संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| त्रिंशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - त्रिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण त्रिंशोऽध्यायः Translation - भाषांतर रङ्गशालायां मल्लयुद्धविषये श्रीकृष्णस्य विचारः, श्रीकृष्णबलदेवाभ्यां चाणूरमुष्टिकादीनां वधं, कंसस्य संहारः, पितृमातृभ्यां चरणेषु प्रणामयित्वा भ्रातृद्वयोः तेषां गृहगमनम्वैशम्पायन उवाचप्रविशन्तं तु वेगेन मारुतावल्गिताम्बरम् ।पूर्वजं पुरतः कृत्वा कृष्णं कमललोचनम् ॥१॥गजदन्तकृतोल्लेखं सुभुजं देवकीसुतम् ।लीलाकृताङ्गदं वीरं मदेन रुधिरेण च ॥२॥वल्गमानं यथा सिंहं व्यूहमानं यथा घनम् ।बहुशब्दप्रहारेण चालयन्तं वसुंधराम् ॥३॥औग्रसेनिः समालोक्य दन्तिदन्तोद्यतायुधम् ।कृष्णं भृशायस्तमुखः सरोषं समुदैक्षत ॥४॥भुजासक्तेन शुशुभे गजदन्तेन केशवः ।चन्द्रार्धबिम्बसंसक्तो यथैकशिखरो गिरिः ॥५॥वल्गमाने तु गोविन्दे स कृत्स्नो रङ्गसागरः ।जनौघप्रतिनादेन पूर्यमाण इवाबभौ ॥६॥ततः क्रोधाभिताम्राक्षः कंसः परमकोपनः ।चाणूरमादिशद् युद्धे कृष्णस्य सुमहाबलम् ॥७॥अन्ध्रं मल्लं च निकृतिं मुष्टिकं च महाबलम् ।बलदेवाय सक्रोधो दिदेशाद्रिचयोपमम् ॥८॥कंसेनापि समाज्ञप्तश्चाणूरः पूर्वमेव तु ।योद्धव्यं सह कृष्णेन त्वया यत्नवतेति वै ॥९॥स रोषेण तु चाणूरः कषायीकृतलोचनः ।अभ्यावर्तत युद्धार्थमपां पूर्णो यथा घनः ॥१०॥अवघुष्टे समाजे, तु निश्शब्दस्तिमिते जने ।यादवाः सहितास्तत्र इदं वचनमब्रुवन् ॥११॥बाहुयुद्धमिदं रंगे सप्राश्निकमकातरम् ।क्रियाबलसमाज्ञातमशस्त्रं निर्मितं पुरा ॥१२॥अद्भिश्चातिश्रमो नित्यं विनेयः कालदर्शिभिः ।करीषेण च मल्लस्य सततं सत्क्रिया स्मृता ॥१३॥स्थितो भूमिगतेनैव यो यथा मार्गतः स्थितः ।संयुज्यतश्च पर्यायः प्राश्निकैः समुदाहृतः ॥१४॥बालो वा यदि वा वृद्धो मध्यो वापि कृशोऽपि वा ।बलस्थो वा स्थितो रंगे ज्ञेयः कक्षान्तरेण वै ॥१५॥बलतश्च क्रियाश्च बाहुयुद्धविधिर्युधि ।निपातानन्तरं किंचिन्न कर्तव्यं विजानता ॥१६॥तदिदं प्रस्तुतं रंगे युद्धं कृष्णान्ध्रमल्लयोः ।बालः कृष्णो महानन्ध्रः कथं न स्याद् विचारणा ॥१७॥ततः किलकिलाशब्दः समाजे समवर्तत ।प्रावल्गत च गोविन्दो वाक्यं चेदमुवाच ह ॥१८॥अहं बालो महानन्ध्रो वपुषा पर्वतोपमः ।युद्धं ममानेन सह रोचते बाहुशालिना ॥१९॥युद्धव्यतिक्रमः कश्चिन्न भविष्यति मत्कृतः ।न ह्यहं बाहुयोधानां दूषयिष्यामि यन्मतम् ॥२०॥योऽयं करीषधर्मश्च तोयधर्मश्च रंगजः ।कषायस्य च संसर्गः समयो ह्येष कल्पितः ॥२१॥संयमः स्थिरता शौर्यं व्यायामः सत्क्रिया बलम् ।रंगे च नियता सिद्धिरेतद् युद्धविदां मतम् ॥२२॥अवैरमेवं यदयं सवैरं कर्तुमुद्यतः ।अत्र वै निग्रहः कार्यस्तोषयिष्याम्यहं जगत् ॥२३॥करूषेषु प्रसूतोऽयं चाणूरो नाम नामतः ।बाहुयोधी शरीरेण कर्मभिश्चात्र चिन्त्यताम् ॥२४॥एतेन बहवो मल्ला निपातानन्तरं हताः ।रङ्गप्रतापकामेन मल्लमार्गश्च दूषितः ॥२५॥शस्त्रसिद्धिस्तु योधानां संग्रामे शस्त्रयोधिनाम् ।रङ्गसिद्धिस्तु मल्लानां प्रतिमल्लनिपातजा ॥२६॥रणे वि जयमानस्य कीर्तिर्भवति शाश्वती ।हतस्यापि रणे शस्त्रैर्नाकपृष्ठं विधीयते ॥२७॥रणे उभयतः सिद्धिर्हतस्येह घ्नतोऽपि वा ।सा हि प्राणान्तिकीयात्रा महद्भिः साधुपूजिता ॥२८॥अयं तु मार्गो बलतः क्रियातश्च विनिःसृतः ।मृतस्य रङ्गे क्व स्वर्गो जयते वा कुतो रतिः ॥२९॥ये तु केचित् स्वदोषेण राज्ञः पण्डितमानिनः ।प्रतापार्थे हता मल्ला मल्लहन्तुर्वधो हि सः ॥३०॥एवं संजल्पतस्तस्य ताभ्यां युद्धं सुदारुणम् ।उभाभ्यामभवद् घोरं वारणाभ्यां यथा वने ॥३१॥कृतप्रतिकृतैश्चित्रैर्बाहुभिश्च सकण्टकैः ।सन्निपातावधूतैश्च प्रमाथोन्मथनैस्तथा ॥३२॥तावुभावपि संश्लिष्टौ यथा शैलमयौ तथा ।क्षेपणैर्मुष्टिभिश्चैव वराहोद्धूतनिःस्वनैः ॥३३॥कीलैर्वज्रनिपातैश्च प्रसृष्टाभिस्तथैव च ।शलाकानखपातैश्च पादोद्धूतैश्च दारुणैः ॥३४॥जानुभिश्चाश्मनिर्घोषैः शिरोभ्यां चावघट्टितैः ।तद् युद्धमभवद् घोरमशस्त्रं बाहुतेजसा ॥३५॥बलप्राणेन शूराणां समाजोत्सवसंनिधौ ।अरज्यत जनः सर्वः सोत्कृष्टनिनदोत्थितः ॥३६॥साधुवादांश्च मञ्चेषु घोषयन्त्यपरे जनाः ।ततः प्रस्विन्नवदनः कृष्णप्रणिहितेक्षणः ।न्यवारयत तूर्याणि कंसः सव्येन पाणिना ॥३७॥प्रतिषिद्धेषु तूर्येषु मृदङ्गादिषु तेषु वै ।खे संगतान्यवाद्यन्त देवतूर्याण्यनेकशः ॥३८॥युद्ध्यमाने हृषीकेशे पुण्डरीकनिभेक्षणे ।स्वयमेव प्रवाद्यन्त तूर्यघोषास्तु सर्वशः ॥३९॥अन्तर्धानगता देवा विमानैः कामरूपिभिः ।चेरुर्विद्याधरैः सार्द्धं कृष्णस्य जयकाङ्क्षिणः ॥४०॥जयस्व कृष्ण चाणूरं दानवं मल्लरूपिणम् ।इति सप्तर्षयः सर्वे ऊचुश्चैव नभोगताः ॥४१॥चाणूरेण चिरं कालं क्रीडित्वा देवकीसुतः ।बलमाहारयामास कंसस्याभावदर्शिवान् ॥४२॥ततश्चचाल वसुधा मञ्चाश्चैव जुघूर्णिरे ।मुकुटाच्चापि कंसस्य पपात मणिरुत्तमः ॥४३॥दोर्भ्यामानम्य कृष्णस्तु चाणूरं शीर्णजीवितम् ।प्राहरन्मुष्टिना मूर्ध्नि वक्षस्याहत्य जानुना ॥४४॥निःसृते साश्रुरुधिरे तस्य नेत्रे सबन्धने ।तापनीये यथा घण्टे कक्षोपरि विलम्बिते ॥४५॥पपात स तु रङ्गस्य मध्ये निःसृतलोचनः ।चाणूरो विगतप्राणो जीवितान्ते महीतले ॥४६॥देहेन तस्य मल्लस्य चाणूरस्य गतायुषः ।संनिरुद्धो महारङ्गः स शैलेनेव लक्ष्यते ॥४७॥रौहिणेयो हते तस्मिंश्चाणूरे बलदर्पिते ।जग्राह मुष्टिकं रंगे कृष्णस्तोशलकं पुनः ॥४८॥सन्निपाते तु तौ मल्लौ प्रथमे क्रोधमूर्च्छितौ ।समेयातां रामकृष्णौ कालस्य वशवर्तिनौ ।निर्घातावनतौ भूत्वा रङ्गमध्ये ववल्गतुः ॥४९॥कृष्णस्तोशलमुद्यम्य गिरिशृङ्गोपमं बली ।भ्रामयित्वा शतगुणं निष्पिपेष महीतले ॥५०॥तस्य कृष्णाभिपन्नस्य पीडितस्य बलीयसः ।मुखाद् रुधिरमत्यर्थमुज्जगाम मुमूर्षतः ॥५१॥संकर्षणस्तु सुचिरं योधयित्वा महाबलः ।अन्ध्रमल्लं महामल्लो मण्डलानि व्यदर्शयत् ॥५२॥मुष्टिनैकेन तेजस्वी साशनिस्तनयित्नुना ।शिरस्यभ्यहनद् वीरो वज्रेणेव महागिरिम् ॥५३॥स निष्पतितमस्तिष्को विस्रस्तनयनो भुवि ।पपात निहतस्तेन ततो नादो महानभूत् ॥५४॥अन्ध्रतोशलकौ हत्वा कृष्णसंकर्षणावुभौ ।क्रोधसंरक्तनयनौ रंगमध्ये ववल्गतुः ॥५५॥समाजवाटो निर्मल्लः सोऽभवद् भीमदर्शनः ।अन्ध्रे तदा महामल्ले मुष्टिके च निपातिते ॥५६॥ये च सम्प्रेक्षका गोपा नन्दगोपपुरोगमाः ।भयक्षोभितसर्वाङ्गाः सर्वे तत्रावतस्थिरे ॥५७॥हर्षजं वारि नेत्राभ्यां वर्षमाणा प्रवेपती ।प्रस्रवोत्पीडिता कृष्णं देवकी समुदैक्षत ॥५८॥कृष्णदर्शनजातेन बाष्पेणाकुलितेक्षणः ।वसुदेवो जरां त्यक्त्वा स्नेहेन तरुणायते ॥५९॥वारमुख्याश्च ताः सर्वाः कृष्णस्य मुखपङ्कजम् ।पपुर्हि नेत्रभ्रमरैर्निमेषान्तरगामिभिः ॥ ६०॥कंसस्याथ मुखे स्वेदो भ्रूभेदान्तरगोचरः ।अभवद् रोषनिर्यासः कृष्णसंदर्शनेरितः ॥६१॥केशवाय सधूमेन रोषनिश्वासवायुना ।दीप्तमन्तर्गतं तस्य हृदयं मानसाग्निना ॥६२॥तस्य प्रस्फुरितौष्ठस्य स्विन्नालिकतलस्य वै ।कंसवक्त्रस्य रोषेण रक्तसूर्यायते वपुः ॥६३॥क्रोधरक्तान्मुखात्तस्य निःसृताः स्वेदबिन्दवः ।यथा रविकरस्पृष्टा वृक्षावश्यायबिन्दवः ॥६४॥सोऽज्ञापयत संक्रुद्धः पुरुषान्व्यायतान्बहून् ।गोपावेतौ समाजौघान्निष्क्राम्येतां वनेचरौ ॥६५॥न चैतौ द्रष्टुमिच्छामि विकृतौ पापदर्शनौ ।गोपानामपि मे राज्ये न कश्चित्स्थातुमर्हति ॥६६॥नन्दगोपश्च दुर्मेधाः पापेष्वभिरतो मम ।आयसैर्निगडाकारैर्लोहपाशैनिगृह्यताम् ॥६७॥वसुदेवश्च दुर्वृत्तो नित्यं द्वेषकरो मम ।अवृद्धार्हेण दण्डेन क्षिप्रमद्यैव शास्यताम् ॥६८॥ये चेमे प्राकृता गोपा दामोदरपरायणाः ।ह्रियन्तां गाव एतेषां यच्चास्ति वसु किंचन ॥६९॥एवमाज्ञापयानं तं कंसं परुषभाषिणम् ।ददर्शायस्तनयनः कृष्णः सत्यपराक्रमः ॥७०॥क्षिप्ते पितरि चुक्रोध नन्दगोपे च केशवः ।ज्ञातीनां च व्यथां दृष्ट्वा विसंज्ञां चैव देवकीम् ॥७१॥स सिंह इव वेगेन केशवो जातविक्रमः ।आरुरुक्षुर्महाबाहुः कंसनाशार्थमच्पुतः ॥७२॥रङ्गमध्यादुत्पपात कृष्णः कंसासनान्तिकम् ।असज्जद्वायुनाऽऽक्षिप्तो यथा खस्थो घनाघनः ॥७३॥ददृशुर्न हि तं सर्वे रङ्गमध्यादवप्लुतम् ।केवलं कंसपार्श्वस्थं ददृशुः पुरवासिनः ॥७४॥सोऽपि कंसस्तथाऽऽयस्तः परीतः कालधर्मणा ।आकाशादिव गोविन्दं मेने तत्रागतं प्रभुम् ॥७५॥स कृष्णेनायतं कृत्वा बाहुं परिघसंनिभम् ।मूर्धजेषु परामृष्टः कंसो वै रङ्गसंसदि ॥७६॥मुकुटश्चापतत् तस्य काञ्चनो वज्रभूषितः ।शिरसस्तस्य कृष्णेन परामृष्टस्य पाणिना ॥७७॥स ग्रहग्रस्तकेशश्च कंसो निर्यत्नतां गतः ।तथैव च विसम्मूढो वैकल्यं समपद्यत ॥७८॥निगृहीतश्च केशेषु गतासुरिव निःश्वसन् ।न शशाक मुखं द्रष्टुं कंसः कृष्णस्य वै तदा ॥७९॥विकुण्डलाभ्यां कर्णाभ्यां छिन्नहारेण वक्षसा ।प्रलम्बाभ्यां च बाहुभ्यां गात्रैविसृतभूषणैः ॥८०॥भ्रंशितेनोत्तरीयेण सहसावलिताननः ।चेष्टमानः समाक्षिप्तः कंसः कार्ष्णेन तेजसा ॥८१॥चकर्ष च महारङ्गे मञ्चान्निष्क्रम्य केशवः ।केशेषु तं बलाद् गृह्य कंसं क्लेशार्हतां गतम ॥८२॥कृष्यमाणः स कृष्णेन भोजराजो महाद्युतिः ।समाजवाटे परिखां देहकृष्टां चकार ह ॥८३॥समाजवाटे क्रीडित्वा विकृष्य च गतायुषम् ।कृष्णो विसर्जयामास कंसदेहमदूरतः ॥८४॥धरण्यां मृदितः शिश्ये तव देहः सुखोचितः ।क्रमेण विपरीतेन पांसुभिः परुषीकृतः ॥८५॥तस्य तद् वदनं श्यामं सुप्ताक्षं मुकुटं विना ।न विभाति विपर्यस्तं विपलाशं यथाम्बुजम् ॥८६॥असंग्रामहतः कंसः स बाणैरपरिक्षतः ।केशग्राहान्निरस्तासुर्वीरमार्गान्निराकृतः ॥८७॥तस्य देहे प्रकाशन्ते सहसा केशवार्पिताः ।मांसच्छेदघनाः सर्वे नखाग्रा जीवितच्छिदः ॥८८॥तं हत्वा पुण्डरीकाक्षः प्रहर्षाद् द्विगुणप्रभः ।ववन्दे वसुदेवस्य पादौ निहतकण्टकः ॥८९॥मातुश्च शिरसा पादौ निपीड्य यदुनन्दनः ।सासिञ्चत् प्रस्रवोत्पीडैः कृष्णमानन्दनिःसृतैः ॥९०॥यादवांश्चैव तान् सर्वान् यथास्थानं यथावयः ।पप्रच्छ कुशलं कृष्णो दीप्यमानः स्वतेजसा ॥९१॥बलदेवोऽपि धर्मात्मा कंसभ्रातरमूर्जितम् ।बाहुभ्यामेव तरसा सुनामानमपोथयत् ॥९२॥तौ जितारी जितक्रोधौ चिरविप्रोषितौ व्रजे ।स्थपितुर्भवनं वीरौ जग्मतुर्हृष्टमानसौ ॥९३॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि कंसवधे त्रिंशोऽध्यायः॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP