संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| द्वादशाधिकशततमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - द्वादशाधिकशततमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण द्वादशाधिकशततमोऽध्यायः Translation - भाषांतर ब्राह्मणबालकस्य रक्षणे अर्जुनस्य विफलता, ब्राह्मणेन अर्जुनस्य तिरस्कारं, तेषां श्रीकृष्णेन सह उत्तरां दिशायां गमनम्अर्जुन उवाचमुहूर्तेन वयं ग्रामं तं प्राप्य भरतर्षभ ।विश्रान्तवाहनाः सर्वे निवासायोपसंस्थिताः ॥१॥ततो ग्रामस्य मध्येऽहं निविष्टः कुरुनन्दन ।समन्ताद् वृष्णिसैन्येन महता परिवारितः ॥२॥ततः शकुनयो दीप्ता मृगाश्च क्रूरभाषिणः ।दीप्तायां दिशि वाशन्तो भयमावेदयन्ति मे ॥३॥संध्यारागो जपावर्णो भानुमांश्चैव निष्प्रभः ।पपात महती चोल्का पृथिवी चाप्यकम्पत ॥४॥तान्समीक्ष्य महोत्पातान् दारुणाँल्लोमहर्षणान् ।योगमाज्ञापयंस्तत्र जनस्योत्सुकचेतसः ॥५॥युयुधानपुरोगाश्च वृष्ण्यन्धकमहारथाः ।सर्वे युक्तरथाः सज्जाः स्वयं चाहं तथाभवम् ॥६ ॥।गतेऽर्धरात्रसमये ब्राह्मणो भयविक्लवः ।उपागम्य भयादस्मानिदं वचनमब्रवीत् ॥७॥कालोऽयं समनुप्राप्तो ब्राह्मण्याः प्रसवस्य मे ।तथा भवन्तस्तिष्ठन्तु न भवेद् वञ्चनं यथा ॥८॥मुहूर्तादेव चाश्रौषं कृपणं रुदितस्वनम् ।तस्य विप्रस्य भवने ह्रियतेऽह्रियतेति च ॥९॥अथाकाशे पुनर्वाचमश्रौषं बालकस्य वै ।ऊँहेति ह्रियमाणस्य न च पश्यामि राक्षसम् ॥१०॥ततोऽस्माभिस्तदा तात शरवर्षैः समन्ततः ।विष्टम्भिता दिशः सर्वा हृत एव स बालकः ॥११॥ब्राह्मणोऽऽर्तस्वरं कृत्वा हृते तस्मिन् कुमारके ।वाचः स परुषास्तीव्राः श्रावयामास मां तदा ॥१२॥वृष्णयो हतसंकल्पास्तथाहं नष्टचेतनः ।मामेवं हि विशेषेण ब्राह्मणः प्रत्यभाषत ॥१३॥रक्षिष्यामीति चोक्तं ते न च रक्षितवानसि ।शृणु वाक्यमिदं शेषं यत् त्वमर्हसि दुर्मते ॥१४॥वृथा त्वं स्पर्धसे नित्यं कृष्णेनामितबुद्धिना ।यदि स्यादिह गोविन्दो नैतदत्याहितं भवेत् ॥१५॥यथा चतुर्थं धर्मस्य रक्षिता लभते फलम् ।पापस्यापि तथा मूढ भागं प्राप्नोत्यरक्षिता ॥१६॥रक्षिष्यामीति चोक्तं ते न च शक्तोऽसि रक्षितुम् ।मोघं गाण्डीवमेतत्ते मोघं वीर्यं यशश्च ते ॥१७॥अकिञ्चिदुक्त्वा तं विप्रं ततोऽहं प्रस्थितस्तथा ।सह वृष्ण्यन्धकसुतैर्यत्र कृष्णो महाद्युतिः ॥१८॥ततो द्वारवतीं गत्वा दृष्ट्वा मधुनिघातिनम् ।व्रीडितः शोकसंतप्तो गोविन्देनोपलक्षितः ॥१९॥स तु मां व्रीडितं दृष्ट्वा विनिन्दन् कृष्णसंनिधौ ।मौढ्यं पश्यत मे योऽहं श्रद्दधे क्लीबकत्थनम् ॥२०॥तं प्रद्युम्नो नानिरुद्धो न रामो न च केशवः ।यत्र शक्ताः परित्रातुं कोऽन्यस्तदवनेश्वरः ॥२१॥धिगर्जुनं वृथावादं धिगात्मश्लाघिनो धनुः ।दैवोपसृष्टो यो मौर्ख्यादागच्छति च दुर्मतिः ॥२२॥एवं शपति विप्रर्षौ विद्यामास्थाय वैष्णवीम् ।ययौ संयमिनीं वीरो यत्रास्ते भगवान् यमः ॥२३॥विप्रापत्यमचक्षाणस्तत ऐन्द्रीमगात् पुरीम् ।आग्नेयीं नैर्ऋतीं सौम्यामुदीचीं वारुणीं तथा ॥२४ ।रसातलं नाकपृष्ठं धिष्ण्यान्यन्यान्युदायुधः ।ततोऽलब्ध्वा द्विजसुतमनिस्तीर्णप्रतिश्रवः ॥२५॥अग्निं विविक्षुः कृष्णेन प्रद्युम्नेन निषेधितः ।दर्शये द्विजसूनुं ते मावज्ञात्मानमात्मना ॥२६॥कीर्तिं त एते विपुलां स्थापयिष्यन्ति मानवाः ।इति सम्भाष्य मां स्नेहात् समाश्वास्य च माधवः ॥२७॥सान्त्ययित्वा तु तं विप्रमिदं वचनमब्रवीत् ।सुग्रीवं चैव शैब्यं च मेघपुष्पबलाहकौ ॥२८॥योजयाश्वानिति तदा दारुकं प्रत्यभाषत ।आरोप्य ब्राह्मणं कृष्णो ह्यवरोप्य च दारुकम् ॥२९॥मामुवाच ततः शौरिः सारथ्यं क्रियतामिति ।ततः समास्थाय रथं कृष्णोऽहं ब्राह्मणः स च ।प्रयाताः स्म दिशं सौम्यामुदीचीं कौरवर्षभ ॥३०॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि वासुदेवमाहात्म्ये श्रीकृष्णस्योदीचीगमने द्वादशाधिकशततमोऽध्यायः ॥११२॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP