संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| नवनवतितमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - नवनवतितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण नवनवतितमोऽध्यायः Translation - भाषांतर श्रीकृष्णस्य द्वारकायां अन्तःपुरे च प्रवेशं, मणिपर्वतस्य एवं पारिजातस्ययथोचिते स्थाने स्थापनम्वैशम्पायन उवाचएवमालोकयानः स द्वारकां वृषभेक्षणः ।अपश्यत्स्वगृहं कृष्णः प्रासादशतशोभितम् ॥१ ।मणिस्तम्भसहस्राणामयुतैर्विवृतं शतैः ।तोरणैर्ज्वलनप्रख्यैर्मणिविद्रुमराजतैः ॥२॥तत्र तत्र प्रभासद्भिश्चित्रकाञ्चनवेदिकैः ।प्रासादस्तत्र सुमहान् कृष्णोपस्थानिकोऽभवत् ॥३ ।स्फाटिकस्तम्भविवृतो विस्तीर्णः सर्वकाञ्चनः ।पद्माकुलजलोपेता रक्तसौगन्धिकोत्पलाः ॥४॥मणिहेमनिभाश्चित्रा रत्नसोपानभूषिताः ।मत्तबर्हिणजुष्टाश्च कोकिलैश्च सदामदैः ॥५॥बभूवुः परमोपेता वाप्यश्च विकचोत्पलाः ।विश्वकर्मकृतः शैलः प्राकारस्तस्य वेश्मनः ॥६॥व्यक्तकिष्कुशतोत्सेधः परिखापरिवेष्टितः ।तद् गृहं वृष्णिसिंहस्य निर्मितं विश्वकर्मणा ॥७ ।महेन्द्रसदृशं वेश्म समन्तादर्धयोजनम् ।ततस्तं पाण्डुरं शौरिर्मूर्ध्नि तिष्ठन् गरुत्मतः ॥८॥प्रीतः शङ्खमुपाध्मासीद् द्विषतां रोमहर्षणम् ।तस्य शङ्खस्य शब्देन सागरश्चुक्षुभे भृशम् ।ररास च नभः कृत्स्नं तच्चित्रमभवत् तदा ॥९॥पाञ्चजन्यस्य निर्घोषं संश्रुत्य कुकुरान्धकाः ।विशोकाः समपद्यन्त गरुडस्य च दर्शनात् ॥१०॥शङ्खचक्रगदापाणिं गरुडस्योपरि स्थितम् ।दृष्ट्वा जहृषिरे पौरा भास्करोपमतेजसम् ॥११॥ततस्तूर्यप्रणादश्च भेरीणां च महास्वनाः ।जज्ञिरे सिंहनादाश्च सर्वेषां पुरवासिनाम् ॥१२॥ततस्ते सर्वदाशार्हाः सर्वे च कुकुरान्धकाः ।प्रीयमाणाः समाजग्मुरालोक्य मधुसूदनम् ॥१३॥वासुदेवं पुरस्कृत्य शङ्खतूर्यरवैः सह ।उग्रसेनो ययौ राजा वसुदेवनिवेशनम् ॥१४॥आनन्दिनी पर्यचरत् स्वेषु वेष्मसु देवकी ।रोहिणी च यशोदा च आहुकस्य च याः स्त्रियः ॥१५॥ततः कृष्णः सुपर्णेन स्वं निवेशनमभ्यगात् ।चचार च यथोद्देशमीश्वरानुचरो हरिः ॥१६॥अवतीर्य गृहद्वारि कृष्णस्तु यदुनन्दनः ।यथार्हं पूजयामास यादवान् यादवर्षभः ॥१७॥रामाहुकगदाक्रूरप्रद्युम्नादिभिरर्चितः ।प्रविवेश गृहं शौरिरादाय मणिपर्वतम् ॥१८॥तं च शक्रस्य दयितं पारिजातं महाद्रुमम् ।प्रवेशयामास गृहं प्रद्युम्नो रुक्मिणीसुतः ॥१९॥तेऽन्योन्यं ददृशुर्वीरा देहबन्धानमानुषान् ।पारिजातप्रभावेण ततो मुमुदिरे जनाः ॥२०॥तैः स्तूयमानो गोविन्दः प्रहृष्टैर्यादवर्षभैः ।प्रविवेश गृहं श्रीमान् विहितं विश्वकर्मणा ॥२१॥ततोऽन्तःपुरमध्ये तं सशृङ्गमणिपर्वतम् ।न्यवेशयदमेयात्मा वृष्णिभिः सहितोऽच्युतः ॥२२॥तं च दिव्यं द्रुमश्रेष्ठं पारिजातममित्रजित् ।अर्च्यमर्चितमव्यग्रमिष्टे देशे न्यवेशयत् ॥२३॥अनुज्ञाप्य ततो ज्ञातीन् केशवः परवीरहा ।ताः स्त्रियः पूजयामास संहृता नरकेण याः ॥२४॥वस्त्रैराभरणैर्दिव्यैर्दासीभिर्धनसंचयैः ।हारैश्चन्द्राशुसंकाशैर्मणिभिश्च महाप्रभैः ॥२५॥पूर्वमभ्यर्चिताश्चैव वसुदेवेन ताः स्त्रियः ।देवक्या सह रोहिण्यां रेवत्या चाहुकेन च ॥२६॥सत्यभामोत्तमा स्त्रीणां सौभाग्येनाभवत्तदा ।कुटुम्बस्येश्वरी त्वासीद्रुक्मिणी भीष्मकात्मजा॥२७॥तासां यथार्हहर्म्याणि प्रासादशिखराणि च ।आदिदेश गृहान्कृष्णः पारिबर्हांश्च पुष्कलान् ॥२८॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि द्वारकाप्रवेशनं नाम नवनवतितमोऽध्यायः ॥९९॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP