टात्मा केशवस्यात्मजं शिशुम् ।हरते निर्भयश्चैव भयमद्य करोम्यहम् ॥३५॥कथं वै क्रोधमागच्छेद् वध्यते वा कथं मया ।प्रथमं किं करिष्यामि येन कुप्यति मन्दधीः ॥३६॥अस्तिं चास्य ध्वजं चित्रं सिंहकेतुविभूषितम् ।तोरणं गृहमासाद्य उच्छ्रितं मेरुशृङ्गवत् ॥३७॥एतदुन्मथ्य पातिष्ये भल्लेन निशितेन वै ।ध्वजच्छेदं विदित्वाथ शम्बरो निष्क्रमिष्यति ॥३८॥ततो युद्धेन हत्वाऽऽजौ गन्तास्मि द्वारकां प्रति ।इत्युक्त्वा सज्यमाचक्रे सशरं चापमोजसा ॥३९॥चिच्छेद ध्वजरत्नं तु शम्बरस्य महाभुजः ।तच्छुत्वा तु ध्वजच्छेदं प्रद्युम्नेन महात्मना ॥४०॥क्रुद्धस्त्वाज्ञापयामास पुत्रान् वै कालशम्बरः ।जिघांसध्वं महावीरा रौक्मिणेयं त्वरान्विताः ॥४१॥नैवं वै द्रष्टुमिच्छामि मम विप्रियकारकम् ।श्रुत्वा तु शम्बराद्वाक्यं सुतास्ते शम्बरस्य ह॥४२॥संनद्धा निर्ययुर्हृष्टाः प्रद्युम्नवधकाङ्क्षया ।चित्रसेनोऽतिसेनश्च विष्वक्सेनो गदस्तथा ॥४३॥श्रुतसेनः सुषेणस्तु सोमसेनो मनस्तथा ।सेनानी सैन्यहन्ता च सेनाहा सैनिकस्तथा ॥४४॥सेनस्कन्धोऽतिसेनश्च सेनको जनकः सुतः ।सकालो विकलः शान्तः स शातान्तकरोऽशुचिः॥४५॥कुम्भकेतुः सुदंष्ट्रश्च केशिरित्येवमादयः ।चक्रतोमरशूलानि पट्टिशानि परश्वधान् ॥४६॥गृहीत्वा निर्ययुर्हृष्टा मन्युना परमाप्लुताः ।आह्वयंस्तममित्रं वै तस्थुः संग्राममूर्धनि ॥४७॥प्रद्युम्नस्तु महाबाहू रथमारुह्य सत्वरम् ।निर्ययौ चापमादाय संग्रामाभिमुखस्तदा ॥४८॥ततः प्रवृत्तं युद्धं तु तुमुलं लोमहर्षणम् ।शम्बरस्य तु पुत्राणां केशवस्य च सूनुना ॥४९॥ततो देवाः सगन्धर्वाः समहोरगचारणाः ।देवराजं पुरस्कृत्य विमानाग्रेषु धिष्ठिताः ॥५०॥नारदस्तुम्बुरुश्चैव हाहाहूहूश्च गायनाः ।अप्सरोभिः परिवृताः सर्वे तत्रावतस्थिरे ॥५१॥देवराजप्रतीहारो गन्धर्वश्चित्रमद्भुतम् ।शशंस देवराजाय वज्रिणे तद्विचेष्टितम् ॥५२॥शम्बरस्य शतं पुत्रा एकः कृष्णस्य चात्मजः ।बहूनां युध्यतामेष कथं विजयमाप्नुयात् ॥५३॥तच्छुत्वा भाषितं तस्य प्रहस्य बलसूदनः ।उवाच वचनं चेदं शृणु योऽस्य पराक्रमः ॥५४॥कामोऽयं पूर्वदेहे तु हरक्रोधाग्निना हतः ।रत्या प्रसादितो देवः कामपत्न्या त्रिलोचनः ।परितुष्टेन देवेन वरमस्याः प्रदीयते ॥५५॥विष्णुर्मानुषदेहस्तु द्वारकायां भविष्यति ।तस्य पुत्रत्वमस्यैव भविष्यति न संशयः ॥५६॥अनङ्ग इति विख्यातस्त्रैलोक्ये तु महायशाः ।तत्रोत्पन्नो महातेजाः शम्बरं घातयिष्यति ॥५७॥सप्ताहे जातमात्रे तु रुक्मिण्याः क्रोडसंस्थितम् ।आस्थाय शम्बरो मायां प्रद्युम्नमपनेष्यति ॥५८॥तद् गच्छ शम्बरगृहं भार्या मायावती भव ।मायारूपप्रतिच्छन्ना शम्बरं मोहयिष्यसि ॥५९॥तत्र त्वमात्मनः कान्तं बालरूपं विवर्धय ।प्राप्तयौवनदेहस्तु शम्बरं निहनिष्यति ॥६०॥ततस्त्वया सहानङ्गो द्वारकां वै गमिष्यति ।रमिष्यति त्वया सार्द्धं शैलपुत्र्या यथा ह्यहम् ॥६१॥एवमादिश्य देवेशो जगाम पुरुषोत्तमः ।कैलासं मेरुसंकाशं सिद्धचारणसेवितम् ॥६२॥कामपन्नी प्रणम्याथ देवदेवमुमापतिम् ।जगाम शम्बरगृहं कालस्यान्तं प्रतीक्षती ॥६३॥एवमेष महाबाहुः शम्बरं निहनिष्यति ।सह पुत्रेण प्रद्युम्नो हन्ता तस्य दुरात्मनः ॥६४॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शम्बरवधे चतुरधिकशततमोऽध्यायः ॥१०४॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP