संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| एकोननवतितमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - एकोननवतितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकोननवतितमोऽध्यायः Translation - भाषांतर बलरामश्रीकृष्णादीनां यादवानां जलक्रीडा एवं गानादिकानां वर्णनम्वैशम्पायन उवाचरेमे बलश्चन्दनपङ्कदिग्धः कादम्बरीपानकलः पृथुश्रीः ।रक्तेक्षणो रेवतिमाश्रयित्वा प्रलम्बबाहुर्ललितप्रयातः ॥१॥नीलाम्बुदाभे वसने वसानश्चन्द्रांशुगौरो मदिराविलाक्षः ।रराज रामोऽम्बुदमध्यमेत्य सम्पूर्णबिम्बो भगवानिवेन्दुः ॥२॥वामैककर्णामलकुण्डलश्रीः स्मेरं मनोज्ञाब्जकृतावतंसः ।तिर्यक्कटाक्षं प्रियया मुमोद रामः सुखं चार्वभिवीक्ष्यमाणः ॥३॥अथाज्ञया कंसनिकुम्भशत्रोरुदाररूपोऽप्सरसां गणः सः ।द्रष्टुं मुदा रेवतिमाजगाम वेलालयं स्वर्गसमानमृद्ध्या ॥४॥तां रेवतीं चाप्यथ वापि रामं सर्वा नमस्कृत्य वराङ्गयष्ट्यः ।वाद्यानुरूपं ननृतुः सुगात्र्यः समन्ततोऽन्या जगिरे च सम्यक् ॥५॥चकुस्तथैवाभिनयेन रङ्गं यथावदेषां प्रियमर्थयुक्तम् ।हद्यानुकूलं च बलस्य तस्य तथाज्ञया रेवतराजपुत्र्याः ॥६॥चक्रुर्हसन्त्यश्च तथैव रासं तद्देशभाषाकृतिवेषयुक्ताः ।सहस्ततालं ललितं सलीलं वराङ्गना मङ्गलसम्भृताङ्ग्यः ॥७॥संकर्षणाधोक्षजनन्दनानि संकीर्तयन्त्योऽथ च मङ्गलानि ।कंसप्रलम्बादिवधं च रम्यं चाणूरघातं च तथैव रङ्गे ॥८॥यशोदया च प्रथितं यशोऽथ दामोदरत्वं च जनार्दनस्य ।वधं तथारिष्टकधेनुकाभ्यां व्रजे च वासं शकुनीवधं च ॥९॥तथा च भग्नौ यमलार्जुनौ तौ सृष्टिं वृकाणामपि वत्सयुक्ताम् ।स कालियो नागपतिर्ह्रदे च कृष्णेन दान्तश्च यथा दुरात्मा ॥१०॥शङ्खहृदादुद्धरणं च वीर पद्मोत्पलानां मधुसूदनेन ।गोवर्द्धनोऽर्थे च गवां धृतोऽभूद् यथा च कृष्णेन जनार्दनेन ॥११॥कुब्जां यथा गन्धकपीषिकां च कुब्जत्वहीनां कृतवांश्च कृष्णः ।अवामनं वामनकं च चक्रे कृष्णो यथाऽऽत्मानमजोऽप्यनिन्द्यः ॥१२॥सौभप्रमाथं च हलायुधत्वं वधं मुरस्याप्यथ देवशत्रोः ।गान्धारकन्यावहने नृपाणां रथे तथा योजनमूर्जितानाम् ॥१३॥ततः सुभद्राहरणे जयं च युद्धे च बालाहकजम्बुमाले ।रत्नप्रवेकं च युधाजितैर्यत् समाहृतं शक्रसमक्षमासीत् ॥१४॥एतानि चान्यानि च चारुरूपा जगुः स्त्रियः प्रीतिकराणि राजन् ।सङ्कर्षणाधोक्षजहर्षणानि चित्राणि चानेककथाश्रयाणि ॥१५॥कादम्बरीपानमदोत्कटस्तु बलः पृथुश्रीः स चुकूर्द रामः ।सहस्ततालं मधुरं समं च स भार्यया रेवतराजपुत्र्या ॥१६॥तं कूर्दमानं मधुसूदनश्च दृष्ट्वा महात्मा च मुदान्वितोऽभूत् ।चुकूर्द सत्यासहितो महात्मा हर्षागमार्थं च बलस्य धीमान् ॥१७॥समुद्रयात्रार्थमथागतश्च चुकूर्द पार्थो नरलोकवीरा ।कृष्णेन सार्द्धं मुदितश्चुकूर्द सुभद्रया चैव वराङ्गयष्ट्या ॥१८॥गदश्च धीमानथ सारणश्च प्रद्युम्नसाम्बौ नृप सात्यकिश्च ।सात्राजितीसूनुरुदारवीर्यः सुचारुदेष्णश्च सुचारुरूपः ॥१९॥वीरौ कुमारौ निशठोल्मुकौ च रामात्मजौ वीरतमौ चुकूर्दतुः ।अक्रूरसेनापतिशंकवश्च तथापरे भैमकुलप्रधानाः ॥२०॥तद् यानपात्रं ववृधे तदानीं कृष्णप्रभावेण जनेन्द्रपुत्र ।आपूर्णमापूर्णमुदारकीर्ते चुकूर्दयद्भिर्नप भैममुख्यैः ॥२१॥ तै राससक्तैरतिकूर्दमानैर्यदुप्रवीरैरमरप्रकाशैः ।हर्षान्वितं वीर जगत् तथाभूच्छेमुश्च पापानि जनेन्द्रसूनो ॥२२॥देवातिथिस्तत्र च नारदोऽथ विप्रः प्रियार्थं मुरकेशिशत्रोः ।चुकूर्द मध्ये यदुसत्तमानां जटाकलापागलितैकदेशः ॥२३॥रासप्रणेता मुनि राजपुत्र स एव तत्राभवदप्रमेयः ।मध्ये च गत्वा च चुकूर्द भूयो हेलाविकारैः सविडम्बिताङ्गैः॥२४॥स सत्यभामामथ केशवं च पार्थं सुभद्रां च बलं च देवम् ।देवीं तथा रेवतराजपुत्रीं संदृश्य संदृश्य जहास धीमान् ॥२५॥ता हासयामास सुधैर्ययुक्तास्तैस्तैरुपायैः परिहासशीलः ।चेष्टानुकारैर्हसितानुकारैर्लीलानुकारैरपरैश्च धीमान् ॥२६॥आभाषितं किंचिदिवोपलक्ष्य नादातिनादान् भगवान् मुमोच ।हसन् विहासांश्च जहास हर्षाद्धास्यागमे कृष्णविनोदनार्थम् ॥२७॥कृष्णाज्ञया सातिशयानि तत्र यथानुरूपाणि ददुर्युवत्यः ।रत्नानि वस्त्राणि च रूपवन्ति जगत्प्रधानानि नृदेवसूनो ॥२८॥माल्यानि च स्वर्गसमुद्भवानि संतानदामान्यतिमुक्तकानि ।सर्वर्तुकान्यप्यनयंस्तदानीं ददुर्ह रेरिङ्गितकालतज्ज्ञाः॥२९॥रासावसाने त्वथ गृह्य हस्ते महामुनिं नारदमप्रमेयः ।पपात कृष्णो भगवान् समुद्रे सात्राजितीं चार्जुनमेव चाथ ॥३०॥उवाच चामेयपराक्रमोऽथ शैनेयमीषत्प्रहसन् पृथुश्रीः ।द्विधा कृतास्मिन् पतताशु भूत्वा क्रीडाजलेनोऽस्तु सहाङ्गनाभिः॥३१॥सरेवतीकोऽस्तु बलोऽर्द्धनेता पुत्रा मदीयाश्च सहार्द्धभैमाः ।भैमार्द्धमेवाथ बलात्मजाश्च मत्पक्षिणः सन्तु समुद्रतोये ॥३२॥आज्ञापयामास ततः समुद्रं कृष्णः स्मितं प्राञ्जलिनं प्रतीतः ।सुगन्धतोयो भव मृष्टतोयस्तथा भव ग्राहविवर्जितश्च ॥३३॥दृश्या च ते रत्नविभूषिता तु सा वेलिका भूरथ पत्सुखा च ।मनोऽनुकूलं च जनस्य तत्तत् प्रयच्छ विज्ञास्यसि मत्प्रभावात् ॥३४॥भवस्यपेयोऽप्यथ चेष्टपेयो जनस्य सर्वस्य मनोऽनुकूलः ।वैडूर्यमुक्तामणिहेमचित्रा भवन्तु मत्स्यास्त्वयि सौम्यरूपाः ॥३५॥बिभृस्व च त्वं कमलोत्पलानि सुगन्धसुस्पर्शरसक्षमाणि ।षट्पादजुष्टानि मनोहराणि कीलालवर्णैश्च समन्वितानि ॥३६॥मैरेयमाध्वीकसुरासवानां कुम्भांश्च पूर्णान् स्थपयस्व तोये ।जाम्बूनदं पाननिमित्तमेषां पात्रं पपुर्येषु ददस्व भैमाः ॥३७॥पुष्पोच्चयैर्वासितशीततोयो भवाप्रमत्तः खलु तोयराशे ।यथा व्यलीकं न भवेद् यदूनां सस्त्रीजनानां कुरु तत्प्रयत्नम् ॥३८॥इतीदमुक्त्वा भगवान् समुद्रं ततः प्रचिक्रीड सहार्जुनेन ।सिषेच पूर्वं नृप नारदं तु सात्राजिती कृष्णमुखेङ्गितज्ञा ॥३९॥ततो मदावर्जितचारुदेहः पपात रामः सलिले सलीलम् ।साकारमालम्ब्य करं करेण मनोहरां रेवतराजपुत्रीम् ॥४०॥कृष्णात्मजा ये त्वथ भैममुख्या रामस्य पश्चात् पतिताः समुद्रे ।विरागवस्त्राभरणाः प्रहृष्टाः क्रीडाभिरामा मदिराविलाक्षाः ॥४१॥शेषास्तु भैमा हरिमभ्युपेताः क्रीडाभिरामा निशठोल्मुकाद्याः ।विचित्रवस्त्राभरणाश्च मत्ताः संतानमाल्यावृतकण्ठदेशाः ॥४२॥वीर्योपपन्नाः कृतचारुचिह्ना विलिप्तगात्रा स्नलपात्रहस्ताः ।गीतानि तद्वेषमनोहराणि स्वरोपपन्नान्यथ गायमानाः॥४३॥ततः प्रचक्रुर्जलवादितानि नानास्वराणि प्रियवाद्यघोषाः ।सहाप्सरोभिस्त्रिदिवालयाभिः कृष्णाज्ञया वेशवधूशतानि ॥४४॥आकाशगङ्गाजलवादनज्ञाः सदा युवत्यो मदनैकचित्ताः ।अवादयंस्ता जलदर्दुरांश्च वाद्यानुरूपं जगिरे च हृष्टाः ॥४५॥कुशेशयाकोशविशालनेत्राः कुशेशयापीडविभूषिताश्च ।कुशेशयानां रविबोधितानां जह्रुः श्रियं ताः सुरचारुमुख्यः ॥४६॥स्त्रीवक्त्रचन्द्रैः सकलेन्दुकल्पै रराज राजञ्छतशः समुद्रः ।यदृच्छया दैवविधानतो वा नभो यथा चन्द्रसहस्रकीर्णम् ॥४७॥समुद्रमेघः स रराज राजञ्च्छतह्रदास्त्रीप्रभयाभिरामः ।सौदामिनीभिन्न इवाम्बुनाथो देदीप्यमानो नभसीव मेघः ॥४८॥नारायणश्चैव सनारदश्च सिषेच पक्षे कृतचारुचिह्नः ।बलं सपक्षं कृतचारुचिह्नं स चैव पक्षं मधुसूदनस्य ॥४९॥हस्तप्रमुक्तैर्जलयन्त्रकैश्च प्रहृष्टरूपाः सिषिचुस्तदानीम् ।रागोद्धता वारुणिपानमत्ताः संकर्षणाधोक्षजदेवपत्न्यः ॥५०॥आरक्तनेत्रा जलमुक्तिसक्ताः स्त्रीणां समक्षं पुरुषायमाणाः ।ते नोपरेमुः सुचिरं च भैमा मानं वहन्तो मदनं मदं च ॥५१॥अतिप्रसङ्गं तु विचिन्त्य कृष्णस्तान् वारयामास रथाङ्गपाणिः ।स्वयं निवृत्तो जलवाद्यशब्दैः सनारदः पार्थसहायवांश्च ॥५२॥कृष्णेङ्गितज्ञा जलयुद्धसङ्गाद् भैमा निवृत्ता दृढमानिनोऽपि ।नित्यं तथाऽऽनन्दकराः प्रियाणां प्रियाश्च तेषां ननृतुः प्रतीताः ॥५३॥नृत्यावसाने भगवानुपेन्द्रस्तत्याज धीमानथ तोयसङ्गान् ।उत्तीर्य तोयादनुकूललेपं जग्राह दत्त्वा मुनिसत्तमाय ॥५४॥उपेन्द्रमुत्तीर्णमथाशु दृष्ट्वा भैमा हि ते तत्यजुरेव तोयम् ।विविक्तगात्रास्त्वथ पानभूमिं कृष्णाज्ञया ते ययुरप्रमेयाः ॥५५॥यथानुपूर्व्या च यथावयश्च यत्सन्नियोगाश्च तदोपविष्टाः ।अन्नानि वीरा बुभुजुः प्रतीताः पपुश्च पेयानि यथानुकूलम् ॥५६॥मांसानि पक्वानि फलाम्लकानि चुक्रोत्तरेणाथ च दाडिमेन ।निष्टप्तशूलाञ्छकलान् पशूंश्च तत्रोपजह्रुः शुचयोऽथ सूदाः ॥५७॥सुस्विन्नशूल्यान्महिषांश्च बालाञ्छूल्यान्सुनिष्टप्तघृतावसिक्तान् ।वृक्षाम्लसौवर्चलचुक्रपूर्णान् पौरोगवोक्त्या उपजह्रुरेषाम् ॥५८॥पौरोगवोक्त्या विधिना मृगाणां मांसानि सिद्धानि च पीवराणि ।नानाप्रकाराण्युपजह्रुरेषां मृष्टानि पक्वानि च चुक्रचूतैः ॥५९॥पार्श्वानि चान्ये शकलानि तत्र ददुः पशूनां घृतमृक्षितानि ।सामुद्रचूर्णैरवचूर्णितानि चूर्णेन मृष्टेन समारिचेन ॥६०॥समूलकैर्दाडिममातुलिङ्गैः पर्णासहिङ्ग्वार्द्रकभूस्तृणैश्च ।तदोपदंशैः सुमुखोत्तरैस्ते पानानि हृष्टाः पपुरप्रमेयाः ॥६१॥कट्वाङ्कशूलैरपि पक्षिभिश्च घृताम्लसौवर्चलतैलसिक्तैः ।मैरेयमाध्वीकसुरासवांस्ते पपुः प्रियाभिः परिवार्यमाणाः ॥६२॥श्वेतेन युक्तानपि शोणितेन भक्ष्यान्सुगन्धांल्लवणान्वितांश्च ।आर्द्रान्किलादान् घृतपूर्णकांश्च नानाप्रकारानपि खण्डखाद्यान् ॥६३॥अपानपाश्चोद्धवभोजमिश्राः शाकैश्च सूपैश्च बहुप्रकारैः ।पेयैश्च दघ्ना पयसा च वीराः स्वन्नानि राजन् बुभुजुः प्रहृष्टाः ॥६४॥तथारनालांश्च बहुप्रकारान् पपुः सुगन्धानपि पालवीषु ।शृतं पयः शर्करया च युक्तं फलप्रकारांश्च बहूंश्च खादन् ॥६५॥तृप्ताः प्रवृत्ताः पुनरेव वीरास्ते भैममुख्या वनितासहायाः ।गीतानि रम्याणि जगुः प्रहृष्टाः कान्ताभिनीतानि मनोहराणि ॥६६॥आज्ञापयामास ततः स तस्यां निशि प्रहृष्टो भगवानुपेन्द्रः ।छालिक्यगेयं बहुसंनिधानं यदेव गान्धर्वमुदाहरन्ति ॥६७॥जग्राह वीणामथ नारदस्तु षड्ग्रामरागादिसमाधियुक्ताम् ।हृल्लीसकं तु स्वयमेव कृष्णः सवंशघोषं नरदेव पार्थः ॥६८॥मृदङ्गवाद्यानपरांश्च वाद्यान् वराप्सरस्ता जगृहुः प्रतीताः ।आसारितान्तं च ततः प्रतीता रम्भोत्थिता साभिनयार्थतज्ज्ञा ॥६९॥तयाभिनीते वरगात्रयष्ट्या तुतोष रामश्च जनार्दनश्च ।अथोर्वशी चारुविशालनेत्रा हेमा च राजन्नथ मिश्रकेशी ॥७०॥तिलोत्तमा चाप्यथ मेनका च एतास्तथान्याश्च हरिप्रियार्थम् ।जगुस्तथैवाभिनयं च चक्रु रिष्टैश्च कामैर्मनसोऽनुकूलैः ॥७१॥ता वासुदेवेऽप्यनुरक्तचित्ताः स्वगीतनृत्याभिनयैरुदारैः ।नरेन्द्रसूनो परितोषितेन ताम्बूलयोगाश्च वराप्सरोभिः ॥७२॥तदागताभिर्नृवराहृतास्तु कृष्णेप्सया मानमयास्तथैव ।फलानि गन्धोत्तमवन्ति वीराश्छालिक्यगान्धर्वमथाहृतं च ॥७३॥कृष्णेच्छया च त्रिदिवान्नृदेव अनुग्रहार्थं भुवि मानुषाणाम् ।स्थितं च रम्यं हरितेजसेव प्रयोजयामास स रौक्मिणेयः ॥७४॥छालिक्यगान्धर्वमुदारबुद्धिस्तेनैव ताम्बूलमथ प्रयुक्तम् ।प्रयोजितं पञ्चभिरिन्द्रतुल्यैश्छालिक्यमिष्टं सततं नराणाम् ॥७५॥शुभावहं वृद्धिकरं प्रशस्तं मङ्गल्यमेवाथ तथा यशस्यम ।पुण्यं च पुष्ट्यभ्युदयावहं च नारायणस्येष्टमुदारकीर्तेः ॥७६॥जयावहं धर्मभरावहं च दुःस्वप्ननाशं परिकीर्त्यमानम् ।करोति पापं च तथा विहन्ति शृण्वन् सुरावासगतो नरेन्द्रः ॥७७॥छालिक्यगान्धर्वमुदारकीर्तिर्मेने किलैकं दिवसं सहस्रम् ।चतुर्युगानां नृप रेवतोऽथ ततः प्रवृत्ता च कुमारजातिः ॥७८॥गान्धर्वजातिश्च तथापरापि दीपाद् यथा दीपशतानि राजन् ।विवेद कृष्णश्च स नारदश्च प्रद्युम्नमुख्यैर्नृप भैममुख्यैः ॥७९॥विज्ञानमेतद्धि परे यथावदुद्देशमात्राच्च जनास्तु लोके ।जानन्ति छालिक्यगुणोदयानां तोयं नदीनामथवा समुद्रः ॥८०॥ज्ञातुं समर्थो हि महागिरिर्वा फलाग्रतो वा गुणतोऽथ वापि ।शक्यं न छालिक्यमृते तपोभिः स्थाने विधानान्यथ मूर्च्छनासु ॥८१॥षड्ग्रामरागेपु च तत्तु कार्यं तस्यैकदेशावयवेन राजन् ।लेशाभिधानां सुकुमारजातिं निष्ठां सुदुःखेन नराः प्रयान्ति ॥८२॥छालिक्यगान्धर्वगुणोदयेषु ये देवगन्धर्वमहर्षिसंघाः ।निष्ठां प्रयान्तीत्यवगच्छ बुद्ध्या छालिक्यमेवं मधुसूदनेन ॥८३॥भैमोत्तमानां नरदेव दत्तं लोकस्य चानुग्रहकाम्ययैव ।गतं प्रतिष्ठाममरोपगेयं बाला युवानश्च तथैव वृद्धाः ॥८४.॥क्रीडन्ति भैमाः प्रसवोत्सवेषु पूर्वं तु बालाः समुदावहन्ति ।वृद्धाश्च पश्चात्प्रतिमानयन्ति स्थानेषु नित्यं प्रतिमानयन्ति ॥८५॥मर्त्येषु मर्त्यान् यदवोऽतिवीराः स्ववंशधर्मे समनुस्मरन्तः ।पुरातनं धर्मविधानतज्ज्ञाः प्रीतिः प्रमाणं न वयः प्रमाणम् ॥८६॥प्रीतिप्रमाणानि हि सौहृदानि प्रीतिं पुरस्कृत्य हि ते दशार्हाः ।वृष्ण्यन्धकाः पुत्रसखा बभूवुर्विसर्जिताः केशिविनाशनेन ॥८७॥स्वर्गे गताश्चाप्सरसां समूहाः कृत्वा प्रणामं मधुकंसशत्रोः ।प्रहृष्टरूपस्य सुहृष्टरूपा बभूव हृष्टः सुरलोकसङ्घः ॥८८॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि भानुमतीहरणे छालिक्यक्रीडावर्णने एकोननवतितमोऽध्यायः॥८९॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP