संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| चतुर्दशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - चतुर्दशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण चतुर्दशोऽध्यायः Translation - भाषांतर बलरामेण प्रलम्बासुरस्य वधम्वैशम्पायन उवाचअथ तौ जातहर्षौ तु वसुदेवसुतावुभौ ।तत् तालवनमुत्सृज्य भूयो भाण्डीरमागतौ ॥१॥चारयन्तौ विवृद्धानि गोधनानि शुभानि च ।स्फीतसस्यप्ररूढानि वीक्षमाणौ वनानि च ॥२॥क्ष्वेडयन्तौ प्रगायन्तौ प्रचिन्वन्तौ च पादपान् ।नामभिर्व्याहरन्तौ च सवत्सा गाः परंतपौ ॥३॥निर्योगपाशैरासक्तैः स्कन्धाभ्यां शुभलक्षणौ ।वनमालाकुलोरस्कौ बालशृङ्गाविवर्षभौ ॥४॥सुवर्णाञ्जनचूर्णाभावन्योन्यसदृशाम्बरौ ।महेन्द्रायुधसंसक्तौ शुक्लकृष्णाविवाम्बुदौ ॥५॥कुशाग्रकुसुमानां च कर्णपूरौ मनोरमौ ।वनमार्गेषु कुर्वाणौ वन्यवेषधरावुभौ ॥६॥गोवर्धनस्यानु चरौ वने सानुचरौ तु तौ ।चेरतुर्लोकसिद्धाभिः क्रीडाभिरपराजितौ ॥७॥तावेवं मानुषीं दीक्षां वहन्तौ सुरपूजितौ ।तज्जातिगुणयुक्ताभिः क्रीडाभिश्चेरतुर्वनम् ॥८॥तौ तु भाण्डीरमाश्रित्य बालक्रीडानुवर्तिनौ ।प्राप्तौ परमशाखाढ्यं न्यग्रोधं शाखिनां वरम् ॥९॥तत्र त्वान्दोलिकाभिश्च युद्धमार्गविशारदौ ।अश्मभिः क्षेपणीयैश्च तौ व्यायाममकुर्वताम् ॥१०॥युद्धमार्गैश्च विविधैर्गोपालैः सहितावुभौ ।मुदितौ सिंहविक्रान्तौ यथाकामं विचेरतुः ॥११॥तयो रमयतोरेव तल्लिप्सुरसुरोत्तमः ।प्रलम्बोऽभ्यागमत्तत्र च्छिद्रान्वेषी तयोस्तदा ॥१२॥गोपालवेषमास्थाय वन्यपुष्पविभूषितः ।लोभयानः स तौ वीरौ हास्यैः क्रीडनकैस्तथा ॥१३॥सोऽवगाहत निश्शङ्कस्तेषां मध्यममानुषः ।मानुषं वपुरास्थाय प्रलम्बो दानवोत्तमः ॥१४॥प्रक्रीडिताश्च ते सर्वे सह तेनामरारिणा ।गोपालवपुषं गोपा मन्यमानाः स्वबान्धवम् ॥१५॥स तु च्छिद्रान्तरप्रेप्सुः प्रलम्बो गोपतां गतः ।दृष्टिं प्रणिदधे कृष्णे रौहिणेये च दारुणाम् ॥१६॥अविषह्यं ततो मत्वा कृष्णमद्भुतविक्रमम् ।रौहिणेयवधे यत्नमकरोद् दानवोत्तमः ॥१७॥हरिणाक्रीडनं नाम बालक्रीडनकं ततः ।प्रक्रीडितास्तु ते सर्वे द्वौ द्वौ युगपदुत्पतन् ॥१८॥कृष्णः श्रीदामसहितः पुप्लुवे गोपसूनुना ।संकर्षणस्तु प्लुतवान् प्रलम्बेन सहानघ ॥१९॥गोपालास्त्वपरे द्वन्द्वं गोपालैरपरैः सह ।प्रद्रुता लङ्घयन्तो वै तेऽन्योन्यं लघुविक्रमाः ॥२०॥श्रीदाममजयत् कृष्णः प्रलम्बं रोहिणीसुतः ।गोपालैः कृष्णपक्षीयैर्गोपालास्त्वपरे जिताः ॥२१॥ते वाहयन्तस्त्वन्योन्यं संहर्षात् सहसा द्रुताः ।भाण्डीरस्कन्धमुद्दिश्य मर्यादां पुनरागमन् ॥२२॥संकर्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः ।द्रुतं जगाम विमुखः सचन्द्र इव तोयदः ॥२३॥स भारमसहंस्तस्य रौहिणेयस्य धीमतः ।ववृधे सुमहाकायः शक्राक्रान्त इवाम्बुदः ॥२४॥स भाण्डीरवटप्रख्यं दग्धाञ्जनगिरिप्रभम् ।स्वं वपुर्दर्शयामास प्रलम्बो दानवोत्तमः ॥२५॥पञ्चस्तबकयुक्तेन मुकुटेनार्कवर्चसा ।दीप्यमानाननो दैत्यः सूर्याक्रान्त इवाम्बुदः ॥२६॥महाननो महाग्रीवः सुमहानन्तकोपमः ।रौद्रः शकटचक्राक्षो नमयंश्चरणैर्महीम् ॥२७॥स्रग्दामलम्बाभरणः प्रलम्बाम्बरभूषणः ।वीरः प्रलम्बः प्रययौ लम्बतोय इवाम्बुदः॥२८॥स जहाराथ वेगेन रौहिणेयं महासुरः ।सागरोपप्लवगतं कृत्स्नं लोकमिवान्तकः ॥२९॥ह्रियमाणः प्रलम्बेन स तु संकर्षणो बभौ ।उह्यमान इवाकाशे कालमेघेन चन्द्रमाः ॥३०॥स संदिग्धमिवात्मानं मेने संकर्षणस्तदा ।दैत्यस्कन्धगतः श्रीमान् कृष्णं चेदमुवाच ह ॥३१॥ह्रियेऽहं कृष्ण दैत्येन पर्वतोदग्रवर्ष्मणा ।प्रदर्शयित्वा महतीं मायां मानुषरूपिणीम् ॥३२॥कथमस्य मया कार्यं शासनं दुष्टचेतसः ।प्रलम्बस्य प्रवृद्धस्य दर्पाद् द्विगुणवर्चसः ॥३३॥तमाह सस्मितं कृष्णः साम्ना हर्षाकुलेन वै ।अभिज्ञो रौहिणेयस्य वृत्तस्य च बलस्य च ॥३४॥अहोऽयं मानुषो भावो व्यक्तमेवानुपाल्यते ।यस्त्वं जगन्मयं देवं गुह्याद् गुह्यतरं गतः ॥३५॥स्मर नारायणात्मानं लोकानां त्वं विपर्यये ।अवगच्छात्मनाऽऽत्मानं समुद्राणां समागमे ॥३६॥पुरातनानां देवानां ब्रह्मणः सलिलस्य च ।आत्मवृत्तप्रभावाणां संस्मराद्यं च वै वपुः ॥३७॥शिरः खं ते जलं मूर्त्तिः पादौ भूर्दहनो मुखम् ।वायुर्लोकायुरुछ्वासो मनः सोमो ह्यभूत्तव ॥३८॥सहस्रास्यः सहस्राङ्गः सहस्रचरणेक्षणः ।सहस्रपद्मनाभस्त्वं सहस्रांशुधरोऽरिहा ॥३९॥यत्त्वया दर्शितं लोके तत् पश्यन्ति दिवौकसः ।यत् त्वया नोक्तपूर्वं हि कस्तदन्वेष्टुमर्हति ॥४०॥यद् वेदितव्यं लोकेऽस्मिंस्तत्त्वया समुदाहृतम् ।विदितं यत् तवैकस्य देवा अपि न तद् विदुः ॥४१॥आत्मजं ते वपुर्व्योम्नि न पश्यन्त्यात्मसम्भवम् ।यत् तु ते कृत्रिमं रूपं तदर्चन्ति दिवौकसः ॥४२॥देवैर्न दृष्टश्चान्तस्ते तेनानन्त इति स्मृतः ।त्वं हि सूक्ष्मो महानेकः सूक्ष्मैरपि दुरासदः ॥४३॥त्वय्येव जगतः स्तम्भे शाश्वती जगती स्थिता ।अचला प्राणिनां योनिर्धारयत्यखिलं जगत् ॥४४॥चतुःसागरभोगस्वंः चातुर्वर्ण्यविभागवित् ।चतुर्युगेषु लोकानां चातुर्होत्रफलाशनः॥४५॥यथाहमपि लोकानां तथा त्वं तच्च मे मतम् ।उभावेकशरीरौ स्वो जगदर्थे द्विधाकृतौ ॥४६॥अहं वा शाश्वतः कृष्णस्त्वं वा शेषः पुरातनः ।लोकानां शाश्वतो देवस्त्वं हि शेषः सनातनः ।आवयोर्देहमात्रेण द्विधेदं धार्यते जगत् ॥४७॥अहं यः स भवानेव यस्त्वं सोऽहं सनातनः ।द्वावेव विहितौ ह्यावामेकदेहौ महाबलौ ॥४८॥तदास्से मूढवत् त्वं किं प्राणेन जहि दानवम् ।मूर्ध्नि देवरिपुं देव वज्रकल्पेन मुष्टिना ॥४९॥वैशम्पायन उवाचसंस्मारितस्तु कृष्णेन रौहिणेयः पुरातनम् ।बलेनापूर्यत तदा त्रैलोक्यान्तरचारिणा ॥५०॥ततः प्रलम्बं दुर्वृत्तं स बद्धेन महाभुजः ।मुष्टिना वज्रकल्पेन मूर्ध्नि चैनं समाहनत् ॥५१॥तस्योत्तमाङ्गं स्वे काये विकपालं विवेश ह ।जानुभ्यां चाहतः शेते गतासुर्दानवोत्तमः ॥५२॥जगत्यां विप्रकीर्णस्य तस्य रूपमभूत् तदा ।प्रलम्बस्याम्बरस्थस्य मेघस्येव विदीर्यतः ॥५३॥तस्य भग्नोत्तमाङ्गस्य देहात् सुस्राव शोणितम् ।बहुगैरिकसंयुक्तं शैलशृङ्गादिवोदकम् ॥५४॥तं निहत्य प्रलम्बं तु संहृत्य बलमात्मनः ।पर्यष्वजत वै कृष्णं रौहिणेयः प्रतापवान् ॥५५॥तं तु कृष्णश्च गोपाश्च दिविस्थाश्च दिवौकसः ।तुष्टुवुर्निहते दैत्ये जयाशीर्भिर्महाबलम् ॥५६॥बलेनायं हतो दैत्यो बालेनाक्लिष्टकर्मणा ।विवदन्त्यशरीरिण्यो वाचः सुरसमीरिताः ॥५७॥बलदेवेति नामास्य देवैरुक्तं दिवि स्थितैः ।बलं तु बलदेवस्य तदा भुवि जना विदुः ॥५८॥कर्मजं निहते दैत्ये देवैरपि दुरासदे ॥५९॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि शिशुचर्यायां प्रलम्बवधे चतुर्दशोऽध्यायः ॥१४॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP