संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| एकत्रिंशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - एकत्रिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकत्रिंशोऽध्यायः Translation - भाषांतर कंसस्य स्त्रीणां मातुः च विलापःवैशम्पायन उवाचभर्तारं पतितं दृष्ट्वा क्षीणपुण्यमिव ग्रहम् ।कंसपत्न्यो हतं कंसं समन्तात् पर्यवारयन् ॥१॥तं महीशयने सुप्तं क्षितिनाथं गतायुषम् ।भार्याः स्म दृष्ट्वा शोचन्ति मृग्यो मृगपतिं यथा ॥२॥हा हताः स्म महाबाहो हताशा हतबान्धवाः ।वीरपत्न्यो हते वीरे त्वयि वीरव्रतप्रिये ॥३॥इमामवस्थां पश्यन्त्यः पश्चिमां तव नैष्ठिकीम् ।कृपणं राजशार्दूल विलपामः सबान्धवाः ॥४॥छिन्नमूलाः स्म संवृत्ताः परित्यक्तास्त्वया विभो ।त्वयि पञ्चत्वमापन्ने नाथेऽस्माकं महाबले ॥५॥को नः कोपपरीताङ्गी रतिसंसर्गलालसाः ।लता इव विचेष्टन्तीः शयनीयानि नेष्यति ॥६॥इदं तेऽसदृशं सौम्य हृद्यनिःश्वासमारुतम् ।दहत्यर्को मुखं कान्तं निस्तोयमिव पङ्कजम् ॥७॥इमे ते श्रवणे शून्ये न शोभेते विकुण्डले ।शिरोधरायां संलीने सततं कुण्डलप्रिये ॥८॥क्व ते स मुकुटो वीर सर्वरत्नविभूषितः ।अत्यर्थं शिरसो लक्ष्मीं यो दधारार्कसप्रभाम् ॥९॥अनेन हि कलत्रेण तवान्तःपुरशोभिना ।कथं दीनेन कर्तव्यं त्वयि लोकान्तरं गते ॥१०॥ननु नाम स्त्रियः साध्व्यः प्रियभोगेष्ववञ्चिताः ।पतीनामपरित्याज्याः स त्वं नस्त्यज्य गच्छसि ॥११॥अहो कालो महावीर्यो येन पर्ययकर्मणा ।कालतुल्यः सपत्नानां त्वं क्षिप्रमपनीयसे ॥१२॥वयं दुःखेष्वनुचिताः सुखेष्वेव त्वयैधिताः ।कथं वत्स्याम विधवा नाथ कार्पण्यमाश्रिताः ॥१३॥स्त्रीणां चारित्रलुब्धानां पतिरेकः परा गतिः ।त्वं हि नः सा गतिश्छिन्ना कृतान्तेन बलीयसा ॥१४॥वैधव्येनाभिभूताः स्मः शोकसंतप्तमानसाः ।रोदितव्यह्रदे मग्नाः क्व गच्छामस्त्वया विना ॥१५॥सह त्वया गतः कालस्त्वदङ्के क्रीडितं कृतम् ।क्षणेन तद्विहीनाः स्म अनित्या हि नृणां गतिः ॥१६॥अहो बलविहीनाः स्म विपन्ने त्वयि मानद ।एकदुष्कृतकारिण्यः सर्वा वैधव्यलक्षणाः ॥१७॥त्वया स्वर्गप्रतिच्छन्दैर्लालिताः स्म रतिप्रियाः ।त्वयि कामवशाः सर्वाः स नस्त्यज्य क्व गच्छसि ॥१८॥अस्माकं त्वमनाथानां नाथो ह्यसि सुरोपम ।आसां विलपमानानां कुररीणामिव प्रभो ।प्रतिवाक्यं जगन्नाथ दातुमर्हसि मानद ॥१९॥एवमार्तकलत्रस्य शाम्यमानेषु बन्धुषु ।गमनं ते महाभाग दारुणं प्रतिभाति नः ॥२०॥नूनं कान्ततराः कान्त परलोके वरस्त्रियः ।यतस्त्वं प्रस्थितो वीर विहायेमं गृहे जनम् ॥२१॥किं नु ते कारणं वीर भार्यास्वेतासु भूरिद ।आर्तनादं रुदन्तीषु यन्मोहान्नावबुध्यसे ॥२२॥अहो निष्करुणा यात्रा नराणामौर्ध्वदेहिकी ।यत् परित्यज्य दारान्स्वान्निरपेक्षा व्रजन्ति हि ॥२३॥अपतित्वं स्त्रियाः श्रेयो न तु शूरः पतिः स्त्रियाः ।स्वर्गस्त्रीणां प्रियाः शूरास्तेषामपि च ताः प्रियाः ॥२४॥अहो क्षिप्रमदृश्येन नयता त्वां रणप्रियम् ।प्रहृतं नः कृतान्तेन सर्वासामन्तरात्मसु ॥२५॥हत्वा जरासंधबलं जित्वा यक्षांश्च संयुगे ।कथं मानुषमात्रेण हतस्त्वं जगतीतले ॥२६॥इन्द्रेण सह संग्रामं कृत्वा सायकविग्रहम् ।अमर्त्यैरजितो युद्धे मर्त्येनासि कथं हतः ॥२७॥त्वया सागरमक्षोभ्यं विक्षोभ्य शरवृष्टिभिः ।रत्नसर्वस्वहरणं जित्वा पाशधरं कृतम् ॥२८॥त्वया पौरजनस्यार्थे मन्दं वर्षति वासवे ।सायकैर्जलदाञ्जित्वा बलाद् वर्षं प्रवर्तितम् ॥२९॥प्रतापावनताः सर्वे तव तिष्ठन्ति पार्थिवाः ।प्रेषयन्तो वरार्हाणि रत्नान्याच्छादनानि च ॥३०॥तवैव देवकल्पस्य दृष्टवीर्यस्य शत्रुभिः ।कथं प्राणान्तकं घोरमीदृशं भयमागतम् ॥३१॥प्राप्ताः स्मो विधवाशब्दं त्वयि नाथे निपातिते ।अप्रमत्ताः प्रमत्तेन कृतान्तेन निराकृताः ॥३२॥यद्येवं नाथ गन्तव्यं यदि वा विस्मृता वयम् ।वाङ्मात्रेणापि यामीति वक्तव्ये कः परिश्रमः ॥३३॥प्रसीद नाथ भीताः स्म पादौ ते याम मूर्द्धभिः ।अलं दूरप्रवासेन निवर्तस्व नराधिप ॥३४॥अहो वीर कथं शेषे निषण्णस्तृणपांसुषु ।शयानस्य हि ते भूमौ कस्मान्नोद्विजते वपुः ॥३५॥केन सुप्तप्रहारोऽयं दत्तोऽस्माकमतर्कितः ।प्रहृतं केन सर्वासु नारीष्वेवं सुदारुणम् ॥३६॥रुदितानुशयो नार्या जीवन्त्याः परिदेवनम् ।किं वयं सति गन्तव्ये सह भर्त्रा रुदामहे ॥३७॥एतस्मिन्नन्तरे दीना कंसमाता प्रवेपती ।क्व मे वत्सः क्व मे पुत्र इति रोरूयती भृशम् ॥३८॥सापश्यन्निहतं पुत्रं निष्प्रभं शशिनं यथा ।हृदयेन विदीर्णेन भ्राम्यमाणा पुनः पुनः ॥३९॥पुत्रं समभिवीक्षन्ती हा हतास्मीति वाशती ।स्नुषाणामार्तनादेन विललाप रुरोद च ॥४०॥सा तस्य वदनं दीनमुत्संगे पुत्रगृद्धिनी ।कृत्वा पुत्रेति कारुण्यं विललापार्तया गिरा ॥४१॥पुत्र शूरव्रते युक्त ज्ञातीनां नन्दिवर्द्धन ।किमिदं त्वरितं वत्स प्रस्थानं कृतवानसि ॥४२॥प्रसुप्तश्चातिविवृते किं पुत्र नियमं विना ।वत्स नैवंविधा भूमौ शेरते कृतलक्षणाः ॥४३॥रावणेन पुरा गीतः श्लोकोऽयं साधुसम्मतः ।बलज्येष्ठेन लोकेषु राक्षसानां समागमे ॥४४॥एवमूर्जितवीर्यस्य मम देवनिघातिनः ।बान्धवेभ्यो भयं घोरं दुर्निवार्यं भविष्यति ॥४५॥तथैव ज्ञातिलुब्धस्य मम पुत्रस्य धीमतः ।ज्ञातिभ्यो भयमुत्पन्नं शरीरान्तकरं महत् ॥४६॥सा पतिं भूपतिं वृद्धमुग्रसेनं विचेतसम् ।उवाच रुदती वाक्यं विवत्सा हरिणी यथा ॥४७॥एह्येहि राजञ्छुद्धात्मन पश्य पुत्रं जनेश्वरम् ।शयानं वीरशयने वज्राहतमिवाचलम् ॥४८॥अन्य कुर्मो महाराज निर्याणसदृशीं क्रियाम् ।प्रेतत्वमुपपन्नस्य गतस्य यमसादनम् ॥४९॥वीरभोग्यानि राज्यानि वयं चापि पराजिताः ।गच्छ विज्ञाप्यतां कृष्णः कंससत्कारकारणात् ॥५०॥मरणान्तानि वैराणि शान्ते शान्तिर्भविष्यति ।प्रेतकार्याणि कार्याणि मृतः किमपराध्यते ॥५१॥एवमुक्त्वा पतिं भोजं केशानारुज्य दुःखिता ।पुत्रस्य मुखमीक्षन्ती विललापैव सा भृशम् ॥५२॥इमास्ते किं करिष्यन्ति भार्या राजन् सुखोषिताः ।त्वां पतिं सुपतिं प्राप्य या विपन्नमनोरथाः ॥५३॥इमं ते पितरं वृद्धं कृष्णस्य वशवर्तिनम् ।कथं द्रक्ष्यामि शुष्यन्तं कासारसलिलं यथा ॥५४॥अहं ते जननी पुत्र किमर्थं नाभिभाषसे ।प्रस्थितो दीर्घमध्वानं परित्यज्य प्रियं जनम् ॥५५॥अहो वीराल्पभाग्यायाः कृतान्तेनाभिवर्तिना ।आच्छिद्य मम संदायो नीयसे नयकोविदः ॥५६॥दानमानगृहीतानि तृप्तान्येतानि तैर्गुणैः ।रुदन्ति तव भृत्यानां कुलानि कुलयूथप ॥५७॥उत्तिष्ठ नरशार्दूल दीर्घबाहो महाबल ।त्राहि दीनं जनं सर्वं पुरमन्तःपुरं यथा ॥५८॥रुदतीनां भृशार्तानां कंसस्त्रीणां सुविस्तरम् ।जगामास्तं दिनकरः संध्यारागेण रञ्जितः ॥५९॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कंसस्त्रीविलापे एकत्रिंशोऽध्यायः ॥३१॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP