संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| त्रिसप्ततितमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - त्रिसप्ततितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण त्रिसप्ततितमोऽध्यायः Translation - भाषांतर इन्द्रश्रीकृष्णयोः, जयन्तप्रद्युम्नयोः, प्रवरसात्यक्योः एवं ऐरावतगरुडयोः युद्धम्वैशम्पायन उवाचअथ विष्णुर्महातेजा मुहूर्ताभ्युदिते रवौ ।मृगयाव्यपदेशेन ययौ रैवतकं गिरिम् ॥१॥आरोप्यैकरथे देवः सात्यकिं नरपुङ्गवम् ।प्रद्युम्नमनुगच्छेति प्रोक्त्वा कुरुकुलोद्वह ॥२॥रैवतं च गिरिं देवो गत्वा दारुकमब्रवीत् ।मदीयं रथमेनं त्वं ग्रहायेहैव दारुक ॥३॥प्रतिपालय मां सौम्य दिनार्द्धे वारयन् हरीन् ।रथेनैव प्रवेष्टाहं द्वारकां सूतसत्तम ॥४॥इति संदिश्य भगवानारुरोह जयोद्यतः ।तार्क्ष्यं ससात्यको धीमानप्रमेयपराक्रमः ॥५॥पृथग् रथेन कौरव्य प्रद्युम्नः शत्रुसूदनः ।आकाशगामिना राजन्पृष्ठतः कृष्णमन्वयात् ॥६॥निमेषान्तरमात्रेण नन्दनं काननं हरिः ।देवोद्यानं ययौ धीमान् पारिजातजिहीर्षया ॥७॥ददर्श तत्र भगवान् देवयोधान् दुरासदान् ।नानायुधधरान् वीरान् नन्दनस्थानधोक्षजः ॥८॥तेषां सम्पश्यतामेव पारिजातं महाबलः ।उत्पाट्यारोपयामास पारिजातं सतां गतिः ॥९॥गरुडं पक्षिराजानमयत्नेनैव भारत ।उपस्थितो विग्रहवान् पारिजातः स केशवम् ॥१०॥सान्त्वितो वासुदेवेन पारिजातश्च भारत ।उक्तश्च वृक्ष मा भैस्त्वं केशवेन महात्मना ॥११॥तं प्रस्थितं तरुं दृष्ट्वा पारिजातमधोक्षजः ।अमरावतीं पुरीं श्रेष्ठां ततश्चक्रे प्रदक्षिणाम् ॥१२॥ते तु नन्दनगोप्तारः पारिजातो द्रुमोत्तमः ।ह्रियतीति महेन्द्राय गत्वा नृप शशंसिरे ॥१३॥अथैरावतमारुह्य निर्ययौ पाकशासनः ।जयन्तेन रथस्थेन पृष्ठतोऽनुगतः प्रभुः ॥१४॥पूर्वमभ्यागतं द्वारं केशवं शत्रुनाशनम् ।दृष्ट्वोवाच प्रवृत्तं भोः किमिदं मधुसूदन ॥१५॥प्रणम्य गरुडस्थोऽथ केशवः शक्रमब्रवीत् ।वध्वास्ते पुण्यकार्याय नीयतेऽयं वरद्रुमः ॥१६॥तमुवाच ततः शक्रो मा मैवं पुष्करेक्षण ।अयोधयित्वा न तरुर्नयितव्यस्त्वयाच्युत ॥१७॥प्रहरस्व महाबाहो प्रथमं मयि केशव ।प्रतिज्ञा सफला तेऽस्तु मुक्त्वा कौमोदकी मयि ॥१८॥ततः कृष्णः शरैस्तीक्ष्णैर्देवराजगजोत्तमम् ।बिभेदाशनिसंकाशैः प्रहसन्निव भारत ॥१९॥विव्याध गरुडं वज्री दिव्यैः शरवरैस्तथा ।बाणांश्चिच्छेद सहसा केशवस्य तरस्विनः ॥२०॥यान् यान् मुमोच देवेन्द्रस्तांस्तांश्चिच्छेद माधवः ।माधवेन प्रयुक्तांश्च चिच्छेद बलवृत्रहा ॥२१॥महेन्द्रस्य च शब्देन धनुषः कुरुनन्दन ।शार्ङ्गस्य च निनादेन मुमुहुः स्वर्गवासिनः ॥२२॥तयोर्वर्तति संग्रामे गरुडस्थं महाबलः ।पारिजातं जयन्तोऽथ हर्तुमभ्युद्यतो बली ॥२३॥प्रद्युम्नमथ कंसघ्नो वारयेति तदाब्रवीत् ।ततस्तं वारयामास रौक्मिणेयः प्रतापवान् ॥२४॥जयन्तो जयतां श्रेष्ठो रौक्मिणेयमथेषुभिः ।सर्वगात्रेषु विहसन्नाजघान रथे स्थितः ॥२५॥रथस्थ एव रथिनं कामस्तु कमलेक्षणः ।ऐन्द्रिमभ्यर्दयामास बाणैराशीविषोपमैः ॥२६॥स संनिपातस्तुमुलो बभूव कुरुनन्दन ।जयन्तस्य च वीरस्य रौक्मिणेयस्य चोभयोः ॥२७॥कृतप्रतिकृतं युद्धे चक्रतुस्तौ महाबलौ ।महेन्द्रोपेन्द्रतनयौ जगत्यस्त्रभृतां वरौ ॥२८॥देवाश्च मुनयश्चैव ददृशुर्विस्मयान्विताः ।तं संग्रामं महाघोरं सिद्धाश्चैव सचारणाः ॥२९॥ततस्तु प्रवरो नाम देवदूतो महाबलः ।पारिजातं पुनर्हर्तुमियेष कुरुनन्दन ॥३०॥सखा स देवराजस्य महास्त्रविदरिंदमः ।अवध्यो वरदानेन ब्रह्मणः कुरुनन्दन ॥३१॥ब्राह्मणस्तपसा सिद्धौ जम्बूद्वीपाद् दिवं गतः ।स्वशक्त्या नृप संयातः सखित्वं बलघातिना ॥३२॥तमापतन्तं सम्प्रेक्ष्य कृष्णः सात्यकिमब्रवीत् ।अत्रस्थ एव प्रवरं शरैर्वारय सात्यके ॥३३॥ततः षष्ट्या रथेषूणां गरुडस्थं द्विजस्तदा ।आजघान महाबाहो सात्यकिं प्रवरो भृशम् ॥३५॥शिनेर्नप्ता धनुस्तस्य क्षिपतः सायकान् नृप ।चिच्छेद पुरुषव्याघ्रो वचनं चेदमब्रवीत् ॥३६॥ब्राह्मणो नाभिहन्तव्यस्तिष्ठ तिष्ठ स्ववर्त्मनि ।अवध्या यादवानां हि स्वापराधेऽपि हि द्विजाः ॥३७॥प्रवरस्तु प्रहस्यैनमुवाच कुरुनन्दन ।अलं क्षान्त्या नृणां शूर युद्ध्य सर्वात्मना रणे ॥३८॥जामदग्न्यस्य रामस्य शिष्योऽहमपि यादव ।नामतः प्रवरो नाम सखा शक्रस्य धीमतः ॥३९॥न देवा योद्धुमिच्छन्ति मन्यन्तो मधुसूदनम् ।आनृण्यं सौहृदस्याहमधिगन्तास्मि माधव ॥४०॥ततस्तयोस्तदा रौद्रः संग्रामो ववृधे नृप ।अस्त्रैर्दिव्यैर्नरव्याघ्र शैनेयद्विजमुख्ययोः ॥४१॥द्यौश्चचाल तदा राजन् द्युचराश्च सहस्रशः ।तस्मिन् वर्तति संग्रामे तेषामतिमहात्मनाम् ॥४२॥नातिशिष्ये रणे कार्ष्णिरैन्द्रिमस्त्रभृतां वरम् ।ऐन्द्रिः कार्ष्णि महात्मानं मायिनं शूरसत्तमम् ॥४३॥हन्त गृह्ण प्रतीच्छेति तावुभौ योधसत्तमौ ।युयुधाते नरश्रेष्ठ परस्परजयैषिणौ ॥४४॥अथ शार्ङ्गायुधसुतं शचीपुत्रः प्रतापवान् ।विभाष्याभ्यहनद्राजन् दिव्येनास्त्रेण सत्वरः ॥४५॥सोऽस्त्रं तदभिदीप्यन्तमापतन्तं शितैः शरैः ।तस्तम्भे बाणजालेन तदद्भुतमिवाभवत् ॥४६॥ततस्तद् दीप्यमानं तु पपात रणमूर्द्धनि ।रौक्मिणेयस्य कौरव्य घोरं दानवमर्दनम् ॥४७॥तेनास्त्रेण रथो दग्धः प्रद्युम्नस्य महात्मनः ।नादहत् तत् सुघोरं तं रौक्मिणेयं नराधिप ॥४८॥दहत्यग्निं न खल्वग्निरुद्धतोऽपि विशाम्पते ।दग्धाद् रथान्महाबाहु रौक्मिणेयः प्रचक्रमे ॥४९॥अथ नारायणसुतो विरथो रथिनां वरः ।स्थितो धनुष्मानाकाशे जयन्तमिदमब्रवीत् ॥५०॥महेन्द्रपुत्र दिव्यं त्वं यदस्त्रं मुक्तवानसि ।नाहमीदृशरूपाणां शक्यो हन्तुं शतैरपि ॥५१॥प्रयत्नं कुरु शिक्षाणां यत्नं मेऽद्य प्रदर्शय ।नास्ति मेऽतिशयं कर्ता संग्रामेऽमरनन्दन ॥५२॥आसीन्मे साध्वसं दृष्ट्वा रथस्थं त्वां धृतायुधम् ।बिभेमि तव नेदानीं युद्धे दृष्टबलोऽबलम् ॥५३॥मनसा स्मर्यतां सैष पारिजातस्त्वया तरुः ।शक्यं न खलु हस्ताभ्यां स्प्रष्टव्यो यस्त्वया ह्यसौ ॥५४॥रथो मायामयो दग्धस्त्वया यो ह्यस्त्रतेजसा ।ईदृशानां सहस्राणि स्रष्टुं शक्तोऽस्मि मायया ॥५५॥एवमुक्तो जयन्तश्च मुमोचास्त्रं महाबलः ।तपसोपचितं तेन स्वयमेवातितेजसा ॥५६॥तत् प्रद्युम्नो महावेगं शरजालैरवारयत् ।चत्वार्यस्त्राणि दिव्यानि मुमुचे चापराणि सः ॥५७॥दिक्षु सर्वासु रुरुधुस्तान्यस्त्राण्यथ भारत ।रौक्मिणेयं महात्मानमन्तरिक्षे च पञ्चमम् ॥५८॥महोल्कासदृशान् बाणानस्त्राण्यमरसत्तमः ।मुमोच यानि घोराणि प्रद्युम्नं प्रति सर्वतः ॥५९॥तानि सर्वाणि बाणौघैः कार्ष्णिरस्त्राण्यवारयत् ।जयन्तं चापरैर्बाणैर्विध्याध निशितैस्तदा ॥६०॥ततो नादः समुत्सृष्टो ह्यमरैः पुण्यकर्मभिः ।दृष्ट्वा स्थैर्यं च शैघ्र्यं च प्रद्युम्नस्य महात्मनः ॥६१॥प्रवरस्यापि बाणेन शितेन शिनिपुङ्गवः ।चिच्छेदेष्वासनं वीरो हस्तावापं च भारत ॥६२॥ततौऽन्यत्स तु जग्राह महत् तद्धनुरुत्तमम् ।महेन्द्रदत्तं प्रवरो महाशनिसमस्वनम् ॥६३॥स तेन वीरो महता धनुषा विप्रसत्तमः ।शरान् मुमोच विविधानर्करश्मिनिभांस्तदा ॥६४॥चकर्त च धनुश्चित्रं शैनेयस्यामितौजसः ।विव्याध सर्वगात्रेषु बाणैरपि च सात्यकिम् ॥६५॥धनुरादाय शैनेयस्ततोऽन्यत् कुरुनन्दन ।दृढं भारसहं धीमान् विव्याध प्रवरं रणे ॥६६॥उच्चकर्ततुरन्योन्यवर्मणी तौ शितैः शरैः ।गात्रेभ्यश्चैव मांसानि मर्मभिद्भिः शरोद्यमैः ॥६७॥अथाष्टधारबाणेन पुनरिष्वासनं द्विधा ।चिच्छेद प्रवरो वीरस्त्रिभिश्चैनमताडयत् ॥६८॥अन्यदिष्वासनं तं तु ग्रहीतुमनसं द्विजः ।गदया ताडयामास क्षेप्यया लघुहस्तवान् ॥६९॥सोऽसिं चर्म च जग्राह सात्यकिः प्रहसन्निव ।न जग्राह धनुर्धीमान् गदयाभिहतो भृशम् ॥७०॥ततः शरशतान्येव मुमोच प्रवरस्तदा ।विहस्तमिव विज्ञाय सात्यकिं यदुनन्दनम् ॥७१॥प्रद्युम्नोऽस्य ददौ खड्गं निर्मलाकाशसंनिभम् ।तस्य चिच्छेद भल्लेन निस्त्रिंशं प्रवरस्तदा ॥७२॥त्सरुदेशेऽपातयच्च प्रवरः प्रहसन्निव ।व्यधमच्च तथा चर्म शितैर्बाणैरजिह्मगैः ॥७३॥आजघान च शक्त्यैनं हृदि विप्रो ननाद च ।तं विक्लवमिव ज्ञात्वा पारिजातजिहीर्षया ।तार्क्ष्याभ्याशे रथेनैव स तस्थौ प्रवरस्तदा ॥७४॥तं पक्षपुटवेगेन चिक्षेप गरुडस्तथा ।गव्यूतिमेकां सरथः स पपात मुमोह च ॥७५॥तं जयन्तो निपत्याथ पतितं ब्राह्मणं नृप ।समाश्वास्य रथं शीघ्रं समारोपितवांस्तदा ॥७६॥शैनेयमपि मुह्यन्तं पतन्तं च मुहुर्मुहुः ।आश्वासयानः प्रद्युम्नः पितृव्यं परिषस्वजे ॥७७॥तं हि पस्पर्श हस्तेन सव्येन मधुसूदनः ।विरुजः स्पर्शमात्रेण सात्यकिः समपद्यत ॥७८॥प्रद्युम्नो दक्षिणे पार्श्वे वामे तु शिनिपुङ्गवः ।तस्थतुः पारिजातस्य युद्धशौण्डतरावुभौ ॥७९॥जयन्तः प्रवरश्चैव रथेनैकेन भारत ।सम्पतन्तौ महेन्द्रेण प्रहस्योक्तौ महात्मना ॥८०॥नासन्नमभिगन्तव्यं गरुडस्य कथंचन ।बलवानेष पततां राजा च विनतासुतः ॥८१॥दक्षिणे चैव सव्ये च पार्श्वे मम धृतायुधौ ।उभौ स्थितौ युद्ध्यमानं मामेव हि प्रपश्यतम् ॥८२॥एवमुक्तौ स्थितौ वीरौ ततः शक्रस्य पार्श्वयोः ।ददृशाते युद्धद्यमानौ देवराजजनार्दनौ ॥८३॥अथेन्द्रो गरुडं बाणैर्महाशनिसमस्वनैः ।विव्याध सर्वगात्रेषु महास्त्रप्रवरैस्तथा ॥८४॥स तान् बाणानगणयन् वैनतेयः प्रतापवान् ।ससाराभिमुखो वीरः शक्रनागमरिंदमः ॥८५॥उभौ तौ सहसा राजन् बलिनौ गजपक्षिणौ ।प्रयुद्धौ वीर्यसम्पन्नौ महाप्राणौ दुरासदौ ॥८६॥रदनैः पन्नगरिपुं करेण शिरसा तदा ।ऐरावतो गजपतिराजघान नदंस्तथा ॥८७॥तथा नखाङ्कुशैस्तीक्ष्णैर्वैनतेयो बलोत्कटः ।तथा पक्षनिपातैश्च शक्रनागं जघान ह ॥८८॥मुहू्र्तं सुमहानासीत् सम्पातो गजपक्षिणोः ।विस्मापनीयो जगतः प्रेक्षितॄणां भयावहः ॥८९॥मूर्ध्न्यथैरावतं तार्क्ष्यस्ताडयामास भारत ।नखाङ्कुशकरालेन चरणेन महाबलः ॥९०॥सम्प्रहाराभिसंतप्तो निपपात त्रिविष्टपात् ।पारियात्रे गिरिश्रेष्ठे द्वीपेऽस्मिञ्जनमेजय ॥९१॥पतन्तमपि तं शक्रो न मुमोच महाबलः ।कारुण्यादथ सौहार्दात् पूर्वाभ्युपगमादपि ॥९२॥कृष्णोऽप्यन्वगमच्चैनं पृष्ठतः प्रभवोऽव्ययः ।पारिजातवता धीमान् गरुडेन महाबलः ॥९३॥स तस्थौ पर्वतश्रेष्ठे पारियात्रे तु वृत्रहा ।ऐरावते समाश्वस्ते संग्रामो ववृधे पुनः ॥९४॥शरैराशीविषप्रख्यै रत्नयुक्तैः सुतेजितैः ।अन्योन्यं कुरुशार्दूल शक्रकेशवयोर्महान् ॥९५॥ततो वज्रायुधो वज्रमशनिं च पुनः पुनः ।मुमोच गरुडे राजन्नैरावतरिपौ नृप ॥९६॥वज्राशनिनिपातांस्तान् सेहे शक्रस्य पक्षिराट् ।अवध्यो बलिनां श्रेष्ठो निसर्गेण तपोबलात् ॥९७॥मुमोच पक्षमेकैकं मानयन्नशनिं सदा ।वज्रं च देवराज्ञोऽथ भ्रातुः कश्यपसम्भवः ॥९८॥आक्रम्यमाणस्तार्क्ष्येण न्यमज्जन्नृपते गिरिः ।विवेश धरणीं राजञ्च्छीर्यमाणः समन्ततः ॥९९॥चुकूज बहुमानेन कृष्णस्य स तु पर्वतः ।तं चाद्राक्षीत्ततः कृष्णः किंचिच्छेषमधोक्षजः ॥१००॥तं मुक्त्वा गरुडेनाथ तस्थौ देवो विहायसि ।प्रद्युम्नं च तदोवाच सर्वकृल्लोकभावनः ॥१०१॥इतो द्वारवतीं गत्वा रथमानय मा चिरम् ।सदारुकं महाबाहो मत्तेजोबलमाश्रितः ॥१०२॥वक्तव्यो बलभद्रश्च राजा च कुकुराधिपः ।श्वो जित्वेन्द्रं त्वागमिष्ये द्वारकामिति मानद ॥१०३॥तथेत्युक्त्वा तु धर्मात्मा प्रद्युम्नः पितरं विभुः ।गत्वा यथोक्तमुक्त्वा च यादवेन्द्रबलावुभौ ॥१०४॥नाडिकान्तरमात्रेण पुनस्तं देशमाययौ ।दारुकेण समायुक्तं रथमास्थाय भारत ॥१०५॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे श्रीकृष्णेन्द्रयुद्धे त्रिसप्ततितमोऽध्यायः ॥७३॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP