संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| द्वाविंशोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - द्वाविंशोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण द्वाविंशोऽध्यायः Translation - भाषांतर कंसस्य आशङ्का, तस्य रात्रिसमये यदुवंशीनामाह्वयित्वा सभायां श्रीकृष्णस्य एवं विष्णोः प्रभावस्य कथनम्, वसुदेवोपरि कठोराक्षेपम्, श्रीकृष्णादीनां आनयने अक्रूरस्य व्रजगमनाय आज्ञापनम्वैशम्पायन उवाचकृष्णं व्रजगतं श्रुत्वा वर्धमानमिवानलम् ।उद्वेगमगमत् कंसः शङ्कमानस्ततो भयम् ॥१॥पूतनायां हतायां च कालिये च पराजिते ।धेनुके प्रलयं नीते प्रलम्बे च निपातिते ॥२॥धृते गोवर्धने शैले विफले शक्रशासने ।गोषु त्रातासु च तथा स्पृहणीयेन कर्मणा ॥३॥ककुद्मिनि हतेऽरिष्टे गोपेषु मुदितेषु च ।दृश्यमाने विनाशे च संनिकृष्टे महाभये ॥४॥कर्षणे वृक्षयोश्चैव शकटस्य तथैव च ।अचिन्त्यं कर्म्म तच्छ्रुत्वा वर्धमानेषु शत्रुषु ॥५॥प्राप्तारिष्टमिवात्मानं मेने स मथुरेश्वरः ।विसंज्ञेन्द्रियभूतात्मा गतासुप्रतिमो बभौ ॥६॥ततो ज्ञातीन् समानाय्य पितरं चोग्रशासनः ।निशि स्तिमितमूकायां मथुरायां जनाधिपः ॥७॥वसुदेवं च देवाभं कङ्कं चाहूय यादवम् ।सत्यकं दारुकं चैव कङ्कावरजमेव च ॥८॥भोजं वैतरणं चैव विकद्रुं च महाबलम् ।भयशङ्खं च धर्मज्ञं विपृथुं च पृथुश्रियम् ॥९॥बभ्रुं दानपतिं चैव कृतवर्माणमेव च ।भूरितेजसमक्षोभ्यं भूरिश्रवसमेव च ॥१०॥एतान्स यादवान् सर्वानाभाष्य शृणुतेति च ।उग्रसेनसुतो राजा प्रोवाच मथुरेश्वरः ॥११॥भवन्तः सर्वकार्यज्ञा वेदेषु परिनिष्ठिताः ।न्यायवृत्तान्तकुशलास्त्रिवर्गस्य प्रवर्तकाः ॥१२॥कर्तव्यानां च कर्तारो लोकस्य विबुधोपमाः ।तस्थिवांसो महावृत्ते निष्कम्पा इव पर्वताः ॥१३॥अदम्भवृत्तयः सर्वे सर्वे गुरुकुलोषिताः ।राजमन्त्रधराः सर्वे सर्वे धनुषि पारगाः ॥१४॥यशःप्रदीपा लोकानां वेदार्थानां विवक्षवः ।आश्रमाणां निसर्गज्ञा वर्णानां क्रमपारगाः ॥१५॥प्रवक्तारः सुनियतां नेतारो नयदर्शिनाम् ।भेत्तारः परराष्ट्राणां त्रातारः शरणार्थिनाम् ॥१६॥एवमक्षतचारित्रैः श्रीमद्भिरुदितोदितैः ।द्यौरप्यनुगृहीता स्याद्भवद्भिः किं पुनर्मही ॥१७॥ऋषीणामिव वो वृत्तं प्रभावो मरुतामिव ।रुद्राणामिव वः क्रोधो दीप्तिरङ्गिरसारमिव ॥१८॥व्यावर्तमानं सुमहद् भवद्भिः ख्यात कीर्तिभिः ।धृतं यदुकुलं वीरैर्भूतलं पर्वतैरिव ॥१९॥एवं भवत्सु युक्तेषु मम चित्तानुवर्तिषु ।वर्धमानो ममानर्थो भवद्भिः किमुपेक्षितः ॥२०॥एष कृष्ण इति ख्यातो नन्दगोपसुतो व्रजे ।वर्धमान इवाम्भोभिर्मूलं नः परिकृन्तति ॥२१॥अनमात्यस्य शून्यस्य चारान्धस्य ममैव तु ।कारणान्नन्दगोपस्य स सुतो गोपितो गृहे ॥२२॥उपेक्षित इव व्याधिः पूर्यमाण इवाम्बुदः ।नदन्मेघ इवोष्णान्ते स दुरात्मा विवर्धते ॥२३॥तस्य नाहं गतिं जाने न योगं न पराक्रमम् ।नन्दगोपस्य भवने जातस्याद्भुतकर्मणः ॥२४॥किं तद्भूतं समुद्भूतं देवापत्यं न विद्महे ।अतिदेवैरमानुष्यैः कर्मभिः सोऽनुमीयते ॥२५॥पूतना शकुनी बाल्ये शिशुनोत्तानशायिना ।स्तनपानेप्सुना पीता प्राणैः सह दुरासदा ॥२६॥यमुनाया ह्रदे नागः कालियो दमितस्तथा ।रसातलचरो नीतः क्षणेनादर्शनं ह्रदात् ॥२७॥नन्दगोपसुतो योगं कृत्वा स पुनरुत्थितः ।चेनुकस्तालशिखरात् पातितो जीवितं विना ॥२८॥प्रलम्बं यं मृधे देवा न शेकुरतिवर्तितुम् ।बालेन मुष्टिनैकेन स हतः प्राकृतो यथा ॥२९॥वासवस्योत्सवं भङक्त्वा वर्षं वासवरोषजम् ।निर्जित्य गोगृहार्थाय धृतो गोवर्धनो गिरिः ॥३०॥हतस्त्वरिष्टो बलवान् निःशृङ्गश्च कृतो व्रजे ।अबालो बाल्यमास्थाय रमते शिशुलीलया ॥३१॥प्रबन्धः कर्मणामेव तस्य गोव्रजवासिनः ।संनिकृष्टं भयं चैव केशिनो मम च धुवम् ॥३२॥भूतपूर्वश्च मे मृत्युः सततं पूर्वदैहिकः ।युद्धाकाङ्क्षी च स यथा तिष्ठतीह ममाग्रतः ॥३३॥क्व च गोपत्वमशुभं मानुष्यं मृत्युदुर्बलम् ।क्व च देवप्रभावेण क्रीडितव्यं व्रजे मम ॥३४॥अहो नीचेन वपुषाच्छादयित्वाऽऽत्मनो वपुः ।कोऽप्येष रमते देवः श्मशानस्य इवानलः ॥३५॥श्रूयते हि पुरा विष्णुः सुराणां कारणान्तरे ।वामनेन तु रूपेण जहार पृथिवीमिमाम् ॥३६॥कृत्वा केसरिणो रूपं विष्णुना प्रभविष्णुना ।हतो हिरण्यकशिपुर्दानवानां पितामहः ॥३७॥अचिन्त्यरूपमास्थाय श्वेतशैलस्य मूर्धनि ।भवेन च्याविता दैत्याः पुरा तत्त्रिपुरं घ्नता ॥३८॥चालितो गुरुपुत्रेण भार्गवोऽङ्गिरसेन वै ।प्रविश्य दार्दुरीं मायामनावृष्टिं चकार ह ॥३९॥अनन्तः शाश्वतो देवः सहस्रशिरसोऽव्ययः ।वाराहं रूपमास्थाय प्रोज्जहारार्णवान्मही म् ॥४०॥अमृते निर्मिते पूर्वं विष्णुः स्त्रीरूपमास्थितः ।सुराणामसुराणां च युद्धं चक्रे सुदारुणम् ॥४१॥अमृतार्थे पुरा चापि देवदैत्यसमागमे ।दधार मन्दरं विष्णुरकूपार इति श्रुतिः ॥४२॥वपुर्वामनमास्थाय नन्दनीयं पुरा बलेः ।त्रिभिः क्रमैस्तु त्रींल्लोकाञ्जहार त्रिदिवालयम् ॥४३॥चतुर्धा तेजसो भागं कृत्वा दाशरथे गृहे ।स एव रामसंज्ञो वै रावणं व्यनशत् तदा ॥४४॥एवमेव निकृत्या वै तत्तद्रूपमुपागतः ।साधयत्यात्मनः कार्यं सुराणामर्थसिद्धये ॥४५॥तदेव नूनं विष्णुर्वा शक्रो वा मरुतां पतिः ।मत्साधनेच्छया प्राप्तो नारदो मां यदुक्तवान् ॥४६॥अत्र मे शङ्कते बुद्धिर्वसुदेवं प्रति ध्रुवा ।अस्य बुद्धिविशेषेण वयं कातरतां गताः ॥४७॥अहं हि खट्वाङ्गवने नारदेन समागतः ।द्वितीयं स हि मां विप्रः पुनरेवाब्रवीद् वचः ॥४८॥यस्त्वया हि कृतो यत्नः कंस गर्भकृते महान् ।वसुदेवेन ते रात्रौ तत्कर्म विफलीकृतम् ॥४९॥दारिका या त्वया रात्रौ शिलायां कंस पातिता ।तां यशोदासुतां विद्धि कृष्णं च वसुदेवजम् ॥५०॥रात्रौ व्यावर्तितावेतौ गर्भौ तव वधाय वै ।वसुदेवेन संधाय मित्ररूपेण शत्रुणा ॥५१॥सा तु कन्या यशोदाया विन्ध्ये पर्वतसत्तमे ।हत्वा शुम्भनिशुम्भौ द्वौ दानवौ नगचारिणौ ॥५२॥कृताभिषेका वरदा भूतसंघनिषेविता ।अर्च्यते दस्युभिर्घोरैर्महाबलिपशुप्रिया ॥५३॥सुरापिशितपूर्णाभ्यां कुम्भाभ्यामुपशोभिता ।मयूराङ्गदचित्रैश्च बर्हभारैर्विभूषिता ॥५४॥हृष्टकुक्कुटसंनादं वनं वायसनादितम् ।मृगसंघैश्च सम्पूर्णमविरुद्धैश्च पक्षिभिः ॥५५॥सिंहव्याघ्रवराहाणां नादेन प्रतिनादितम् ।वृक्षगम्भीरनिबिडं कान्तारैः सर्वतो वृतम् ॥५६॥दिव्यभृङ्गारुचमरैरादर्शैरुपशोभितम् ।देवतूर्यनिनादैश्च शतशः प्रतिनादितम् ॥५७॥स्थानं तस्या नगे विन्ध्ये निर्मितं स्वेन तेजसा ।रिपूणां त्रासजननी नित्यं तत्र मनोरमे ॥५८॥वसते परमप्रीता देवतैरपि पूजिता ।यस्त्वयं नन्दगोपस्य कृष्ण इत्युच्यते सुतः ॥५९॥अत्र मे नारदः प्राह सुमहत्कर्मकारणम् ।द्वितीयो वसुदेवाद् वै वासुदेवो भविष्यति ॥६०॥स हि ते सहजो मृत्युर्बान्धवश्च भविष्यति ।स एव वासुदेवो वै वसुदेवसुतो बली ।बान्धवो धर्मतो मह्यं हृदयेनान्तको रिपुः॥६१॥नेत्रे तुदति तस्यैव वक्त्रेणामिषगृद्धिना ॥६२॥वसुदेवस्तथैवायं सपुत्रज्ञातिबान्धवः ।छिनत्ति मम मूलानि भुङ्क्ते च मम पार्श्वतः ॥६३॥भ्रूणहत्यापि संतार्या गोवधः स्त्रीवधोऽपि वा ।न कृतघ्नस्य लोकोऽस्ति बान्धवस्य विशेषतः ॥६४॥पतितानुगतं मार्गं निषेवत्यचिरेण सः ।यः कृतघ्नोऽनुबन्धेन प्रीतिं वहति दारुणाम् ॥६५॥नरकाध्युषितः पन्था गन्तव्यस्तेन दारुणः ।अपापे पापहृदयो यः पापमनुतिष्ठति ॥६६॥अहं वा स्वजनः श्लाघ्यः स वा श्लाघ्यतरः सुतः ।नियमैर्गुणवृत्तेन त्वया बान्धवकाम्यया ॥६७॥हस्तिनां कलहे घोरे वधमृच्छन्ति वीरुधः ।युद्धव्युपरमे ते तु सहाश्नन्ति महावने ॥६८॥बान्धवानामपि तथा भेदकाले समुत्थिते ।वध्यते योऽन्तरप्रेप्सुः स्वजनो यदि वेतरः ॥६९॥कालस्त्वं हि विनाशाय मया पुष्टो विजानता ।वसुदेव कुलस्यास्य यद् विरोधयसे भृशम् ॥७०॥अमर्षी वैरशीलश्च सदा पापमतिः शठः ।स्थाने यदुकुलं मूढ शोचनीयं त्वया कृतम् ॥७१॥वसुदेव वृथा वृद्ध यन्मया त्वं पुरस्कृतः ।श्वेतेन शिरसा वृद्धो नैव वर्षशतैर्भवेत् ॥७२॥यस्य बुद्धिः परिणता स वै वृद्धतरो नृणाम् ॥७३॥त्वं च कर्कशशीलश्च बुद्ध्या च न बहुश्रुतः ।केवलं वयसा वृद्धो यथा शरदि तोयदः ॥७४॥किं च त्वं साधु जानीषे वसुदेव वृथामते ।मृते कंसे मम सुतो मथुरां पालयिष्यति ॥७५॥छिन्नाशस्त्वं वृथावृद्धो मिथ्यात्वेवं विचारितम् ।जिजीविषुर्न सोऽप्यस्ति योऽवतिष्ठेन्ममाग्रतः ॥७६॥प्रहर्तुकामो विश्वस्ते यस्त्वं दुष्टेन चेतसा ।तत् ते प्रतिकरिष्येऽहं पुत्रयोस्तव पश्यतः ॥७७॥न मे वृद्धवधः कश्चिद् द्विजस्त्रीवध एव च ।कृतपूर्वः करिष्ये वा विशेषेण तु बान्धवे ॥७८॥इह त्वं जातसंवृद्धो मम पित्रा विवर्धितः ।पितृष्वसुश्च मे भर्ता यदूनां प्रथमो गुरुः ॥७९॥कुले महति विख्यातः प्रथिते चक्रवर्तिनाम् ।गुर्वर्थं पूजितः सद्भिर्महद्भिर्धर्मबुद्धिभिः ॥८०॥किं करिष्यामहे सर्वे सत्सु वक्तव्यतां गताः ।यदूनां यूथमुख्यस्य यस्य ते वृत्तमीदृशम् ॥८१॥मद्वधो वा जयो वाथ वसुदेवस्य दुर्नयैः ।सत्सु यास्यन्ति पुरुषा यदूनामवगुण्ठिताः ॥८२॥त्वया हि मद्वधोपायं तर्कमाणेन वै मृधे ।अविश्वास्यं कृतं कर्म वाच्याश्च यदवः कृताः ॥८३॥अशाम्यं वैरमुत्पन्नं मम कृष्णस्य चोभयोः ।शान्तिमेकतरे शान्तिं गते यास्यन्ति यादवाः ॥८४॥गच्छ दानपते क्षिप्रं ताविहानयितुं व्रजात् ।नन्दगोपं च गोपांश्च करदान् मम शासनात् ॥८५॥वाच्यश्च नन्दगोपो वै करमादाय वार्षिकम् ।शीघ्रमागच्छ नगरं गोपैः सह समन्वितः ॥८६॥कृष्णसंकर्षणौ चैव वसुदेवसुतावुभौ ।द्रष्टुमिच्छति वै कंसः सभृत्यः सपुरोहितः ॥८७॥एतौ युद्धविदौ रङ्गे कालनिर्माणयोधिनौ ।दृढौ च कृतिनौ चैव शृणोमि व्यायतोद्यमौ ॥८८॥अस्माकमपि मल्लौ द्वौ सज्जौ युद्धकृतोत्सवौ ।ताभ्यां सह नियोत्स्येते तौ युद्धकुशलावुभौ ॥८९॥द्रष्टव्यौ च मयावश्यं बालौ तावमरोपमौ ।पितृष्वसुः सुतौ मुख्यौ व्रजवासौ वनेचरौ ॥९०॥वक्तव्यं च व्रजे तस्मिन् समीपे व्रजवासिनाम् ।राजा धनुर्मखं नाम कारयिष्यति वै सुखी ॥९१॥संनिकृष्टे वने ते तु निवसन्तु यथासुखम् ।जनस्यामन्त्रितस्यार्थे यथा स्यात् सर्वमव्ययम् ॥९२॥पयसः सर्पिषश्चैव दध्नो दध्युत्तरस्य च ।यथाकामप्रदानाय भोज्याधिश्रयणाय च ॥९३॥अक्रूर गच्छ शीघ्रं त्वं तावानय ममाज्ञया ।संकर्षणं च कृष्णं च द्रष्टुं कौतूहलं हि मे ॥९४॥तयोरागमने प्रीतिः परमा मत्कृता भवेत् ।दृष्ट्वा तु तौ महावीर्यौ तद्विधास्यामि यद्धितम् ॥९५॥शासनं यदि वा श्रुत्वा मम तौ परिभाषितम् ।नागच्छेतां यथाकालं निग्राह्यावपि तौ मम ॥९६॥सान्त्वमेव तु बालेषु प्रधानं प्रथमो नयः ।मधुरेणैव तौ मन्दौ स्वयमेवानयाशु वै ॥९७॥अक्रूर कुरु मे प्रीतिमेतां परमदुर्लभाम् ।यदि वा नोपजप्तोऽसि वसुदेवेन सुव्रत ।तथा कर्तव्यमेतद्धि यथा तावागमिष्यतः ॥९८॥एवमाक्षिप्यमाणोऽपि वसुदेवो वसूपमः ।सागराकारमात्मानं निष्प्रकम्पमधारयत् ॥९९॥वाक्छल्यैस्ताड्यमानस्तु कंसेनादीर्घदर्शिना ।क्षमां मनसि संधाय नोत्तरं प्रत्यभाषत ॥१००॥ये तु तं ददृशुस्तत्र क्षिप्यमाणमनेकधा ।धिग्धिगित्यसकृत्ते वै शनैरूचुरवाङ्मुखाः ॥१०१॥अक्रूरस्तु महातेजा जानन् दिव्येन चक्षुषा ।जलं दृष्ट्वेव तृषितः प्रेषितः प्रीतिमानभूत् ॥१०२॥तस्मिन्नेव मुहूर्ते तु मथुरायाः स निर्ययौ ।प्रीतिमान्पुण्डरीकाक्षं द्रष्टुं दानपतिः स्वयम् ॥१०३॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि अक्रूरप्रस्थाने द्वाविंशोऽध्यायः॥२२॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP