संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| षट्चत्वारिंशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - षट्चत्वारिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण षट्चत्वारिंशोऽध्यायः Translation - भाषांतर बलरामस्य व्रजयात्रा, तेन यमुनायाः कर्षणम्वैशम्पायन उवाचकस्यचित् त्वथ कालस्य स्मृत्वा गोपेषु सौहृदम् ।जगामैको व्रजं रामः कृष्णस्यानुमते स्थितः ॥१॥स गतस्तत्र रम्याणि ददर्श विपुलानि वै ।भुक्तपूर्वाण्यरण्यानि सरांसि सुरभीणि च ॥२॥स प्रविष्टस्तु वेगेन तं व्रजं कृष्णपूर्वजः ।वन्येन रमणीयेन वेषेणालंकृतः प्रभुः ॥३॥स तानभाषत प्रीत्या यथापूर्वमरिंदमः ।गोपांस्तेनैव विधिना यथान्यायं यथावयः ॥४॥तथैव प्राह तान सर्वांस्तथैव परिहर्षयन् ।तथैव सह गोपीभिर्योजयन्मधुराः कथाः ॥५॥तमूचुः स्थविरा गोपाः प्रियं मधुरभाषिणः ।रामं रमयतां श्रेष्ठं प्रवासात् पुनरागतम् ॥६॥स्वागतं ते महाबाहो यदूनां कुलनन्दन ।अद्य स्म निर्वृतास्तात यत् त्वां पश्यामहे वयम् ॥७॥प्रीताश्चैव वयं वीर यत् त्वं पुनरिहागतः ।विख्यातस्त्रिषु लोकेषु रामः शत्रुभयंकरः ॥८॥वर्धनीया वयं वीर त्वया यादवनन्दन ।अथवा प्राणिनस्तात रमन्ते जन्मभूमिषु ॥९॥त्रिदशानां वयं मान्या ध्रुवमद्यामलानन ।ये स्म दृष्टास्त्वया तात काङ्क्षमाणास्तवागमम् ॥१०॥दिष्ट्या ते निहता मल्लाः कंसश्च विनिपातितः ।उग्रसेनोऽभिषिक्तश्च माहात्म्येन जनेन वै ॥११॥समुद्रे च श्रुतोऽस्माभिस्तिमिना सह विग्रहः ।वधः पञ्चजनस्यैव जरासंधेन विग्रहः ।गोमन्ते च श्रुतोऽस्माभिः क्षत्रियैः सह विग्रहः ॥१२॥दरदस्य वधश्चैव जरासंधपराजयः ।तत्रायुधावतरणं श्रुत नः परमाहवे ॥१३॥वधश्चैव शृगालस्य करवीरपुरोत्तमे ।तत्सुतस्याभिषेकश्च नागराणां च सान्त्वनम् ॥१४॥मथुरायां प्रवेशश्च कीर्तनीयः सुरोत्तमैः ।प्रतिष्ठिता च वसुधा पार्थिवाश्च वशीकृताः ॥१५॥तव चागमनं दृष्ट्वा सभाग्याः स्म यथा पुरा ।तेन स्म परितुष्टा वै हृषिताश्च सबान्धवाः ॥१६॥प्रत्युवाच ततो रामः सर्वांस्तानभितः स्थितान् ।यादवेष्वपि सर्वेषु भवन्तो मम बान्धवाः ॥१७॥इहावयोर्गतं बाल्यमिह चैवावयो रतम् ।भवद्भिर्वर्द्धिताश्चैव यास्यामो विक्रियां कथम् ॥१८॥गृहेषु भवतां भुक्तं गावश्च परिरक्षिताः ।अस्माकं बान्धवाः सर्वे भवन्तो बद्धसौहृदाः ॥१९॥ब्रुवत्येवं यथातत्त्वं गोपमध्ये हलायुधे ।संहृष्टवदना भूयो बभूबुर्व्रजयोषितः ॥२०॥ततो वनान्तरगतो रेमे रामो महाबलः ।एतस्मिन्नन्तरे प्राप्ते रामाय विदितात्मने ॥२१॥गोपालैर्देशकालज्ञैरुपानीयत वारुणी ।सोऽपिबत् पाण्डुराभ्राभस्तत्कालं ज्ञातिभिर्वृतः ॥२२॥वनान्तरगतो रामः पानं मदसमीरणम् ।उपनिन्युस्ततस्तस्मै वन्यानि विविधानि च ॥२३॥प्रत्यग्ररमणीयानि पुष्पाणि च फलानि च ।मेध्यांश्च विविधान् गन्धान् भक्ष्यांश्च हृदयंगमान् ।सद्यो हृतानि पद्मानि विकचान्युत्पलानि च ॥२४॥शिरसा चारुकेशैन किंचिदावृतमौलिना ।श्रवणैकावलम्बेन कुण्डलेन विराजता ॥२५॥चन्दनार्द्रेण पीतेन वनमालावलम्बिना ।विबभावुरसा रामः कैलासेनेव मन्दरः ॥२६॥नीले वसानो वसने प्रत्यग्रजलदप्रभे ।रराज वपुषा शुभ्रस्तिमिरौघे यथा शशी ॥२७॥लाङ्गलेनावसिक्तेन भुजगाभोगवर्तिना ।तथा भुजाग्रश्लिष्टेन मुसलेन च भास्वता ॥२८॥स मत्तो बलिनां श्रेष्ठो रराजाघूर्णिताननः ।शैशिरीषु त्रियामासु यथा स्वेदालसः शशी ॥२९॥रामस्तु यमुनामाह स्नातुमिच्छे महानदि ।एहि मामभिगच्छ त्वं रूपिणी सागरंगमे ॥३०॥संकर्षणस्य मत्तोक्तां भारतीं परिभूय सा ।नाभ्यवर्तत तं देशं स्त्रीस्वभावेन मोहिता ॥३१॥ततश्चुक्रोध बलवान् रामो मदसमीरितः ।चकार स हलं हस्ते कर्षणाधोमुखं बली ॥३२॥तस्यामुपरि मेदिन्यां पेतुस्तामरसस्रजः ।मुमुचुः पुष्पकोशैश्च वासरेण्वरुणं जलम् ॥३३॥स हलेनानताग्रेण कूले गृह्य महानदीम् ।चकर्ष यमुनां रामो न्युत्थितां वनितामिव ॥३४॥सा विह्वलजलस्रोता ह्रदप्रस्थितसंचया ।व्यावर्तत नदी भीता हलमार्गानुसारिणी ॥३५॥लाङ्गलादिष्टवर्त्मा सा वेगगा वक्रगामिनी ।संकर्षणभयत्रस्ता योषेवाकुलतां गता ॥३६॥पुलिनश्रोणिबिम्बौष्ठी मृदितैस्तोयताडितैः ।फेनमेखलसूत्रैश्च च्छिन्नैरम्बुदगामिनी ॥३७॥तरङ्गविषमापीडा चक्रवाकोन्मुखस्तनी ।वेगगम्भीरवक्राङ्गी त्रस्तमीनविभूषणा ॥३८॥सितहंसेक्षणापाङ्गी काशक्षौमोच्छ्रिताम्बरा ।तीरजोद्भूतकेशान्ता जलस्खलितगामिनी ॥३९॥लाङ्गलोल्लिखितापाङ्गी क्षुभिता सागरंगमा ।मत्तेव कुटिला नारी राजमार्गेण गच्छती ॥४०॥कृष्यते सातिवेगेन स्रोतःस्खलितगामिनी ।उन्मार्गानीतमार्गा सा येन वृन्दावनं वनम् ॥४१॥वृन्दावनस्य मध्येन सा नीता यमुना नदी ।रोरूयमाणेव खगैरन्विता तोयवासिभिः ॥४२॥सा यदा समतिक्रान्ता नदी वृन्दावनं वनम् ।तदा स्त्रीरूपिणी भूत्वा यमुना राममब्रवीत् ॥४३॥प्रसीद नाथ भीतास्मि प्रतिलोमेन कर्मणा ।विपरीतमिदं रूपं तोयं च मम जायते ॥४४॥असत्यहं नदीमध्ये रौहिणेय त्वया कृता ।कर्षणेन महाबाहो स्वमार्गव्यभिचारिणी ॥४५॥प्राप्तां मां सागरे पूर्वं सपत्न्यो वेगगर्विताः ।फेनहासैर्हसिष्यन्ति तोयव्यावृत्तगामिनीम् ॥४६॥प्रसादं कुरु मे वीर याचे त्वां कृष्णपूर्वज ।सुप्रसन्नमना नित्यं भव त्वं सुरसत्तम ॥४७॥कर्षणायुधकृष्टास्मि रोषोऽयं विनिवर्त्यताम् ।मूर्ध्ना गच्छामि चरणौ तवैषा लाङ्गलायुध ।मार्गमादिष्टमिच्छामि क्व गच्छामि महाभुज ॥४८॥वैशम्पायन उवाचप्रणयावनतां दृष्ट्वा यमुनां लाङ्गलायुधः ।प्रत्युवाचार्णववधूं मदक्लान्त इद वचः ॥४९॥लाङ्गलादिष्टमार्गा त्वमिमं मे प्रियदर्शने ।देशमम्बुप्रदानेन प्लावयस्वाखिलं शुभे ॥५०॥एष ते सुभ्रु संदेशः कथितः सागरंगमे ।शान्तिं व्रज महाभागे गम्यतां च यथासुखम् ॥५१॥यावत्स्थास्यति लोकोऽयं तावत्तिष्ठतु मे यशः ।यमुनाकर्षणं दृष्ट्वा सर्वे ते व्रजवासिनः ॥५२॥साधु साध्विति रामाय प्रणामं चक्रिरे तदा ।तां विसृज्य महाभागा तांश्च सर्वान् व्रजौकसः ॥५३॥ततः संचिन्त्य मनसा रामः प्रहरतां वरः ।पुनः प्रतिजगामाशु मथुरां रोहिणीसुतः ॥५४॥स गत्वा मथुरां रामो भवनं मधुसूदनम् ।परिवर्तमानं ददृशे पृथिव्याः सारमव्ययम् ॥५५॥तथैवाध्वन्यवेषेण सोपश्लिष्टो जनार्दनम् ।प्रत्यग्रवनमालेन वक्षसाभिविराजता ॥५६॥स दृष्ट्वा तूर्णमायान्तं रामं लाङ्गलधारिणम् ।सहसोत्थाय गोविन्दो ददावासनमुत्तमम् ॥५७॥उपविष्टं तदा रामं पप्रच्छ कुशलं व्रजे ।बान्धवेषु च सर्वेषु गोषु चैव जनार्दनः ॥५८॥प्रत्युवाच ततो रामो भ्रातरं साधुभाषिणम् ।सर्वत्र कुशलं कृष्ण येषां कुशलमिच्छसि ॥५९॥ततस्तयोर्विचित्रार्थाः पौराण्यश्चाभवन् कथाः ।वसुदेवाग्रतः पुण्या रामकेशवयोस्तदा ॥६०॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि यमुनाकर्षणे षट्चत्वारिंशोऽध्यायः ॥४६॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP