संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| दशमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - दशमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण दशमोऽध्यायः Translation - भाषांतर वर्षाऋतुवर्णनम्वैशम्पायन उवाचतौ तु वृन्दावनं प्राप्तौ वसुदेवसुतावुभौ ।चेरतुर्वत्सयूथानि चारयन्तौ सुरूपिणौ ॥१॥पूर्णस्तु घर्मसमयस्तयोस्तत्र वने सुखम् ।क्रीडतोः सह गोपालैर्यमुनां चावगाहतोः ॥२॥ततः प्रावृडनुप्राप्ता मनसः कामदीपिनी ।प्रववर्षुर्महामेघाः शक्रचापाङ्कितोदराः ॥३॥बभूवादर्शनः सूर्यो भूमिश्चादर्शना तृणैः ।पतता मेघवातेन नवतोयानुकर्षिणा ॥४॥सम्मार्जिततला भूमिर्यौवनस्थेव लक्ष्यते ॥५॥नववर्षावसिक्तानि शक्रगोपकुलानि च ।नष्टदावाग्निधूमानि वनानि प्रचकाशिरे ॥६॥नृत्यव्यापारकालश्च मयूराणां कलापिनाम् ।मदरक्ताः प्रवृत्ताश्च केकाः पटुरवास्तथा ॥७॥नवप्रावृषि कान्तानां षट्पदाहारदायिनाम् ।यौवनस्थकदम्बानां नवाभ्रैर्भ्राजते वपुः ॥८॥हासितं कुटजैर्वृक्षैः कदम्बैर्वासितं वनम् ।नाशितं जलदैरुष्णं तोषिता वसुधा जलैः ॥९॥संतप्ता भास्करकरैरभितप्ता दवाग्निभिः ।जलैर्बलाहकोत्सृष्टैरुच्छ्वसन्तीव पर्वताः ॥१०॥महावातसमुद्भूतं महामेघगणार्पितम् ।महीमहाराजपुरैस्तुल्यमापद्यते नभः ॥११॥क्वचित्कदम्बहासाख्यं शिलीन्ध्राभरणं क्वचित् ।सम्प्रदीप्तमिवाभाति फुल्लनीपद्रुमं वनम् ॥१२॥ऐन्द्रेण पयसा सिक्तं मारुतेन च विस्मृतम् ।पार्थिवं गन्धमाघ्राय लोकः क्षुभितमानसः ॥१३॥दृप्तसारङ्गनादेन दर्दुरव्याहृतेन च ।नवैश्च शिखिविक्रुष्टैरवकीर्णा वसुन्धरा ॥१४॥भ्रमत्तूर्णमहावर्ता वर्षप्राप्तमहारयाः ।हरन्त्यस्तीरजान् वृक्षान्विस्तारं यान्ति निम्नगाः ॥१५॥संततासारनिर्यत्नाः क्लिन्नयत्नोत्तरच्छदाः ।न त्यजन्ति नगाग्राणि श्रान्ता इव पतत्त्रिणः ॥१६॥तोयगम्भीरलम्बेषु स्रवत्सु च नदत्सु च ।उदरेषु नवाभ्राणां मज्जतीव दिवाकरः ॥१७॥महीरुहैरुत्पतितैः सलिलोत्पीडसंकुला ।अन्विष्यमार्गा वसुधा भाति शाद्वलमालिनी ॥१८॥वज्रेणेवावरुग्णानां नगानां नगशालिनाम् ।स्रोतोभिः परिकृत्तानि पतन्ति शिखराण्यधः ॥१९॥पतता मेघवर्षेण यथा निम्नानुसारिणा ।पल्वलोत्कीर्णमुक्तेन पूर्यन्ते वनराजयः ॥२०॥हस्तोच्छ्रितमुखा वन्या मेघनादानुसारिणः ।भ्रान्तातिवृष्ट्या मातङ्गा गां गता इव तोयदाः ॥२१॥प्रावृट्प्रवृत्तिं संदृश्य दृष्ट्वा चाम्बुधरान् घनान् ।रौहिणेयो मिथः काले कृष्णं वचनमब्रवीत् ॥२२॥पश्य कृष्ण घनान् कृष्णान् बलाकोज्ज्वलभूषणान् ।गगने तव गात्रस्य वर्णचोरान् समुच्छ्रितान् ॥२३॥तव निद्राकरः कालस्तव गात्रोपमं नभः ।त्वमिवाज्ञातवसतिं चन्द्रो वसति वार्षिकीम् ॥२४॥एतन्नीलाम्बुदश्यामं नीलोत्पदलप्रभम् ।सम्प्राप्ते दुर्दिने काले दुर्दिनं भाति वै नभः ॥२५॥पश्य कृष्ण जलोदग्रैः कृष्णैरुद्ग्रथितैर्घनैः ।गोवर्धनो यथा रम्यो भाति गोवर्धनो गिरिः ॥२६॥पतितेनाम्भसा ह्येते समन्तान्मददर्पिताः ।भ्राजन्ते कृष्णसारङ्गाः काननेषु मुदान्विताः ॥२७॥एतान्यम्बुप्रहृष्टानि हरितानि मृदूनि च ।तृणानि शतपत्राक्ष पत्रैर्गूहन्ति मेदिनीम् ॥२८॥क्षरज्जलानां शैलानां वनानां जलदागमे ।ससस्यानां च सीमानां न लक्ष्मीर्व्यतिरिच्यते ॥२९॥शीघ्रवातसमुद्भूताः प्रोषितौत्सुक्यकारिणः ।दामोदरोद्दामरवाः प्रागल्भ्यं यान्ति तोयदाः ॥३०॥हरे हर्यश्वचापेन त्रिवर्णेन त्रिविक्रम ।विबाणज्येन रचितं तवेदं मध्यमं पदम् ॥३१॥नभस्येष नभश्चक्षुर्न भात्येव चरन्नभः ।मेघैः शीतातपकरो विरश्मिरिव रश्मिवान् ॥३२॥द्यावापृथिव्योः संसर्गः सततं विततैः कृतः ।अव्यवच्छिन्नधारौघैः समुद्रौघसमैर्घनैः ॥३३॥नीपार्जुनकदम्बानां पृथिव्यां चातिवृष्टिभिः ।गन्धैः कोलाहला वान्ति वाता मदनदीपनाः ॥३४॥सम्प्रवृत्तमहावर्षं लम्बमानमहाम्बुदम् ।भात्यगाधमपर्यन्तं ससागरमिवाम्बरम् ॥३५॥धारानिर्मलनाराचं विद्युत्कवचवर्मिणम् ।शक्रचापायुधधरं युद्धसज्जमिवाम्बरम् ॥३६॥शैलानां च वनानां च द्रुमाणां च वरानन ।प्रतिच्छन्नानि भासन्ते शिखराणि घनैर्घनैः ॥३७॥गजानीकैरिवाकीर्णं सलिलोद्गारिभिर्घनैः ।वर्णसारूप्यतां याति गगनं सागरस्य च ॥३८॥समुद्रोद्धूतजनिता लोलशाद्वलकम्पिनः ।शीताः सपृषतोद्दामाः कर्कशा वान्ति मारुताः ॥३९॥निशासु सुप्तचन्द्रासु मुक्ततोयासु तोयदैः ।मग्नसूर्यस्य नभसो न विभान्ति दिशो दश ॥४०॥चेतनं पुष्करं कोशैः क्षुधाध्मातैः समन्ततः ।न घृणीनां न रम्याणां विवेकं यान्ति कृष्टयः ॥४१॥घर्मदोषपरित्यक्तं मेघतोयविभूषितम् ।पश्य वृन्दावनं कृष्ण वनं चैत्ररथं यथा ॥४२॥एवं प्रावृड्गुणान् सर्वाञ्छ्रीमान् कृष्णस्य पूर्वजः ।कथयन्नेव बलवान् व्रजमेव जगाम ह ॥४३॥अन्योन्यं रममाणौ तु कृष्णसंकर्षणावुभौ ।तत्कालज्ञातिभिः सार्द्धं चेरतुस्तद् वनं महत् ॥४४॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि प्रावृड्वर्णने दशमोऽध्यायः ॥१०॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP