संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व|
पञ्चाशत्तमोऽध्यायः

विष्णुपर्व - पञ्चाशत्तमोऽध्यायः

महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे.


क्रथकैशिकाभ्यां भगवन्तं श्रीकृष्णं स्वराज्यस्य समर्पणम्, देवराजस्य इन्द्रस्यादेशात् सर्वैः नृपैः भगवन्तः राजेन्द्र पदे अभिषेकः, भगवता सर्वेषां आश्वासनम्

जनमेजय उवाच
हत्या कंसं महावीर्यं देवैरपि दुरासदम् ।
नाभिषिक्तः स्वयं राज्ये नोपविष्टो नृपासने ॥१॥
कन्यार्थे चागतः कृष्णस्तत्रापि न कृतोऽतिथिः ।
अमानमतुलं प्राप्य क्षान्तवान् केन हेतुना ॥२॥
विनतायाः सुतश्चैव महाबलपराक्रमः ।
स चापि क्षमया युक्तः कारणं किमपेक्षिनः ।
एतदाख्याहि भगवन् परं कौतूहलं हि मे ॥३॥
वैशम्पायन उवाच
ग्दिर्भनगरीं प्र;प्ते वैनतेये सदुरने ।
मनसा चिन्तयामास वासुदेवाय कशिकः ॥४॥
दृष्ट्वाऽऽश्चर्यं हि नः सर्वान् राजन्यान् प्रवदाम्यहम् ।
वसुदेवसुते दृष्टे ध्रुवं पापक्षयो भवेत् ॥५॥
विशुद्धभावः कृष्णस्य आवयोर्दृष्टक्तवतः ।
अतः पात्रतरः कोऽन्यस्त्रिषु लोकेषु विद्यते ॥६॥
कृष्णात् कमलपत्राक्षाद् दैवदैवाज्जनार्दनात् ।
तस्यावां किं प्रदास्याव आतिथ्यकरणे नृप ॥७॥
एवमन्योन्यं संचिन्त्य भ्रातरौ क्रथकैशिकौ ॥८॥
स्वं राज्यं दातुकामोतु जग्मतुः केशवान्तिकम् ।
देवमासाद्य तौ वीरौ विदर्भनगराधिपौ ॥९॥
ऊचतुस्तौ महाभागौ प्रणम्य शिरसा हरिम् ।
अद्यावां सफलं जन्म अद्यावां सफलं यशः ।
अद्यावां पितरस्तृप्ता देवे चावां गृहागते ॥१०॥
चामरं व्यजनं छत्रं ध्वजं सिंहासनं बलम् ।
स्फीतकोशा पुरी चेयमावाभ्यां सहिता तव ॥११॥
उपेन्द्रस्त्वं महाबाहो देवेन्द्रेणाभिषिक्तवान् ।
आवामिह हि राज्ये त्वामभिषिक्तं ददामि ते ॥१२॥
आवयोर्यत्कृतं कार्यं बहुभिः पार्थिवैरपि ।
न शक्यतेऽन्यथा कर्तुं जरासंधेन वा स्वयम् ॥१३॥
शत्रुस्ते मागधो राजा जरासंधो महाद्युतिः ।
कथां ते ब्रुवते नित्यं नृपाणामभयप्रदः ॥१४॥
सिंहासनमनध्यास्यं पुरं चास्य न विद्यते ।
कथं राजसमाजेऽस्मिन्नास्यते देवकीसुतः ॥१५॥
कृष्णोऽपि सुमहावीर्यो ह्यभिमानी महाद्युतिः ।
न चागमिष्यते वास्मिन् कन्यार्थे च स्वयंवरे ॥१६॥
पार्थिवेषूपविष्टेषु स्वेषु सिंहासनेषु वै ।
कथमास्यति नीचेषु आसनेषु महाद्युतिः ॥१७॥
इति संचोद्यमानस्तु श्रुत्वासौ भीष्मको नृपः ।
आवयोः सह सम्मन्त्र्य विग्रहोपशमाय च ॥१८॥
तव विश्रामहेतोर्हि कारितेदं गृहोत्तमम् ।
देवानामादिदेवोऽसि सर्वलोकनमस्कृतः ॥१९॥
मानुष्ये मर्न्यलोकैऽस्मिन् राजेन्द्रत्वं समाचर ।
समाजे मनुजेन्द्राणां मा भूदासनसंकटम् ॥२०॥
विदर्भनगरे वैषां राजेन्द्रत्वं विचेष्टय ।
आस्यतामासने शुभ्रे श्वः प्रभाते महाद्युते ॥२१॥
अधिवास्याद्य चात्मानं विधिदृष्टेन कर्मणा ।
य गमिष्यन्ति नृपाः करिष्ये देवशासनात् ॥२२॥
एवमुक्त्वा सुरश्रेष्ठं प्रणिपत्य कृताञ्जली ।
भूषयामासतुवीरौ रङ्गमध्ये नृपैर्वृते ॥२३॥
देवदूतस्य वचनं यथोक्तं वज्रपाणिना ।
लिखित्वा सुमहातेजाः कैशिकः प्राह शासनम् ॥२४॥
कैशिक उवाच
विदितं वो नृपाः सर्वे वैनतेयसहाच्युतः ।
आगतोऽतिथिरूपेण विदर्भनगरीं हरिः ॥२५॥
प्राप्तमालोक्य पात्रोऽयमिति संचिन्त्य भूपतिः ।
प्रददौ वासुदेवाय स्वं राज्यं धर्महेतुना ॥२६॥
इदमासनमास्वेति भ्रात्रा मे चोदिते ततः ।
वागुक्ता चाशरीरेण केनापि व्योमचारिणा ॥२७॥
देवदूत उवाच
न युक्तमासनं दातुं त्वयासीनं नराधिप ।
इदमस्यासनं दिव्यं सर्वरत्नविभूषितम् ॥२८॥
जाम्बूनदमयं शुभ्रं रचितं विश्वकर्मणा ।
प्रेषितं देवराजेन सिंहलक्षणलक्षितम् ॥२९॥
अत्रोपविष्टं देवेशं चराचरनमस्कृतम् ।
अभिषिञ्चन्तु राजेन्द्रं बहुभिः पार्थिवैः सह ॥३०॥
आगताः कुण्डिनगरे कन्याहेतोर्नराधिपाः ।
नागमिष्यति यः कश्चित्सोऽस्य वध्यो भविष्यति ॥३१॥
इमे चैवाष्टकलशा निधीनामंशसम्भवाः ।
अक्षया राजराजस्य धनेशस्य महात्मनः ॥३२॥
दिव्या काञ्चनरत्नाढ्या दिव्याभरणयोनयः ।
राजेन्द्रस्याभिषेकार्थमागच्छन्ति नृपैर्वृताः ॥३३॥
एष शक्रस्य संदेशः कथितो वो नराधिपाः ।
लेखेनाहूय तान् सर्वानभिषिञ्चन्तु केशवम् ॥३४॥
कैशिक उवाच
इति संचोद्य खस्थोऽसौ देवदूतो गतो दिवम् ।
दत्त्वाऽऽसनं च कृष्णाय बालार्कसदृशप्रभम् ॥३५॥
तेनाहं नोदयिष्यामि भवद्भिर्ये समागताः ।
दुर्निवार्यतरं घोरं शक्रस्य स्वयमीरितम् ॥३६॥
युष्माभिर्दर्शने युक्तमद्भुतं भुवि दुर्लभम् ।
कलशैरभिषिच्यन्तं स्वयमेव नभस्तलात् ॥३७॥
दृष्ट्वाऽऽश्चर्यं हि नः सर्वान् ध्रुवं पापक्षयो भवेत् ।
स्नापनार्थं च कृष्णाय देवदेवाय विष्णवे ॥३८॥
आगच्छध्वं नृपश्रेष्ठा न भयं कर्तुमर्हथ ।
आवयोः कृतसन्धानो युष्मदर्थे जनार्दनः ॥३९॥
सर्वेषां मनुजेन्द्राणामभयं कुरुते हरिः ।
विशुद्धभावः कृष्णस्तु आवयोर्दृष्टतत्त्वतः ॥४०॥
मागधस्य विशेषेण न वैरं हृदि दृश्यते ।
यदत्र कारणं कार्यं तद् भवद्भिर्विचिन्त्यताम् ॥४१॥
वैशम्पायन उवाच
एवं संचिन्तयामासुर्नृपाः शापभयार्दिताः ।
भूयः शुश्रुवु राजेन्द्राः केशवाय महात्मने ॥४२॥
मेघगम्भीरनादेन स्वरेणापूरयन् नभः ।
वागुवाचाशरीरेण देवराजस्य शासनात् ॥४३॥
चित्राङ्गद उवाच
त्रैलोक्याधिपतिः शक्रः प्रजापालनहेतुना ।
आज्ञापयति युष्माकं नृपाणां हितकाम्यया ॥४४॥
न युक्तं वसतान्योन्यं कृष्णेन सह वैरिणा ।
वसध्वं प्रीतिमुत्पाद्य स्वराष्ट्रेषु नृपोत्तमाः ॥४५॥
प्रणतार्तिहरः कृष्णः प्रतिसेनान्तकोऽनलः ।
अनेन सह सम्प्रीत्या मोदध्वं विगतज्वराः ॥४६॥
मानुषाणां नृपा देवा नृपाणां देवताः सुराः ।
सुराणां देवता शक्रः शक्रस्यापि जनार्दनः ॥४७॥
एष विष्णुः प्रभुर्देवो देवानामपि दैवतम् ।
जातोऽयं मानुषे लोके नररूपेण केशवः ॥४८॥
अजेयः सर्वलोकेषु देवदानवमानवैः ।
कार्तिकेयसहायस्य अपि शूलभृतः स्वयम् ॥४९॥
तस्मै देवाधिदेवाय केशवाय महात्मने ।
अभिषेक्तुं सुरैः सार्द्धं किमिच्छेयमतः परम् ॥५०॥
न चाधिकारो देवानां राजेन्द्रस्याभिषेचने ।
तेनाहं नाभिषिञ्चामि सर्वलोकनमस्कृतम् ॥५१॥
नुपाणामधिकारोऽयं राजेन्द्रस्य निवेशने ।
गत्वा यूयं विदर्भायां क्रथकैशेकयोः सह ॥५२॥
संचिन्त्य विधिदृष्टेन कुरुध्वं नृपसत्तमाः ।
प्रीतिसन्धानकालोऽयमिति संचिन्त्य वासवः ॥५३॥
बोधनार्थं विसृष्टोऽहं युष्माकं मनुजेश्वराः ।
विदर्भनगरे कृष्णः श्रावितोऽस्याधिवासनम् ॥५४॥
राजेन्द्रत्वाभिषेकार्थं राजानौ क्रथकैशिकौ ।
ताभ्यां सह नृपश्रेष्ठाः कृत्वा सुमहदुत्सवम् ॥५५॥
अभिषेकेण सत्कृत्य प्रतिगृह्यास्य दक्षिणम् ।
आगमिष्यथ संहृष्टाः पुनरेव स्वयंवरम् ॥५६॥
जरासंधः सुनीथश्च रुक्मी चैव महारथः ।
शाल्वः सौभपतिश्चैव चत्वारो राजसत्तमाः ॥५७॥
रङ्गस्याशून्यहेतोर्हि तिष्ठन्तु इह पार्थिवाः ।
वैशम्पायन उवाच
एवमाज्ञां सुरेशस्य श्रुत्वा चित्राङ्गदेरिताम् ॥५८॥
गमनाय मतिं चक्रुः सर्व एव नृपोत्तमाः ।
अनुज्ञाता नरेन्द्रेण जरासंधेन धीमता ॥५९॥
भीष्मकं पुरतः कृत्वा प्रयाताः स्वबलैर्वृताः ।
भीष्मकश्च महाबाहुः स्वबलेन समन्वितः ॥६०॥
जगाम पार्थिवैः सार्द्धं दह्यमानेन चेतसा ।
यत्र कृष्णो महाबाहुः कैशिकस्य निवेशने ॥६१॥
दूरादेव प्रकाशन्ती पताकाध्वजमालिनी ।
शुभा देवसभा रम्या स्नानहेतोरिहागता ॥६२॥
दिव्यरत्नप्रभाकीर्णा दिव्यध्वजसमाकुला ।
दिव्याम्बरपताकाढ्या दिव्याभरणभूषिता ॥६३॥
दिव्यस्रग्दामकलिला दिव्यगन्धाधिवासिता ।
विमानयानैः श्रीमद्भिः समन्तात् परिवारिता ॥६४॥
दिव्याप्सरोगणाश्चैव विद्याधरगणास्तथा ।
गन्धर्वा मुनयश्चैव किन्नराश्च समन्ततः ॥६५॥
उपगायन्ति देवेशमम्बरान्तरमाश्रिताः ।
स्तुवन्ति मुनयश्चैव सिद्धाश्च परमर्षयः ॥६६॥
देवदुन्दुभयश्चैव स्वयमेवानदन् दिवि ।
पञ्चयोनिसमुत्थानि गन्धचूर्णान्यनेकशः ॥६७॥
समन्तात्पात्यमानानि चाकाशस्थैर्दिवौकसैः ।
स्वयमागत्य देवेन्द्रो दैवैः सह शचीपतिः ॥६८॥
विमानवरमारुह्य सप्रकाशः स्थितोऽम्बरे ।
अष्टौ ये लोकपालास्ते स्वासु दिक्षु समास्थिताः ॥६९॥
उपगायन्ति नृत्यन्ति स्तुवन्ति च समन्ततः ।
श्रुत्वा सुतुमुलं नादं सर्व एव नराधिपाः ॥७०॥
विस्मयोत्फुल्लनयना विविशुस्ते सभां शुभाम् ।
कैशिकश्च महाबाहुरुपगम्य नराधिपान् ॥७१॥
प्रवेशयामास बली प्रतिपूज्य यथाविधि ।
निवेदिते सुरश्रेष्ठे पार्थिवानां समागमे ॥७२॥
निर्जगाम हरिः श्रीमान् सर्वमङ्गपूजितः ।
ततोऽम्बरस्थास्ते दिव्याः कलशाश्चैलकण्ठिनः ॥७३॥
सहकारसमायुक्ता ववर्षुर्जलदा इव ।
दिव्यकाञ्चनरत्नौघैर्दिव्यपुप्पसमन्वितैः ॥७४॥
गन्धचूर्णविमिश्रैश्च राजेन्द्रस्याभिषेचने ।
यथोक्तविधिपूर्वेण अभिषिच्य जनार्दनम् ॥७५॥
दर्शयित्वा नरेन्द्राणां दिव्यैरावरणैः शुभै ।
दिव्याम्बरविचित्रैश्च दिव्यमाल्यानुलेपनैः ॥७६॥
सत्कृत्य विधिवद्राज्ञ उपविष्टो जनार्दनः ।
शुभे देवसभे रम्ये स्नानहेतोरिहागते ॥७७॥
उपास्यमानो यदुभिर्विदर्भैश्च नराधिपैः ।
वैनतेयश्च बलवान् कामरूपो नराकृतिः ॥७८॥
दक्षिणं पार्श्वमाश्रित्य आसनस्थो महाबलः ।
क्रथश्च कैशिको वीरो वामपार्श्वे तथासने ॥७९॥
उपविष्टौ महात्मानौ देवस्यानुमते नृपौ ।
तथैव वामपार्श्वे तु वृष्ण्यन्धकमहारथाः ॥८०॥
सात्यकिप्रमुखा वीरा उपविष्टा महाबलाः ।
भास्करप्रतिमे दिव्ये दिव्यास्तरणविस्तृते ॥८१॥
सुखोपविष्टं श्रीमन्तं देवैरिव शचीपतिम् ।
सचिवैः श्राविताः सर्वे प्रविष्टास्ते नराधिपाः ॥८२॥
यथार्हेण च सम्पूज्य राजानः सर्व एव ते ।
सुखोपविष्टास्ते स्वेषु आसनेषु नराधिपाः ॥८३॥
कैशिकस्तु महाप्राज्ञः सर्वशास्त्रार्थवित्तमः ।
पूजयित्वा यथान्यायमुवाच वदतां वरः ॥८४॥
कैशिक उवाच
अविज्ञाता नृपाः सर्वे मानुषोऽयमिति प्रभो ।
भवन्तमुपरुद्धानां देव त्वं क्षन्तुमर्हसि ॥८५॥
श्रीकृष्ण उवाच
न मे वैरं प्रवसति एकाहमपि कैशिक ।
विशेषेण नरेन्द्राणां क्षत्रधर्मऽवतिष्ठताम् ॥८६॥
योद्धव्यमिति धर्मेण अधर्मे तु पराङ्मुखे ।
तेषां किं हेतुना कोपः कर्तव्यस्त्ववनीश्वराः ॥८७॥
यद्गतं तदतिक्रान्तं ये मृतास्ते दिवं गताः ।
एष धर्मो नृलोकेऽस्मिञ्जायन्ते च म्रियन्ति च ॥८८॥
तस्मादशोच्यं भवतां मृतार्थे च नराधिपाः ।
क्षन्तव्यं रोचतेऽस्माकं वीतवैरा भवन्तु ते ॥८९॥
वैशम्पायन उवाच
एवमुक्त्वा नरेन्द्रांस्तानाश्वास्य मधुसूदनः ।
कैशिकस्य मुखं वीक्ष्य विरराम महाद्युतिः ॥९०॥
एतस्मिन्नेव काले तु भीष्मको नयकोविदः ।
पूजयित्वा यथान्यायमुवाच वदतां वरः ॥९१॥
इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रुक्मिणीस्वयंवरे पञ्चाशत्तमोऽध्यायः ॥५०॥

N/A

References : N/A
Last Updated : July 19, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP