संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| द्व्यधिकशततमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - द्व्यधिकशततमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण द्व्यधिकशततमोऽध्यायः Translation - भाषांतर नारदेन भगवतः श्रीकृष्णस्य अद्भुतानां कर्मणां वर्णनम्नारद उवाचसादिता मौरवाः पाशा निसुन्दनरकौ हतौ ।कृतः क्षेम्यः पुनः पन्थाः पुरं प्राग्ज्योतिषं प्रति ॥१॥शौरिणा पृथिवीपालास्त्रासिताः स्पर्द्धिनो रणे ।धनुषश्च निनादेन पाञ्चजन्यस्वनेन च ॥२॥मेघप्रख्यै रथानीकैर्दाक्षिणात्यैः सुरक्षितम् ।रुक्मिणं युधि निर्जित्य महाबलपराक्रमम् ।रुक्यिणीमाजहाराशु केशवो वृष्णिपुङ्गवः ॥३॥ततः पर्जन्यघोषेण रथेनादित्यवर्चसा ।उवाह महिषीं भोज्यां शङ्खचक्रगदासिभृत् ॥४॥जारूथ्यामाह्वृतिः क्राथः शिशुपालश्च निर्जितः ।वक्रश्च सह सैन्येन शतधन्वाथ निर्जितः ॥५॥इन्द्रद्युम्नो हतः कोपाद् यवनश्च कशेरुमान् ।हतः सौभपतिः श्रीमाञ्छाल्वश्च दृढधन्वना ॥६॥पर्वतानां सहस्रं च चक्रेण पुरुषोत्तमः ।विकीर्य पुण्डरीकाक्षो द्युमत्सेनं व्यपोथयत् ॥७॥महेन्द्रशिखरे चैव निमेषान्तरचारिणौ ।जग्राह पुरुषव्याघ्रो वरुणस्याभितश्चरौ ॥८॥इरावत्यां महाभोजावग्निसूर्यसमौ युधि ।गोपतिस्तालकेतुश्च निहतौ शार्ङ्गधन्वना ॥९॥अक्षप्रपतने चैव डिम्भो हंसश्च दानवौ ।उभौ तावपि कृष्णेन सानुगौ विनिपातितौ ॥१०॥दग्धा वाराणसी चैव केशवेन महात्मना ।सराष्ट्रः सानुबन्धश्च काशीनामधिपो हतः ॥११॥विजित्य च यमं संख्ये शरैः संनतपर्वभिः ।अथैन्द्रसेनिरानीतः कृष्णेनाद्भुतकर्मणा ॥१२॥सहितः सर्वयादोभिः सागरेषु महाबलः ।प्राप्य लोहितकूटं च कृष्णेन वरुणो जितः ॥१३॥महेन्द्रभवने जातो देवैर्गुप्तो महात्मभिः ।अचिन्तयित्वा देवेन्द्रं पारिजातद्रुमो हृतः ॥१४॥पाण्ड्यं पौण्ड्रं कलिङ्गं च मात्स्यं चैव जनार्दनः ।जघान सहितान् सर्वान् वङ्गराजं तथैव च ॥१५॥एष चैकशतं हत्वा रणे राज्ञां महात्मनाम् ।गान्धारीमावहद् वीरो महिषीं प्रियदर्शनाम् ॥१६॥तथा गाण्डीवधन्वानं क्रीडन्तं मधुसूदनः ।जिगाय भरतश्रेष्ठं कुन्त्याः प्रमुखतो विभुः ॥१७॥द्रोणं-द्रौणिं कृपं कर्णं भीष्मं चैव सुयोधनम् ।चक्रानुयानैः प्रहृवणे जिगाय पुरुषोत्तमः ॥१८॥बभ्रोश्च प्रियमन्विच्छञ्छङ्खचक्रगदासिभृत् ।सौवीरराजस्य सुतां प्रसह्य हृतवान् प्रभुः ॥१९॥पर्यस्तां पृथिवीं कृत्स्नां साश्वां सरथकुञ्जराम् ।वैणुदारिकृते यत्नाज्जिगाय पुरुषोत्तमः ॥२०॥अवाप्य तपसो वीर्यं बलमोजश्च माधवः ।पूर्वदेहे जहारायं बलेस्त्रिभुवनं हरिः ॥२१॥वज्राशनिगदाखड्गैस्त्रासयद्भिश्च दानवैः ।यस्य नाधिगतो मृत्युः पुरं प्राग्ज्योतिषं प्रति ॥२२॥अभिभूतश्च कृष्णेन सगणः सुमहाबलः ।बलेः पुत्रो महावीर्यो बाणो द्रविणवत्तरः ॥२३॥पीठं तथा महाबाहुः कंसामात्यं जनार्दनः ।पैठिकं चासिलोमानं निजघान महाबलः ॥२४॥जृम्भमैरावणं चापि विरूपं च महायशाः ।जघान पुरुषव्याघ्रो दैत्यं मानुषरूपिणम् ॥२५॥तथा नागपतिं तोये कालीयं च महौजसम् ।निर्जित्य पुण्डरीकाक्षः प्रेषयामास सागरम् ॥२६॥संजीवयामास मृतं पुत्रं सान्दीपनेस्तथा ।निर्जित्य पुरुषव्याघ्रो यमं वैवस्वतं हरिः ॥२७॥एवमेष महाबाहुः शास्ता तेषां दुरात्मनाम् ।देवांश्च ब्राह्मणांश्चैव ये द्विषन्ति सदा नृप ॥२८॥निहत्य नरकं भौममाहृत्य मणिकुण्डले ।देवमातुर्ददौ चैव प्रीत्यर्थं वज्रपाणिनः ॥२९॥एवं सदैव दैत्यानां सुराणां च महायशाः ।भयाभयकरः कृष्णः सर्वलोककरो विभुः ॥३०॥संस्थाप्य धर्मान् मर्त्येषु यज्ञैरिष्ट्वाऽऽप्तदक्षिणैः ।कृत्वा देवार्थममितं स्वस्थानं प्रतिपत्स्यते॥३१॥कृष्णो भोगवतीं रम्यामृषिकान्तां महायशाः ।द्वारकामात्मसात्कृत्वा समुद्रं गमयिष्यति ॥३२॥बहुरत्नसमाकीर्णो चैत्ययूपशताङ्किताम् ।द्वारकां वरुणावासं प्रवेक्ष्यति सकाननाम् ॥३३॥तां सूर्यसदनप्रख्यां मतज्ञः शार्ङ्गधन्वनः ।विसृष्टां वासुदेवेन सागरः प्लावयिष्यति ॥३४॥सुरासुरमनुष्येषु नासीन्न भविता क्वचित् ।य इमामावसेत्कश्चिदन्यो वै मधुसूदनात् ॥३५॥एवमेष दशार्हाणां विधाय विधिमुत्तमम् ।विष्णुर्नारायणः सोमः सूर्यश्च भविता स्वयम् ३६॥अप्रमेयस्त्वचिन्त्यश्च यथा कामचरो वशी ।मोदत्येष सदा भूतैर्बालः क्रीडनकैरिव ॥३७॥न प्रमातुं महाबाहुः शक्योऽयं मधुसूदनः ।परं ह्यपरमेतस्माद् विश्वरूपान्न विद्यते ॥३८॥श्रुतोऽयमेव शतशस्तथा शतसहस्रशः ।अन्तो हि कर्मणामस्य दृष्टपूर्वो न केनचित् ॥३९॥एवमेतानि कर्माणि शिशुमध्यगतस्तदा ।कृतवान् पुण्डरीकाक्षः संकर्षणसहायवान् ॥४०॥इत्युवाच पुरा व्यासस्तपोवीर्येण चक्षुषा ।महायोगी महाबुद्धिः सर्वप्रत्यक्षदर्शिवान् ॥४१ ।वैशम्पायन उवाचइति संस्तूय गोविन्दं महेन्द्रवचनान्मुनिः ।यदुभिः पूजितः सर्वैर्नारदस्त्रिदिवं ययौ ॥४२॥ततस्तद् वसु गोविन्दो दिदेशान्धकवृष्णिषु ।यथार्हं पुण्डरीकाक्षो विधिवन्मधुसूदनः ॥४३॥यादवाश्च धनं प्राप्य विधिवद् भूरिदक्षिणैः ।यज्ञैरिष्ट्वा महात्मानो द्वारकामावसन् पुरीम् ॥४४॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि नारदवाक्यं नामद्व्यधिकशततमोऽध्यायः ॥१०२॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP