संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| चत्वारिंशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - चत्वारिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण चत्वारिंशोऽध्यायः Translation - भाषांतर श्रीकृष्णस्य, बलरामस्य एवं परशुरामस्य गोमन्तपर्वतोपरि आरोहणम्, गोमन्तस्य शोभावर्णनम्, परशुरामस्य कृष्णं युद्धाय प्रोत्साहयित्वा तत्रतः प्रस्थानम्वैशम्पायन उवाचतत्तु धेन्वाः पयः पीत्वा बलर्द्पसमन्वितौ ।ततस्तौ रामसहितौ प्रस्थितौ यदुपुङ्गवौ ॥१॥गोमन्तं पर्वतं द्रष्टुं मत्तनागेन्द्रगामिनौ ।जामदग्न्यप्रदिष्टेन मार्गेण वदतां वरौ ॥२॥जामदग्न्यतृतीयास्ते त्रयस्त्रय इवाग्नयः ।शोभयन्ति स्म पन्थानं त्रिदिवं त्रिदशा इव ॥३॥ते चाध्वविधिना सर्वे ततो वै दिवसक्रमात् ।गोमन्तमचलं प्राप्ता मन्दरं त्रिदशा इव ॥४॥लताचारुविचित्रं च नानाद्रुमविभूषितम् ।नानागुरुपिनद्धाङ्गं चित्रं चित्रैर्मनोहरैः ॥५॥द्विरेफगणसंकीर्णं शिलासंकटपादपम् ।मत्तबर्हिणनिर्घोषैर्नादितं मेघनादिभिः ॥६॥गगनालग्नशिखरं जलदासक्तपादपम् ।मत्तद्विपविषाणाग्रैः परिघृष्टोपलाङ्कितम् ॥७॥कूजद्भिश्चाण्डजगणैः समन्तात् प्रतिनादितम् ।दरीप्रपाताम्बुरवैश्छन्नं शार्दूलतल्लजैः ॥८॥नीलाश्मचयसंघातैर्बहुवर्णं यथा घनम् ।धातुविस्रावदिग्धाङ्गं सानुप्रस्रवभूषितम् ॥९॥कीर्णं सुरगणैः कान्तैर्मैनाकमिव कामगम् ।उच्छ्रितं सुविशालाग्रं समूलाम्बुपरिस्रवम् ॥१०॥सकाननदरीप्रस्थं श्वेताभ्रगणभूषितम् ।पनसाम्रातकाम्रौघैर्वेत्रस्यन्दनचन्दनैः ॥११॥तमालैलावनयुतं मरीचक्षुपसंकुलम् ।पिप्पलीवल्लिकलिलं चित्रमिङ्गुदिपादपैः ॥१२॥द्रुमैः सर्जरसानां च सर्वतः परिशोभितम् ।प्रांशुशालवनैर्युक्तं बहुचित्रवनैर्युतम् ॥१३॥सर्जनिम्बार्जुनवनं पाटलीकुलसंकुलम् ।हिन्तालैश्च तमालैश्च पुन्नागैश्चोपशोभितम् ॥१४॥जलेषु जलजैश्छन्नं स्थलेषु स्थलजैरपि ।पङ्कजैर्द्रुमखण्डैश्च सर्वतः प्रतिभूषितम् ॥१५॥जम्बूजम्बूलवृक्षाढ्यं कद्रुकन्दलभूषितम् ।चम्पकाशोकबकुलं बिल्वतिन्दुकशोभितम् ॥१६॥कुञ्जैश्च नागपुष्पैश्च समन्तादुपशोभितम् ।नागयूथसमाकीर्णं मृगसंघातशोभितम् ॥१७॥सिद्धचारणरक्षोभिः सेवितप्रस्तरान्तरम् ।गन्धर्वैश्च समायुक्तं गुह्यकैः पक्षिभिस्तथा ॥१८॥विद्याधरगणैर्नित्यमनुकीर्णशिलातलम् ।सिंहशार्दूलसंनादैः सततं प्रतिनादितम् ।सेवितं वारिधाराभिश्चन्द्रपादैश्च शोभितम् ॥१९॥स्तुतं त्रिदशगन्धर्वैरप्सरोभिरलंकृतम् ।वनस्पतीनां दिव्यानां पुष्पैरुच्चावचैः श्रितम् ॥२०॥शक्रवज्रप्रहाराणामनभिज्ञं कदाचन ।दावाग्निभयनिर्मुक्तं महावातभयोज्झितम् ॥२१॥प्रपातप्रभवाभिश्च सरिद्भिरुपशोभितम् ।काननैराननाकारैर्विशेषद्भिरिव श्रियम् ॥२२॥जलशैवलशृङ्गाग्रैरुन्मिषन्तमिव श्रिया ।स्थलीभिर्मृगजुष्टाभिः कान्ताभिरुपशोभितम् ॥२३॥पार्श्वैरुपलकल्माषैर्मेघैरिव विभूषितम् ।पादपच्छन्नभूमीभिः सपुष्पाभिः समन्ततः ॥२४॥मण्डितं वनराजीभिः प्रमदाभिः पतिर्यथा ।सुन्दरीभिर्दरीभिश्च कन्दराभिस्तथैव च ॥२५॥तेषु तेष्ववकाशेषु सदारामिव शोभितम् ।औषधीदीप्तशिखरं वानप्रस्थनिषेवितम् ।जातरूपैर्वनोद्देशैः कृत्रिमैरिव भूषितम् ॥२६॥मूलेन सुविशालेन शिरसाप्युच्छ्रितेन च ।पृथिवीमन्तरिक्षं च ग्राहयन्तमिव स्थितम् ॥२७॥ते समासाद्य गोमन्तं रम्यं भूमिधरोत्तमम् ।रुचिरं रुरुचुः सर्वे वासायामरसंनिभाः ॥२८॥रुरुहुस्ते गिरिवरं खमूर्ध्वमिव पक्षिणः ।असज्जमाना वेगेन वैनतेयपराक्रमाः ॥२९॥ते तु तस्योत्तरं शृङ्गमारूढास्त्रिदशा इव ।अगारं सहसा चक्रुर्मनसा निर्मितोपमम् ॥३०॥निविष्टौ यादवौ दृष्टा जामदग्न्यो महामतिः ।रामोऽभिमतमक्लिष्टमाप्रष्टुमुपचक्रमे ॥३१॥कृष्ण यास्याम्यहं तात पुरं शूर्पारकं विभो ।युवयोर्नास्ति वैमुख्यं संग्रामे दैवतैरपि ॥३२॥प्राप्तवानस्मि यां प्रीतिं मार्गानुगमनादपि ।सा मे कृष्णानुगृह्णाति शरीरमिदमव्ययम् ॥३३॥इदं तत् स्थानमुद्दिष्टं यत्रायुधसमागमः ।युवयोर्विहितो देवैः समयः साम्परायिकः ॥३४॥दैवानां मुख्य वैकुण्ठ विष्णो देवैरभिष्टुत ।कृष्ण सर्वस्य लोकस्य शृणु मे नैष्ठिकं वचः ॥३५॥यदिदं प्रस्तुतं कर्म त्वया गोविन्द लौकिकम् ।मानुषाणां हितार्थाय लोके मानुषदेहिना ॥३६॥तस्यायं प्रथमः कल्पः कालेन तु नियोजितः ।जरासंधेन वै सार्धं संग्रामे समुपस्थिते ॥३७॥तत्रायुधबलं चैव रूपं च रणकर्कशम् ।स्वयमेवात्मना कृष्ण त्वमात्मानं विधत्स्व ह ॥३८॥चक्रोद्यतकरं दृष्ट्वा त्वां गदापाणिमाहवे ।चतुर्द्विगुणपीनांसं बिभ्येदपि शतक्रतुः ॥३९॥अद्यप्रभृति ते यात्रा स्वर्गोक्ता समुपस्थिता ।पृथिव्यां पार्थिवेन्द्राणां कृतास्त्रे त्वयि मानद ॥४०॥वैनतेयस्य चाह्वानं वाहनं ध्वजकर्मणि ।कुरु शीघ्रं महाबाहो गोविन्द वदतां वर ॥४१॥युद्धकामा नृपतयस्त्रिदिवाभिमुखोद्यताः ।धार्तराष्ट्रस्य वशगास्तिष्ठन्ति रणवृत्तयः ॥४२॥राज्ञां निधनदृष्टार्था वैधव्येनाधिवासिता ।एकवेणीधरा चेयं वसुधा त्वां प्रतीक्षते ॥४३॥सग्रहं कृष्ण नक्षत्रं संक्षिप्यारिविमर्दन ।त्वयि मानुष्यमापन्ने युद्धे च समुपस्थिते ॥४४॥त्वरस्व कृष्ण युद्धाय दानवानां वधाय च ।स्वर्गाय च नरेन्द्राणां देवतानां सुखाय च ॥४५॥सत्कृतोऽहं त्वया कृष्ण लोकैश्च सचराचरैः ।त्वया सत्कृतरूपेण येन सत्कृतवानहम् ॥४६॥साधयामि महाबाहो भवतः कार्यसिद्धये ।स्मर्तव्यश्चास्मि युद्धेषु कान्तारेषु महीक्षिताम् ॥४७॥इत्युक्त्वा जामदग्न्यस्तु कृष्णमक्लिष्टकारिणम् ।जयाशिषा वर्द्धयित्वा जगामाभीप्सितां दिशम् ॥४८॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि गोमन्तारोहणं नाम चत्वारिंशोऽध्यायः ॥४०॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP