संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| एकोनसप्ततितमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - एकोनसप्ततितमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण एकोनसप्ततितमोऽध्यायः Translation - भाषांतर स्वर्गे महादेवस्य परिचर्याहेतु नृत्यगीतादिकं उत्सवं, नारदेन इन्द्रं प्रति श्रीकृष्णस्य पारिजातविषयकं प्रार्थनारूपं संदेशस्य कथनम्, इन्द्रेण अनेकानि कारणानि कथयित्वा पारिजातस्य अदानस्य विचारप्रकटनम्वैशम्पायन उवाचनारदोऽथ मुनिर्गत्वा महेन्द्रसदनं प्रति ।तां रात्रिमवसत् तत्र ददृशे च महोत्सवम् ॥१॥तत्रादित्या महात्मानो वसवश्च सुरोत्तमाः ।राजर्षयश्च विद्वांसः स्वर्गताः कर्मभिः शुभैः ॥२॥नागा यक्षाश्च सिद्धाश्च चारणाश्च तपोधनाः ।ब्रह्मर्षयश्च शतशो देवर्षिमनवस्तथा ॥३॥सुपर्णाश्च महात्मानो मरुतश्च महाबलाः ।दिवौकसां निकायाश्च शतशोऽन्ये समागताः ॥४॥उपर्युपरि सर्वेषां सोमो देवो महेश्वरः ।तस्थावमितविक्रान्तः स्वैर्गणैः परिवारितः ॥५॥देवर्षिँभिर्मुनिश्रेष्ठैः संवृतः सर्वभावनः ।कल्पान्तरसहस्रेषु क्षयो येषां न विद्यते ॥६॥यानर्चयन्ति सततं देवा देवेश्वरोपमाः ।आत्मना नावलेपान्धा ये च धर्मपथि स्थिताः ॥७॥रुद्राश्च काश्यपा देवमध्युपासन्त भारत ।स्कन्दश्च भगवानग्निर्गङ्गा च सरितां वरा ॥८॥अर्चिष्मांस्तुम्बुरुश्चैव भारिश्च वदतां वरः ।नेतारो देवदेवानामेते हि तपसान्विताः ॥९॥एताननुविधीयन्ते सर्वदेवगणा नृप ।धर्मनित्यास्तपोनित्याः सतां मार्गमुपाश्रिताः ॥१०॥ये त्विमे मानुषा देवानर्चयन्ति शुभार्थिनः ।तानर्चयन्ति ह्यमरास्तथा राजञ्छुभार्थिनः ॥११॥पितृकृत्येषु देवानां संन्यासं ये त्वनुष्ठिताः ।स्वाध्यायवन्तः कौरव्य सदा नियमचारिणः ॥१२॥गन्धर्वाधिपतिः श्रीमांस्तत्र चित्ररथो नृप ।सपुत्रो वादयामास देववाद्यानि हृष्टवत् ॥१३॥ऊर्णायुश्चित्रसेनश्च हाहा हूहूस्तथैव च ।डुम्बरस्तुम्बुरुश्चैव जगुरन्ये च षड्गुणान् ॥१४॥उर्वशी विप्रचित्तिश्च हेमा रम्भा च भारत ।हेमदन्ता घृताची च सहजन्या तथैव च ॥१५॥जुजोष भगवान् देवस्तदुपस्थानमात्मवान् ।वृत्तेन तुष्टः शक्रस्य जगाम जगतो गतिः ॥१६॥गते भूतपतौ सर्वे नृपा जग्मुर्यथागतम् ।महेन्द्रेणार्चिता देवाः स्वानेव निलयान्गताः ॥१७॥ततः सर्वेषु यातेषु सुखासीनं पुरंदरम् ।सदस्यैः स्वैः सहासीनं नारदोऽभिययौ मुनिः ॥१८॥तमिन्द्रः पूजयामास समुत्थाय तपोधनम् ।दिदेश कुशगर्भे च पीठमात्मासनोपमम् ॥१९॥नारदोऽथ महातेजा महेन्द्रमिदमब्रवीत् ।दूतोऽहममरश्रेष्ठ विष्णोरतुलतेजसः ॥२०॥किञ्चित्कार्यं पुरस्कृत्य प्रेषितोऽस्मि महात्मना ।आनर्तादार्तिहरणं तस्यैवानघतेजसः ॥२१॥प्रीतिवाक्यानि हृद्यानि प्रयुज्य मुनये तदा ।ततः प्रहृष्टो भगवानब्रवीत् पाकशासनः ॥२२॥किमाह पुरुषश्रेष्ठः शीघ्रमाचक्ष्व मे मुने ।चिरस्य खलु कृष्णेन संस्मृतोऽस्मि महात्मना ॥२३॥नारद उवाचमहेन्द्रेन्द्रानुजं द्रष्टुं गतोऽहं भ्रातरं तव ।कथञ्चिद्द्वारकां तत्र काश्यपानां यशस्करम् ॥२४॥तं तु रैवतकेऽद्राक्षं तदासीनमरिंदमम् ।रुक्मिण्या सहितं वीरमुमयेव वृषध्वजम् ॥२५॥पारिजाततरोः पुष्पं तस्य दत्तं मयानघ ।विस्मापनार्थं देवेश पत्नीनामुरुतेजसः ॥२६॥तद् दृष्ट्वा तस्य पत्न्यस्तु विस्मयं परमं ययुः ।बहुकामप्रदं पुष्पं वृक्षराजसमुद्भवम् ॥२७॥गुणास्तासां मया ख्यातास्तस्य पुष्पस्य मानद ।सृष्टिश्च पारिजातस्य कश्यपेन महात्मना ॥२८॥अदित्या कश्यपो दत्तः पुण्यार्थं च यथा मम ।पुष्पदाम्ना वेष्टयित्वा कण्ठे पुण्यार्थमात्मवान् ॥२९॥त्वं च दत्तो यथा शच्या देवाश्चान्ये सुरेश्वर ।निष्क्रयश्च यथा दत्तः कश्यपाद्यैर्महर्षिभिः ॥३०॥तच्छ्रुत्वा तस्य पत्न्येका सत्यभामेति विश्रुता ।पुण्यकार्यं मनश्चक्रे दयिता ते यवीयसः ॥३१॥तया चाभ्यर्थितो भर्ता देव देव्या गणेश्वरः ।प्रतिजज्ञे स धर्मार्थं यवीयांस्तव मानद ॥३२॥ततो मामुक्तवान् वीरो विष्णुर्बलवतां वरः ।यथावत्सुरमुख्येश ब्रुवतः शृणु भावतः ॥३३॥लालनीयो यवीयांस्तु प्रणिपत्याच्युतोऽब्रवीत् ।आनयेयं सुरश्रेष्ठ पारिजातं वरद्रुमम् ॥३४॥मनोरथोऽस्तु सफलो वध्वास्तेऽसुरसूदन ।धर्मकृत्ये विशेषेण वध्वास्ते सुरसत्तम ॥३५॥अयं दर्शितकल्याणो लोको लोकगणेश्वर ।पश्यन्त्यमरकल्याणं मत्प्रभावाच्च मानवाः ॥३६॥वैशम्पायन उवाचवासुदेववचः श्रुत्वा महेन्द्रः कुरुनन्दन ।नारदं वदतां श्रेष्ठमिदं वाक्यमथाब्रवीत् ॥३७॥भजासनं द्विजश्रेष्ठ युक्तमुक्तं त्वया द्विज ।संदेशं प्रतिदास्यामि विष्णोरतुलतेजसः ॥३८॥आसीने नारदे शक्रो लब्धानुज्ञोऽथ नारदात् ।स्वमासनं ततो भेजे तस्यैव सदृशं प्रभो ॥३९॥उपविष्टः सुरपतिरथोबाच तपोधनम् ।निरीक्ष्य स्वबलं वीर्यं हर्षदं वृत्रनाशनः ॥४०॥महर्षे कुशलं पृष्ट्वा वक्तव्यस्ते जनार्दनः ।वचनान्मम धर्मज्ञ सर्वभूतसुखावहः ॥४१॥मदनन्तरमीशस्त्वं जगतो नात्र संशयः ।त्वदीयः पारिजातश्च रत्नान्यन्यानि चाच्युत ॥४२॥त्वं तु भारावतरणं कर्तुं देव महीं गतः ।मानुष्यं सर्ववृत्तानां स्थितः कार्यस्य सिद्धये ॥४३॥त्वयि तीर्णप्रतिज्ञे हि पुनः प्राप्ते त्रिविष्टपम् ।पूरयिष्यामि वध्वास्ते इष्टान् कामानधोक्षज ॥४४॥स्वर्गीयानि च रत्नानि न नेतव्यानि केशव ।स्वल्पार्थे मानुषं लोकमिति पूर्वकृता स्थितिः ॥४५॥उत्क्रम्य हि स्थितिं दैवीं प्रवर्तामि महाबल ।यद्यहं किं प्रवक्ष्यन्ति प्रजापतिगणाः प्रभो ॥४६॥ब्रह्मणा सह पुत्रेण सपौत्रेण महात्मना ।नियमाः सर्वकृत्यानां स्थापिता जगतो ध्रुवाः ॥४७॥प्रजापतिकृतं मार्गमपास्य व्रजतो मम ।श्रुत्वा प्रजापतिर्धीमाञ्च्छापमप्युत्सृजेत् प्रभुः ॥४८॥अस्माभिर्भिद्यमानं हि मर्यादासेतुबन्धनम् ।भेत्स्यन्त्यशङ्किता दैत्या दैत्यपक्षास्तथापरे ॥४९॥स्त्रीनिमित्तमितो नीते पारिजाते द्रुमेश्वरे ।स्वर्गौकसो भविष्यन्ति विमनस्काश्च मानद ॥५०॥उपभोगा मनुष्याणां विहिता ये स्वयंभुवा ।तैस्तु तुष्यतु मे भ्राता सम्पश्यन्कालपर्ययम् ॥५१॥इहापि तात त्रिदिवे मम यः स्यात्परिग्रहः ।त्रिदिवस्थोऽपि तं कृष्णः सर्वं भोक्तुमिहार्हति ॥५२॥हृष्टो ह्यामिषभोज्यानामभिमानाज्जनार्दनः ।ततो धर्मं समुत्सृज्य पापमेवानुवर्तते ॥५३॥स्त्रीवश्यता ख्याप्यमाना कृष्णस्य हि महात्मनः ।जगत्यथशसा योगं जनयेदिति मे मतिः ॥५४॥मानुष्यं मानुषे प्राप्तो यदेतन्मधुसूदनः ।कुर्यान्निर्बन्धनीयं यद् भ्रात्रा ज्येष्ठेन नारद ॥५५॥स्वर्ग्यरत्नविलोपेन धर्षणा स्यान्ममानघ ।ज्ञातितो धर्षणा चैव विशेषेणैव गर्हिता ॥५६॥धर्ममर्थं च कामं च क्रमेण मधुसूदनः ।सेवत्वेष सतां धर्मान्स्थापितान् पद्मयोनिना ॥५७॥महीतलं पारिजातमर्पयिष्याम्यहं यदि ।पौलोमीमादितः कृत्वा को नु मां बहु मंस्यते ॥५८॥पारिजातं महीपृष्ठे दृष्ट्वा स्पृष्ट्वा च मानुषाः ।स्वर्गार्थे नोद्यमिष्यन्ति दृष्ट्वा स्वर्गफलं क्षितौ ॥५९॥पारिजातगुणान् मर्त्या जुषन्ति यदि नारद ।देवतानां मनुष्याणां न विशेषो भविष्यति ॥६०॥तत्र यत् क्रियते कर्म इह तद् भुज्यते नरैः ।स्वर्गार्थं न यतिष्यन्ति पारिजातगुणान्विताः॥६१॥सर्वरत्नवरः स्वर्गे पारिजातस्तपोधन ।तुल्यं देवसमैर्मर्त्यैः सर्वदैव जगद् भवेत् ॥६२॥यज्ञैर्मर्त्या न यक्ष्यन्ति लब्धस्वर्गफला भुवि ।न पूर्तानि प्रदास्यन्ति तुल्यत्वममरैर्गताः ॥६३॥यज्ञैर्जप्याह्निकैश्चैव नित्यमाप्याययन्ति नः ।मानुषाः स्वर्गमिच्छन्तः श्रद्दधानास्तपोधन ॥६४॥तत् सर्वं न करिष्यन्ति पारिजातगुणान्विताः ।निस्तेजसो भविष्याम ते गतास्तद्विहीनताम् ॥६५॥इतः सुवृष्ट्या सस्यैस्ते जीवन्ति पुरुषा भुवि ।आप्याययन्तस्तेऽप्यस्मान् दानैर्यज्ञैस्तथैव च ॥६६॥न बुभुक्षा पिपासा वा बाधते यदि मानुषान् ।रोगो जरा वा मृत्युर्वा धर्मज्ञारतिरेव च ॥६७॥दौर्गन्ध्यं वा सुघोरा वा ईतयः कर्मसम्भवाः ।किमुद्योगं करिष्यन्ति पारिजातगुणान्विताः ॥६८॥सर्वथा नयनं तत्र पारिजातस्य न क्षमम् ।इति वाच्यस्त्वया विप्र विष्णुरक्लिष्टकर्मकृत् ॥६९॥यथा यथा च मे भ्राता तुष्यत्येतद् विचारयन् ।तथा तथा त्वया कार्यं कार्यं मत्प्रीतिमिच्छता ॥७०॥हाराश्च मणयश्चैव चन्दनान्यगुरूणि च ।वस्त्राणि च विचित्राणि वध्वास्त्वं द्वारकां नय ॥७१॥योग्यानि यानि मर्त्यानां यावदिच्छति केशवः ।न स्वर्गपरिमोषं तु कर्तुमर्हति साम्प्रतम् ॥७२॥ददामि रत्नानि यथेप्सितान्यहं बहूनि चित्राणि विभूषणानि च ।न पारिजातं च कथंचन द्रुमं मुने प्रदास्यामि दिवौकसां प्रियम् ॥७३॥इति श्रीमहाभारते खिलभागे हरिवंशे विष्णुपर्वणि पारिजातहरणे इन्द्रवाक्ये एकोनसप्ततितमोऽध्यायः ॥६९॥ N/A References : N/A Last Updated : July 19, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP