संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
एकोनत्रिंशोऽध्यायः

विष्णुपर्व - एकोनत्रिंशोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


नागरिकेभिः पूरितायां रङ्गशालायां मञ्चानां प्रेक्षागृहाणां शोभा, कंसस्य मल्लानां चागमनम्, श्रीकृष्णबलरामाभ्यां च रङ्गद्वारोपरि पदार्पणम्, कुवलयापीड, महामात्र एवं हस्तिनः पादरक्षकानां वधम्, बन्धुद्वयानां रङ्गस्थले प्रवेशः ।

वैशम्पायन उवाच
तस्मिन्नहनि निर्वृत्ते द्वितीये समुपस्थिते ।
आपूर्यत महारङ्गः पौरैर्युद्धदिदृक्षुभिः ॥१॥
सचित्राष्टास्त्रिचरणाः सार्गलद्वारवेदिकाः ।
सगवाक्षार्धचन्द्राश्च सुतल्पोत्तमभूषिताः ॥२॥
प्राङ्मुखैश्चारुनिर्मुक्तैर्माल्यदामावतंसितैः ।
अलंकृतैर्विराजद्भिः शारदैरिव तोयदैः ॥३॥
मञ्चागारैः सुनिर्युक्तैर्युद्धाय सुविभूषितैः ।
समाजवाटः शुशुभे समेघौघ इवार्णवः ॥४॥
स्वकर्मद्रव्ययुक्ताभिः पताकाभिर्निरन्तरम् ।
श्रेणीनां च गणानां च मञ्चा भान्त्यचलोपमाः ॥५॥
अन्तःपुरचराणां च प्रेक्षागाराण्यनेकशः ।
रेजुः काञ्चनचित्राणि रत्नज्वालाकुलानि च ॥६॥
तानि रत्नौघक्लृप्तानि ससानुप्रग्रहाणि च ।
रेजुर्जवनिकाक्षेपैः सपक्षा इव खे नगाः ॥७॥
तत्र चामरहारैश्च भूषणानां च सिञ्जितैः ।
मणीनां च विचित्राणां विचित्राश्चेरुरर्चिषः ॥८॥
गणिकानां पृथङ्मञ्चाः शुभैरास्तरणाम्बरैः ।
शोभिता वारमुख्याभिर्विमानप्रतिमौजसः ॥९॥
तत्रासनानि ख्यातानि पर्यङ्काश्च हिरण्मयाः ।
प्रकीर्णाश्च कुथाश्चित्राः सपुष्पस्तबकैर्वृताः ॥१०॥
सौवर्णाः पानकुम्भाश्च पानभूम्यश्च शोभिताः ।
फलावदंशपूर्णाश्च चाङ्गेर्यः पानयोजिताः ॥११॥
अन्ये च मञ्चा बहवः काष्ठसंचयबन्धनाः ।
रेजुः प्रस्तरणास्तत्र शतशोऽथ सहस्रशः ॥१२॥
उत्तमागारिकाश्चैव सूक्ष्मजालावलोकिनः ।
स्त्रीणां प्रेक्षागृहा भान्ति राजहंसा इवाम्बरे ॥१३॥
प्राङ्मुखश्चारुनिर्मुक्तो मेरुशृङ्गसमप्रभः ।
रुक्मपत्रनिभस्तम्भश्चित्रनिर्योगशोभितः ॥१४॥
प्रेक्षागारः स कंसस्य प्रचकाशेऽधिकं श्रिया ।
शोभितो माल्यदामैश्च निवासकृतलक्षणः ॥१५॥
तस्मिन् नानाजनाकीर्णे जनौघप्रतिनादिते ।
समाजवाटे संस्तब्धे कम्पमानार्णवप्रभे ॥१६॥
राजा कुवलयापीडः समाजद्वारि कुञ्जरः ।
तिष्ठत्विति समाज्ञाप्य प्रेक्षागारमुपाययौ ॥१७॥
स शुक्ले वाससी बिभ्रच्छवेतव्यजनचामरः ।
शुशुभे श्वेतमुकुटः श्वेताभ्र इव चन्द्रमाः ॥१८॥
तस्य सिंहासनस्थस्य सुखासीनस्य धीमतः ।
रूपमप्रतिमं दृष्ट्वा पौराः प्रोचुर्जयाशिषः ॥१९॥
ततः प्रविविशुर्मल्ला रङ्गमावलिताम्बराः ।
तिस्रश्च भागशः कक्षाः प्राविशन् बलशालिनः ॥२०॥
ततस्तूर्यनिनादेन क्ष्वेडितास्फोटितेन च ।
वसुदेवसुतौ हृष्टौ रङ्गद्वारमुपस्थितौ ॥२१॥
बल्लवौ वस्त्रसंवीतौ सुरचन्दनभूषितौ ।
ऊर्ध्वपीडौ स्रगापीडौ बाहुशस्त्रकृतौ यमौ ॥२२॥
आस्फोटयन्तावन्योन्यं बाहू चैवार्गलोपमौ ।
तावापतन्तौ त्वरितौ प्रतिषिद्धौ वराननौ ।
तेन मत्तेन नागेन चोद्यमानेन वै भृशम् ॥२३॥
स मत्तहस्ती दुष्टात्मा कृत्वा कुण्डलिनं करम् ।
चकार चोदितो यत्नं निहन्तुं बलकेशवौ ॥२४॥
ततः प्रहसितः कृष्णस्त्रास्यमानो गजेन वै ।
कंसस्य तन्मतं चैव जगर्हे स दुरात्मनः ॥२५॥
त्वरते खलु कंसोऽय गन्तुं वैवस्वतक्षयम् ।
यो मामनेन नागेन प्रधर्षयितुमिच्छति ॥२६॥
संनिकृष्टे ततो नागे गर्जमाने यथा घने ।
सहसोत्पत्य गोविन्दश्चक्रे तालस्वनं प्रभुः ॥२७॥
क्ष्वेडितास्फोटितरवं कृत्वा नागस्य चाग्रतः ।
करं ससीकरं तस्य प्रतिजग्राह वक्षसा ॥२८॥
विषाणान्तरगो भूत्वा पुनश्चरणमध्यगः ।
बबाधे तं गजं कृष्णः पवनस्तोयदं यथा ॥२९॥
स हस्ताग्राद् विनिष्क्रान्तो विषाणाग्राच्च दन्तिनः ।
विमुक्तः पदमध्याच्च कृष्णो द्विपमपोथयत् ॥३०॥
सोऽतिकायस्तु सम्मूढो हन्तुं कृष्णमशक्नुवन् ।
गजः स्वेष्वेव गात्रेषु मथ्यमानो ररास ह ॥३१॥
पपात भूमौ जानुभ्यां दशनाभ्यां तुतोद च ।
मदं सुस्राव रोषाच्च घर्मापाये यथा घनः ॥३२॥
कृष्णस्तु तेन नागेन क्रीडित्वा शिशुलीलया ।
निधनाय मतिं चक्रे कंसद्विष्टेन चेतसा ॥३३॥
स तस्य प्रमुखे पादं कृत्वा कुम्भादनन्तरम् ।
दोर्भ्यां विषाणमुत्पाट्य तैनैव प्राहरत् तदा ॥३४॥
स तेन वज्रकल्पेन स्वेन दन्तेन कुञ्जरः ।
हन्यमानः शकृन्मूत्रं मुमोचार्तो ररास ह ॥३५॥
कृष्णजर्जरिताङ्गस्य कुञ्जरस्यार्तचेतसः ।
कटाभ्यामति सुस्राव वेगवद् भूरि शोणितम् ॥३६॥
लाङ्गूलं चास्य वेगेन निश्चकर्ष हलायुधः ।
शैलपृष्ठार्धसंलीनं वैनतेय इवोरगम् ॥३७॥
तेनैव गजदन्तेन कृष्णो हत्वा तु दन्तिनम् ।
जघानैकप्रहारेण गजारोहणमुल्बणम् ॥३८॥
सोऽऽर्तनादं महत् कृत्वा विदन्तो दन्तिनां वरः ।
पपात समहामात्रो वज्रभिन्न इवाचलः ॥३९॥
ततस्तौ तोरणाङ्गानि प्रगृह्य रणकर्कशौ ।
गजस्य पादरक्षांश्च जघ्नतुः पुरुषर्षभौ ॥४०॥
तांश्च हत्वा विविशतुर्मध्यं रङ्गस्य तावुभौ ।
नासत्यावश्विनौ स्वर्गादवतीर्णाविवेच्छया ॥४१॥
वृष्ण्यन्धकाश्च भोजाश्च ददृशुर्वनमालिनौ ।
क्ष्वेडितोत्क्रुष्टनादेन बाह्वोरास्फोटितेन च ।
सिंहनादैश्च तालैश्च हर्षयामासतुर्जनम् ॥४२॥
तौ दृष्ट्वा भोजराजस्तु विषसाद वृथामतिः ।
पौराणामनुरागं च हर्ष चालक्ष्य भारत ॥४३॥
तं हत्वा पुण्डरीकाक्षो नदन्तं दन्तिनां वरम् ।
अवतीर्णोऽर्णवाकारं समाजं सहपूर्वजः ॥४४॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कुवलयापीडवधे एकोनत्रिंशोऽध्यायः॥२९॥

N/A

References : N/A
Last Updated : July 18, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP