संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| सप्तषष्टितमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - सप्तषष्टितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण सप्तषष्टितमोऽध्यायः Translation - भाषांतर श्रीकृष्णेन पृष्टे सति सत्यभामया स्वरोषस्य खेदस्य च कारणकथनम्, श्रीकृष्णेन तस्यै पारिजातवृक्षस्य आनयने विश्वस्य संतुष्टकरणम्, सत्यभामया श्रीकृष्णेन साकं नारदस्य सत्कारम्, नारदेन पारिजातस्य उत्पत्तेः एवं महिम्नस्य वर्णनम् ।वैशम्पायन उवाचनारायणः सत्यभामां पुनरेवैष भारत ।प्रोवाच प्रणयात् क्रुद्धामभिमानवतीं सतीम् ॥१॥श्रीभगवानुवाचदहतीव ममाङ्गानि शोकः कमललोचने ।किमु तत् कारणं येन त्वमेवमतिविक्लवा ॥२॥शापितासि मम प्राणैराचक्ष्वानत्ययो यदि ।श्रोतव्यं यदि भक्तेन भर्त्रा सर्वाङ्गशोभने ॥३॥ततः प्रोवाच भर्तारं सत्या सत्यव्रते स्थितम् ।बाष्पगद्गदया वाचा तथैनैधोमुखी स्थिता ॥४॥त्वयैव स्थापितं पूर्वं सौभाग्यं मम मानद ।जगत्यमलपत्राक्ष यत् ख्यातं केशिनाशन ॥५॥शिरो वहामि चेष्टत्वात् तवाहं देव गर्विता ।सर्वसीमन्तिनीमध्ये स्पृहणीयास्मि सर्वथा ॥६॥साहमद्यावहास्यास्मि सपत्नीनां जनस्य च ।इति प्रेष्याभिराख्यातं श्रुत्वा तथ्यं ततस्ततः ॥७॥यत् पारिजातकुसुमं दत्तवान् नारदस्तव ।तत् किलेष्टजने दत्तं त्वयाहं परिवर्जिता ॥८॥रत्नातिशयदानेन तस्यामभ्यधिकः किल ।स्नेहश्च बहुमानश्च प्रकाशं गमितस्त्वया ॥९॥तामस्तौषीत् समक्षं ते प्रियां स किल नारदः ।तमश्रौषीश्च दृष्टस्त्वं प्रियायाः संस्तवं किल ॥१०॥स्तोतव्यो यदि तावत् स नारदेन तवाग्रतः ।दुर्भगोऽयं जनस्तत्र किमर्थमनुशब्दितः ॥११॥प्रणयस्य रसं दत्त्वा पश्चात्तापः प्रभो यदि ।अनुज्ञां मे प्रयच्छस्व तपः कर्तुं प्रसीद मे ॥१२॥स्वप्नेनापि न दृष्ट्वाहं श्रद्दध्यां पुष्करेक्षण ।यदन्यदेव निर्वृत्तमश्रौषं पश्यतस्तव ॥१३॥कामं कामोऽस्तु तस्यैव मुनेरतुलतेजसः ।अत्र मन्युस्तु मे देव सांनिध्यं तव तत्र यत् ॥१४॥मानार्थं जीव्यते लोके सद्भिरित्युक्तवानसि ।तदेवं सति नेच्छामि जीवितुं मानवर्जिता ॥१५॥ममाभवद् यतो रक्षा भयमद्य ततो मम ।सर्वतो रक्षते यो मां स मां नाद्याभिरक्षति ॥१६॥हा गतिं कां गमिप्यामि त्यक्ता देव त्वया विभो ।कुमुद्वतीगतां नूनं गतिं यास्याम्यसंगता ॥१७॥किमकार्षमहं मोहादीश्वराणां प्रियाप्रियम् ।प्रिया भूत्वा प्रिया भूता यद्यहं तव मानद ॥१८॥वसन्तकुसुमैश्चित्रं तदा रैवतकं गिरिम् ।प्रिया भूत्वाप्रिया भूता कथं द्रक्ष्याम्यहं पुनः ॥१९॥परपुष्टस्वनोन्मिश्रं पुष्पगन्धवहं शुचिम् ।कथं नामानिलं द्वेष्या सेस्रेयं दुर्भगा सती ॥२०॥जलक्रीडां तवाङ्कस्था देव कृत्वा महोदधौ ।कथं दौर्भाग्यमापन्ना पश्येयमपि सागरम् ॥२१॥सात्राजिति प्रिया नान्या त्वत्तो मेऽस्तीति विद्धि माम् ।यदवोचः क्व तद् यातमथ वा कः स्मरिष्यति ॥२२॥यदद्राक्षीद्धि मां श्वश्रूर्बहुमानेन नन्दिनी ।अवज्ञातां त्वया राज्ञीं नूनं दौर्भाग्यकर्शिताम् ॥२३॥किं नु गूढेन मे प्रेम्णा सुस्निग्धैनापि मानद ।यत्समानां जनैर्देवो मां न पश्यति नित्यदा ॥२४॥नाहं त्वां कितवं धूर्तमज्ञासिषमरिंदम ।अद्य ज्ञातोऽसि तत्पक्षचञ्चलो जनवञ्चकः ॥२५॥स्वरवर्णेङ्गिताकारैर्निगूढो देव यत्नतः ।चौर ज्ञातोऽसि तत्पक्षवाङ्मात्रमधुरः शठः ॥२६॥एवमीर्ष्यावशं प्राप्तां देवीं सात्राजितीं हरिः ।अभिमानवतीं देवः सान्त्वपूर्वमथाब्रवीत् ॥२७॥मैवं पद्मपलाशाक्षि प्राणेश्वरि वद प्रिये ।किमत्र बहुनोक्तेन त्वदीयमवगच्छ माम् ॥२८॥तत् पारिजातकुसुमं तस्या देवि ममाग्रतः ।नारदो मत्प्रियं कुर्वन् मुनिरक्लिष्टकर्मकृत् ॥२९॥दाक्षिण्यादानुरोधाच्च दत्तवान् नात्र संशयः ।प्रसीदैकापराधं मे मर्षयस्य शुचिस्मिते ॥३०॥पारिजातकपुष्पाणि यदीच्छस्यतिकोपने ।तदा दातास्मि सुश्रोणि सत्यमेतद्ब्रवीमि तम् ॥३१॥स्वर्गास्पदादानयित्वा पारिजातं द्रुमेश्वरम् ।गृहे ते स्थापयिष्यामि यावत्कालं त्वमिच्छसि ॥३२॥एवमुक्ता तु हरिणा प्रोवाच हरिवल्लभा ।यद्येवं स द्रुमः शक्यस्त्विहानयितुमच्युत ॥३३॥मन्युरेव प्रमृष्टो हि भवेद् बहुगुणं मम ।सीमन्तिनीनां सर्वासामधिका स्यामधोक्षज ॥३४॥तथास्तु प्रथमः कल्प इति तां मधुसूदनः ।प्रोवाचाप्रतिमो देवो जगतः प्रभवाप्ययः ॥३५॥तथेत्युक्तेति कृष्णेन तुतोष समितिंजय ।सत्यभामा सतामिष्टा कंसनाशनवल्लभा ॥३६॥ततः स्नातो जगन्नाथः सर्वेशः सर्वभावनः ।चकारावश्यकं सर्वं सर्वकामप्रदः सताम् ॥३७॥दध्यौ च नारदं देवः स्नातो देवमुनिर्नृप ।अभ्याजगाम स्नानान्ते मुनिश्रेष्ठो महोदधौ ॥३८॥तमागतं नरपते सतां गतिरधोक्षजः ।सत्यया सह धर्मात्मा यथाविधि अपूजयत् ॥३९॥पादौ प्रक्षालयाञ्चक्रे मुनेः सात्राजिती स्वयम् ।जलं देवः स्वयं कृष्णो भृङ्गारेण ददौ तदा ॥४०॥अथोपकल्पयामास सुखासीनाय केशवः ।परमान्नं स मुनये प्रयतात्मा जगद्गुरुः ॥४१॥तल्लोककर्त्रा सत्कृत्य दत्तं मुनिरुदारधीः ।बुभुजे वदतां श्रेष्ठः श्रद्धया परया युतः ॥४२॥उपस्पृश्य ततस्तृप्तः प्रददौ चाशिषः प्रभो ।ताश्च प्रीतेन मनसा प्रतिजग्राह केशवः ॥४३॥ततः सात्राजितीं देवीं प्रणतां नारदोऽब्रवीत् ।प्रसार्य दक्षिणं हस्तं सजलं जलजेक्षणाम् ॥४४॥यथेदानीं तथैव त्वं भव देवि पतिव्रता ।सविशेषं च सुभगा भव मत्तपसो बलात् ॥४५॥इत्युक्ता मुनिमुख्येन सत्यभामा हरिप्रिया ।उत्तस्थौ महता युक्ता हर्षेण तु नराधिप ॥४६॥स कृष्णोऽप्यभ्यनुज्ञां तु लब्ध्वा मुनिवरात्तदा ।बुभुजे विघसं धीमानप्रमेयपराक्रमः ॥४७॥ततस्त्वावश्यकं कृत्वा सत्यभामापि भारत ।अनुज्ञया तदा भर्तुर्विवेशान्तर्गृहं मुदा ॥४८॥ततो विनिर्गता देवी कृष्णस्यैवाभ्यनुज्ञया ।स्थिता पार्श्वे च कृष्णस्य नमस्कृत्वा महात्मने ॥४९॥ततो मुहूर्तमासित्वा नारदः कृष्णमब्रवीत् ।आपृच्छे त्वां गमिष्यामि शक्रलोकमधोक्षज ॥५०॥तत्राद्यं देवमीशानं नमस्कृत्य महेश्वरम् ।गास्यन्ति देवगन्धर्वास्तथैवाप्सरसां गणाः ॥५१॥मासि मास्युचितं ह्येतन्महेन्द्रसदने प्रभो ।पूजार्थं देवदेवस्य गान्धर्वं नृत्यमेव च ॥५२॥अन्तर्हितो देवदेवः सोमः सप्रवरो विभुः ।पश्यत्यमरमुख्येन कृतं भक्त्याद्रिघातिना ॥५३॥निमन्त्रितोऽहं पूर्वेद्युः पुष्पं दत्त्वा महाद्युते ।पारिजातस्य भद्रं ते तरुराज्ञो महात्मनः ॥५४॥क्त्वइए निमन्त्रित किया या ॥५४॥यदेतदाहृतं स्वर्गात् त्वदर्थं तु मया विभो ।देवोपभोग्यमेतद्धि तरुराजसमुद्भवम् ॥५५॥इष्टः स वृक्षः सततं शच्याः पुष्करलोचन ।सौभाग्यमावहत्येव पूज्यमानोऽपि नित्यशः ॥५६॥पुण्यं कर्तुं तदा सृष्टः पारिजातो महाद्रुमः ।अदित्या धर्मनित्येन कश्यपेन महात्मना ॥५७॥पुरादित्या महातेजास्तोषितः किल कश्यपः ।वरेण च्छन्दयामास मारीचस्तपसो निधिः ॥५८॥सोवाच सुभगा येन भवेयं मुनिसत्तम ।स्वलंकृता कामतश्च सर्वैरेव विभूषणैः ॥५९॥ईप्सितं गीतनृत्यं च भवेन्मम तपोधन ।कुमारी नित्यदा चैव भवेयं तपसो निधे ॥६०॥विरजा शोकरहिता भवेयमिति नित्यदा ।पतिभक्तिमती चैव धर्मशीला तथैव च ॥६१॥पारिजातं ततोऽस्राक्षीददित्याः प्रियकाम्यया ।सर्वकामप्रदैः पुष्पैरावृतं नित्यगन्धदैः ॥६२॥त्रिशाखं सर्वदा दृश्यं सर्वभूतमनोहरम् ।सर्वपुष्पाणि दृश्यन्ते तस्मिन्नेव महाद्रुमे ॥६३॥ईदृशान्यपि पुष्पाणि बिभर्त्येकापि रूपिणी ।बहुरूपाणि चाप्यन्या पद्मानि च ततोऽपरा ॥६४॥मन्दारादपि वृक्षाच्च सारमुद्धत्य कश्यपः ।तस्मादेष तरुश्रेष्ठः सर्वेषां श्रेष्ठतां गतः ॥६५॥ततस्तत्र निबध्याथ कश्यपं प्रददौ शुभा ।अदितिर्मम पुण्यार्थं सौभाग्यार्थं तथैव च ॥६६॥अदित्या कश्यपो दत्तः पुण्यार्थं च तथा मम ।पुष्पदाम्ना वेष्टयित्वा कण्ठे पुण्यार्थमात्मवान् ॥६७॥निष्क्रयेण मया मुक्तः कश्यपस्तु तपोधनः ।इन्द्रो दत्तस्तथेन्द्राण्या सौभाग्यार्थं ततो मम ॥६८॥सोमश्चाप्यथ रोहिण्या ऋद्ध्या च धनदस्तथा ।एवं सौभाग्यदो वृक्षः पारिजातो न संशयः ॥६९॥परि जातो विष्णुपद्याः पारिजातेतिशब्दितः ।मन्दारपुष्पैर्यद्युक्तो मन्दारस्तेन कथ्यते ॥७०॥कोऽप्ययं दारुरित्याहुरजानन्तो यतो जनाः ।कोविदार इति ख्यातस्ततः स सुमहातरुः ॥७१॥मन्दारः कोविदारश्च पारिजातश्च नामभिः ।स वृक्षो ज्ञायते दिव्यो यस्यैतत्कुसुमोत्तमम् ॥७२॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे सप्तषष्टितमोऽध्यायः ॥६७॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP