संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| त्रयस्त्रिंशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - त्रयस्त्रिंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण त्रयस्त्रिंशोऽध्यायः Translation - भाषांतर बलरामकृष्णयोः गुरोः सान्दीपनेः स्थानं गत्वा विद्याध्ययनम्, गुरुदक्षिणा रूपेण तस्य मृतपुत्रं समर्प्य मथुरापुरीं प्रत्यागमनम्वैशम्पायन उवाचस कृष्णस्तत्र बलवान् रौहिणेयेन संगतः ।मथुरां यादवाकीर्णां पुरीं तां सुखमावसत् ॥१॥प्राप्तयौवनदेहस्तु युक्तो राजश्रिया ज्वलन् ॥२॥कस्यचित् त्वथ कालस्य सहितौ रामकेशवौ ।गुरुं सान्दीपनिं काश्यमवन्तिपुरवासिनम् ॥३॥धनुर्वेदचिकीर्षार्थमुभौ तावभिजग्मतुः ।निवेद्य गोत्रं स्वाध्यायमाचारेणाभ्यलंकृतौ ॥४॥शुश्रूषू निरहंकारावुभौ रामजनार्दनौ ।प्रतिजग्राह तौ काश्यो विद्याः प्रादाच्च केवलाः ॥५॥तौ च श्रुतिधरौ वीरौ यथावत् प्रतिपद्यताम् ।अहोरात्रैश्चतुष्षष्ट्या साङ्गवेदमधीयताम् ॥६॥चतुष्पादं धनुर्वेदं शस्त्रग्रामं ससंग्रहम् ।अचिरेणैव कालेन गुरुस्तावभ्यशिक्षयत् ॥७॥अतीवामानुषीं मेधां चिन्तयित्वा तयोर्गुरुः ।मेने तावागतौ वीरौ देवौ चन्द्रदिवाकरौ ॥८॥ददर्श च महात्मानावुभौ तावपि पर्वसु ।पूजयन्तौ महादेवं साक्षाद् विष्णुं व्यवस्थितम् ॥९॥गुरुं सान्दीपनिं कृष्णः कृतकृत्योऽभ्यभाषत ।गुर्वर्थं किं ददानीति रामेण सह भारत ॥१०॥तयोः प्रभावं स ज्ञात्वा गुरुः प्रोवाच हृष्टवान् ।पुत्रमिच्छाम्यहं दत्तं यो मृतो लवणाम्भसि ॥११॥पुत्र एकोऽपि मे जातः स चापि तिमिना हतः ।प्रभासे तीर्थयात्रायां तं मे त्वं पुनरानय ॥१२॥तथेत्येवाब्रवीत् कृष्णो रामस्यानुमते स्थितः ।गत्वा समुद्रं तेजस्वी विवेशान्तर्जलं हरिः ॥१३॥समुद्रः प्राञ्जलिर्भूत्वा दर्शयामास स्वं तदा ।तमाह कृष्णः क्वासौ भोः पुत्रः सान्दीपनेरिति ॥१४॥समुद्रः प्रत्युवाचेदं दैत्यः पञ्चजनो महान् ।तिमिरूपेण तं बालं ग्रस्तवानिति माधव ॥१५॥स पञ्चजनमासाद्य जघान पुरुषोत्तमः ।न चाससाद तं बालं गुरुपुत्रं तदाच्युतः ॥१६॥स तु पञ्चजनं हत्वा शङ्खं लेभे जनार्दनः ।यस्तु देवमनुष्येषु पाञ्चजन्य इति श्रुतः ॥१७॥ततो वैवस्वतपुरं जगाम पुरुषोत्तमः ।ततो यमोऽभ्युपागम्य ववन्दे तं गदाधरम् ॥१८॥तमुवाचाथ वै कृष्णो गुरुपुत्रः प्रदीयताम् ।तयोस्तत्र तदा युद्धमासीद् घोरतरं महत् ॥१९॥ततो वैवस्वतं घोरं निर्जित्य पुरुषोत्तमः ।आससाद च तं बालं गुरुपुत्रं तदाच्युतः ॥२०॥आनिनाय गुरोः पुत्रं चिरं नष्टं यमक्षयात् ।ततः सान्दीपनेः पुत्रः प्रभावादमितौजसः ॥२१॥दीर्घकालगतः प्रेतः पुनरासीच्छरीरवान् ।तदशक्यमचिन्त्यं च दृष्ट्वा सुमहदद्भुतम् ॥२२॥सर्वेषामेव भूतानां विस्मयः समजायत ।स गुरोः पुत्रमादाय पाञ्चजन्यं च माधवः ।रत्नानि च महार्हाणि पुनरायाज्जगत्प्रभुः ॥२३॥राक्षसैस्तस्य रत्नानि महार्हाणि बहूनि च ।आनाय्यावेदयामास गुरवे वासवानुजः ॥२४॥गदापरिघयुद्धेषु सर्वास्त्रेषु च तावुभौ ।अचिरान्मुख्यतां प्राप्तौ सर्वलोके धनुर्भृताम् ॥२५॥ततः सान्दीपनेः पुत्रं तद्रूपवयसं तदा ।प्रादात् कृष्णः प्रतीतात्मा सह रत्नैरुदारधीः ॥२६॥चिरनष्टेन पुत्रेण काश्यः सान्दीपनिस्तदा ।समेत्य मुमुदे राजन् पूजयन् रामकेशवौ ॥२७॥कृतास्त्रौ ताबुभौ वीरौ गुरुमामन्त्र्य सुव्रतौ ।आयातौ मथुरां भूयो वसुदेवसुतावुभौ ॥२८॥ततः प्रत्युद्ययुः सर्वे यादवा यदुनन्दनौ ।सबला हृष्टमनस उग्रसेनपुरोगमाः ॥२९॥श्रेण्यः प्रकृतयश्चैव मन्त्रिणः सपुरोहिताः ।सबालवृद्धा सा चैव पुरी समभिवर्तत ॥३०॥नन्दितूर्याण्यवाद्यन्त तुष्टुवुश्च जनार्दनम् ।रथ्याः पताकामालिन्यो भ्राजन्ते स्म समन्ततः ॥३१॥प्रहृष्टमुदितं सर्वमन्तःपुरमशोभत ।गोविन्दागमनेऽत्यर्थं यथैवेन्द्रमहे तथा ॥३२॥मुदिताश्चाथ गायन्ति राजमार्गेषु गायकाः ।तत्रासीत् प्रथिता गाथा यादवानां प्रियङ्करा ॥३३॥गोविन्दरामौ सम्प्राप्तौ भ्रातरौ लोकविश्रुतौ ।स्वे पुरे निर्भयाः सर्वे क्रीडध्वं सह बान्धवैः ॥३४॥न तत्र कश्चिद् दीनो वा मलिनो वा विचेतनः ।मथुरायामभूद् राजन् गोविन्दे समुपस्थिते ॥३५॥वयांसि साधुवाक्यानि प्रहृष्टा गोहयद्विपाः ।नरनारीगणाः सर्वे भेजिरे मनसः सुखम् ॥३६॥शिवाश्च वाताः प्रववुर्विरजस्का दिशो दश ।दैवतानि च हृष्टानि सर्वेष्वायतनेषु च ॥३७॥यानि लिङ्गानि लोकस्य चासन् कृतयुगे पुरा ।तानि सर्वाण्यदृश्यन्त पुरीं प्राप्ते जनार्दने ॥३८॥ततः काले शिवे पुण्ये स्यन्दनेनारिमर्दनः ।हरियुक्तेन गोविन्दो विवेश मथुरां पुरीम् ॥३९॥विशन्तं मथुरां रम्यां तमुपेन्द्रमरिंदमम् ।अनुजग्मुर्यदुगणाः शक्रं देवगणा इव ॥४०॥वसुदेवस्य भवनं ततस्तौ यदुनन्दनौ ।प्रविष्टौ हृष्टवदनौ चन्द्रादित्याविवाचलम् ॥४१॥परेण तेजसोपेतौ सुरेन्द्राविव रूपिणौ ।तावायुधानि विन्यस्य गृहे स्वं स्वैरचारिणौ ॥४२॥मुमुदाते यदुवरौ वसुदेवसुतावुभौ ।उद्यानेषु विचित्रेषु फलपुष्पावनामिषु ॥४३॥चेरतुः सुमहात्मानौ यादवैः परिवारितौ ।रैवतस्य समीपेषु सरित्सु विमलासु च ॥४४॥पद्मपत्रविवृद्धासु कारण्डवयुतासु चएवं तावेकनिर्माणौ मथुरायां शुभाननौ ।उग्रसेनानुगौ भूत्वा कंचित् कालं मुमोदतुः ॥४५॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि रामकृष्णप्रत्यागमने त्रयस्त्रिंशोऽध्यायः ॥३३॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP