संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| चतुश्चत्वारिंशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - चतुश्चत्वारिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण चतुश्चत्वारिंशोऽध्यायः Translation - भाषांतर श्रीकृष्णेन शृगालस्य वधं, तस्य पुत्रस्य करवीरपुरस्य राज्ये अभिषेकःवैशम्पायन उवाचतानागतान् विदित्वाथ शृगालो युद्धदुर्मदः ।पुरस्य धर्षणं मत्वा निर्जगामेन्द्रविक्रमः ॥१॥रथेनादित्यवर्णेन भास्वता रणगामिना ।आयुधप्रतिपूर्णेन नेमिनिर्घोषहासिना ॥२॥मन्दराचलकल्पेन चित्राभरणभूषिणा ।अक्षय्यसायकैस्तूणैः पूर्णेनार्णवघोषिणा ॥३॥हर्यश्वेनाशुगतिनासक्तेन शिखरेष्वपि ।हेमकूबरगर्भेण दृढाक्षेणातिशोभिना ॥४॥सुबन्धुरेण दीप्तेन पतत्त्रिवरगामिना ।स्वगतेनेव शक्रस्य हर्यश्वेन रथाद्रिणा ॥५॥सावित्रे नियमे पूर्णे यं ददौ सविता स्वयम् ।आदित्यरश्मिभिरिव रश्मिभिर्यो निगृह्यते ॥६॥तेन स्यन्दनमुख्येन द्विषत्स्यन्दनघातिना ।स शृगालोऽभ्ययात्कृष्णं शलभः पावकं यथा ॥७॥चापपाणिः सुतीक्ष्णेषुः कवची हेममालिकः ।सितप्रावरणोष्णीषः पावकाकारलोचनः ॥८॥मुहुर्मुहुर्ज्याचपलं विक्षिपन् दुःसहं धनुः ।निर्वमन् रोषजं वायुं सानलज्वालमण्डलम् ॥९॥भाभिर्भूषणपंक्तीनां दीप्तो मेरुरिवाचलः ।रथस्थ इव शैलेन्द्रः शृगालः प्रत्यदृश्यत ॥१०॥तस्यारसितशब्देन रथनेमिस्वनेन च ।गुरुत्वेन च नाम्यन्ती चचालोर्वी भयातुरा ॥११॥तमापतन्तं श्रीमन्तं मूर्तिमन्तमिवाचलम् ।शृगालं लोकपालाभं दृष्ट्वा कृष्णो न विव्यथे ॥१२॥शृगालश्चापि संरब्धः स्यन्दनेनाशुगामिना ।समीपे वासुदेवस्य युयुत्सुः प्रत्यदृश्यत ॥१३॥वासुदेवं स्थितं दृष्ट्वा शृगालो युद्धलालसः ।अभिदुद्राव वेगेन मेघराशिरिवाचलम् ॥१४॥वासुदेवः स्मितं कृत्वा प्रतियुद्धाय तस्थिवान् ।तद् युद्धमभवत् ताभ्यां समरे घोरदर्शनम् ।उभाभ्यामिव मत्ताभ्यां कुंजराभ्यां यथा वने ॥१५॥शृगालस्त्वब्रवीत्कृष्णं समरे समुपस्थितम् ।युद्धरागेण तेजस्वी मोहाच्चलितगौरवः ॥१६॥गोमन्ते युद्धमार्गेण यत् त्वया कृष्ण चेष्टितम् ।अनायकानां मूर्खाणां नृपाणां दुर्बले बले ॥१७॥स मे सुविदितः कृष्ण क्षत्रियाणां पराजयः ।कृपणानामसत्त्वानामयुद्धानां रणोत्सवे ॥१८॥तिष्ठेदानीं यथाकामं स्थितोऽहं पार्थिवे पदे ।क्व यास्यसि मया रुद्धो रणेष्वपरिनिष्ठितः॥१९॥न चाहमेकं सबलो युक्तस्त्वां योद्धुमाहवे ।अहमेकस्त्वमप्येको द्वौ युध्याव रणे स्थितौ ॥२०॥किं जनेन निरस्तेन त्वं वाहं च रणे स्थितः ।धर्मयुद्धेन निधनं व्रजत्वेकतरो रणे ॥२१॥लोकेऽस्मिन्वासुदेवोऽहं भविष्यामि हते त्वयि ।हते मयि त्वमप्येको वासुदेवो भविष्यसि ॥२२॥शृगालस्य वचः श्रुत्वा वासुदेवः क्षमापरः ।ईर्ष्यन्तं प्रहरस्वेति तमुक्त्वा चक्रमाददे ॥२३॥ततः सायकजालानि शृगालः क्रोधमूर्छितः ।चिक्षेप कृष्णे घोराणि युद्धाय लघुविक्रमः ॥२४॥शस्त्राणि यानि चान्यानि मुसलाद्यानि संयुगे ।पातयामास गोविन्दे स शृगालः प्रतापवान् ॥२५॥शृगालप्रहितैरस्त्रैः पावकज्वालमालिभिः ।निर्दयाभिहतः कृष्णः स्थितो गिरिरिवाचलः ॥२६॥सोऽस्त्रप्रहाराभिहतः किंचिद् रोषसमन्वितः ।चक्रमुद्यम्य गोविन्दः शृगालस्य परिक्षिपत् ॥२७॥तं रथस्थं प्रमाणस्थं शृगालं युद्धदुर्मदम् ।जघान समरे चक्रं जातदर्पं महाबलम् ॥२८॥ततः सुदर्शनं चक्रं पुनरायाद् गुरोः करे ।चक्रेणोरसि निर्भिन्नः स गतासुर्गतोत्सवः ।पपात क्षतजस्रावी शृगालोऽद्रिरिवाहतः ॥२९॥निशम्य तं निपतितं वज्रपातादिवाचलम् ।तस्य सैन्यान्यपययुर्विमनांसि हते नृपे ॥३०॥केचित् प्रविश्य नगरं कश्मलाभिहता भृशम् ।रुरुदुर्दुःखसंतप्ता भर्तृशोकाभिपीडिताः ॥३१॥केचित्तत्रैव शोचन्तः स्मरन्तः सुकृतानि च ।पतितं भूपतिं भूमौ न त्यजन्ति स्म दुःखिताः ॥३२॥ततो मेघनिनादेन स्वरेणारिविमर्दनः ।कृष्णः कमलपत्राक्षो जनानामभयं ददौ ॥३३॥चक्रोचितेन हस्तेन राजतागुङ्लिपर्वणा ।न भेतव्यं न भेतव्यमिति तानभ्यभाषत ॥३४॥नास्य पापस्य दोषेण निरावाधकरं जनम् ।घातयिष्यामि समरे नेदं शूरव्रतं मतम् ॥३५॥अश्रुपूर्णमुखा दीनाः क्रन्दमाना भृशं तदा ।ते स्म पश्यन्ति पतितं धरण्यां धरणीपतिम् ॥३६॥चक्रनिर्दारितोरस्कं भिन्नशृङ्गमिवाचलम् ॥३७॥विलपन्ति स्म ते सर्वे सचिवाः सप्रजा भृशम् ।साश्रुपातेक्षणा दीनाः शोकस्य वशमागताः ॥३८॥तेषां रुदितशब्देन पौराणां विस्वरैः स्वरैः ।महिष्यस्तस्य निष्पेतुः सपुत्रा रुदिताननाः ॥३९॥तास्तं निपतितं दृष्ट्वा श्लाघ्यं भूमिपतिं पतिम् ।स्तनानारुज्य करजैर्भृशार्ताः पर्यदेवयन् ॥४०॥उरांस्युरसिजांश्चैव शिरोजान्याकुलान्यपि ।निर्दयं ताडयन्त्यस्ता विस्वरं रुरुदुः स्त्रियः ॥४१॥तस्योरसि सुदुःखार्ता मृदिताः क्लिन्नलोचनाः ।पेतुरूर्ध्वभुजाः सर्वाश्छिन्नमूला लता इव ॥४२॥तासां बाष्पाम्बुपूर्णानि नेत्राणि नृपयोषिताम् ।वारिविप्रहतानीव पङ्कजानि चकाशिरे ॥४३॥पुत्रं चास्य पुरस्कृत्य बालं प्रस्नुतलोचनम् ।शक्रदेवं पितुः पार्श्वे द्विगुणं रुरुदुः स्त्रियः ॥४५॥अयं ते वीर विक्रान्तो बालः पुत्रो न पण्डितः॥त्वद्धिहीनः कथमयं पदे स्थास्यात पैतृके ॥४६॥कथमेकपदे त्यक्त्वा गतोऽस्यन्तःपुरं परम् ।अतृप्तास्तव सौख्यानां किं कुर्मो विधवा वयम् ॥४७॥तस्य पद्मावती नाम महिषी प्रमदोत्तमा ।रुदती पुत्रमादाय वासुदेवमुपस्थिता ॥४८॥यस्त्वया पातितो वीर रणप्रोक्तेन कर्मणा ।तस्य प्रेतगतस्यायं पुत्रस्त्वां शरणं गतः ॥४९॥यदि त्वां प्रणमेतासौ कुर्याद वा शासनं तव ।नायमेकप्रहारेण जनस्तप्येत दारुणम् ॥५०॥यदि कुर्यादयं मूढस्त्वयि बान्धवकं विधिम् ।नैवं परीतः कृपणः सेवेत धरणीतलम् ॥५१॥अयमस्य विपन्नस्य बान्धवस्य तवानघ ।सन्तती रक्ष्यतां वीर पुत्रः पुत्र इवात्मजः ॥५२॥तस्यास्तद् वचनं श्रुत्वा महिष्या यदुनन्दनः ।मृदुपर्वमिदं वाक्यमुवाच वदतां वरः ॥५३॥राजपत्नि गतो रोषः सहानेन दुरात्मना ।प्रकृतिस्था वयं जाता देवि सैषोऽस्मि बान्धवः ॥५४॥रोषो मे विगतः साध्वि तव वाक्यैरकल्मषैः ।योऽयं पुत्रः शृगालस्य ममाप्येष न संशयः ॥५५॥अभयं चाभिषेकं च ददाम्यस्मै सुखाय वै ।आहूयन्तां प्रकृतयः पुरोधा मन्त्रिणस्तथा ॥५६॥पितृपैतामहे राज्ये तव पुत्रोऽभिषिच्यताम् ।ततः प्रकृतयः सर्वाः पुरोधा मन्त्रिणस्तथा ॥५७॥अभिषेकार्थमाजग्मुर्यतो वै रामकेशवौ ।ततः सिंहासनस्थं तु राजपुत्रं जनार्दनः ॥५८॥अभिषेकेण दिव्येन योजयामास वीर्यवान् ।अभिषिच्य शृगालस्य करवीरपुरे सुतम् ।कृष्णस्तदहरेवाशु प्रस्थानमभ्यरोचयत् ॥५९॥रथेन हरियुक्तेन तेन युद्धार्जितेन वै ।केशवः प्रस्थितोऽध्वानं वृत्रहा त्रिदिवं यथा ॥६०॥शक्रदेवोऽपि धर्मात्मा सह मात्रा परंतपः ।सबालवृद्धयुवतीमुख्याः प्रकृतयस्तथा ॥६१॥शिबिकायामथारोप्य शृगालं युद्धदुर्मदम् ।संहता दूरमार्गेण पश्चिमाभिमुखा ययुः ॥६२॥नैधनस्य विधानेन चक्रुस्ते तस्य सत्क्रियाम् ।सत्कारं कारयामासुः पितॄणां पारलौकिकम् ॥६३॥उद्दिश्योद्दिश्य राजानं श्राद्धं कृत्वा सहस्रशः ।ततस्ते सलिलं दत्त्वा नामगोत्रादिकीर्तनैः ॥६४॥पितर्युपरते घोरे शोकसंविग्नमानसः ।कृत्वोदकं तदा राजा प्रविवेश पुरोत्तमम् ॥६५॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शृगालवधो नाम चतुश्चत्वारिंशोऽध्यायः ॥४४॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP