संस्कृत सूची|संस्कृत साहित्य|पुराण|हरिवंशपुराणम्|विष्णु पर्व| सप्तमोऽध्यायः विष्णु पर्व प्रथमोऽध्यायः द्वितीयोऽध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोऽध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पञ्चत्रिंशोऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टात्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशोऽध्यायः पञ्चचत्वारिंशोऽध्यायः षट्चत्वारिंशोऽध्यायः सप्तचत्वारिंशोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोऽध्यायः पञ्चाशत्तमोऽध्यायः एकपञ्चाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुष्पञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुःषष्टितमोऽध्यायः पञ्चषष्टितमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टषष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षट्सप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्यायः एकोनाशीतितमोऽध्यायः अशीतितमोऽध्यायः एकाशीतितमोऽध्यायः द्व्यशीतितमोऽध्यायः त्र्यशीतितमोऽध्यायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः अष्टाशीतितमोऽध्यायः एकोननवतितमोऽध्यायः नवतितमोऽध्यायः एकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः अष्टनवतितमोऽध्यायः नवनवतितमोऽध्यायः शततमोऽध्यायः एकाधिकशततमोऽध्यायः द्व्यधिकशततमोऽध्यायः त्र्यधिकशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडधिकशततमोऽध्यायः सप्ताधिकशततमोऽध्यायः अष्टाधिकशततमोऽध्यायः नवाधिकशततमोऽध्यायः दशाधिकशततमोऽध्यायः एकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाधिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशत्यधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशततमोऽध्यायः षड्विंशत्यधिकशततमोऽध्यायः सप्तविंशत्यधिकशततमोऽध्यायः अष्टाविंशत्यधिकशततमोऽध्यायः विष्णुपर्व - सप्तमोऽध्यायः महर्षी व्यासांनी रचलेला हा महाभारताचा पुरवणी ग्रंथ आहे. Tags : harivansha puranpuransanskritपुराणसंस्कृतहरिवंश पुराण सप्तमोऽध्यायः Translation - भाषांतर श्रीकृष्णबलरामाभ्यां व्रजे जानुभ्यां रिङ्गणम् एवं श्रीकृष्णेन आत्मानं उलूखले बद्ध्वा यमलार्जुनभङ्गकरणम्वैशम्पायन उवाचकाले गच्छति तौ सौम्यौ दारकौ कृतनामकौ ।कृष्णसंकर्षणौ चोभौ रिङ्गिणौ समपद्यताम् ॥१॥तावन्योन्यगतौ बालौ बाल्यादेवैकतां गतौ ।एकमूर्तिधरौ कान्तौ बालचन्द्रार्कवर्चसौ ॥२॥एकनिर्माणनिर्मुक्तावेकशय्यासनाशनौ ।एकवेषधरावेकं पुष्यमाणौ शिशुव्रतम् ॥३॥एककार्यान्तरगतावेकदेहौ द्विधाकृतौ ।एकचर्यौ महावीर्यावेकस्य शिशुतां गतौ ॥४॥एकप्रमाणौ लोकानां देववृत्तान्तमानुषौ ।कृत्स्नस्य जगतो गोपौ संवृत्तौ गोपदारकौ ॥५॥अन्योन्यव्यतिषक्ताभिः क्रीडाभिरभिशोभितौ ।अन्योन्यकिरणग्रस्तौ चन्द्रसूर्याविवाम्बरे ॥६॥विसर्पन्तौ तु सर्वत्र सर्पभोगभुजावुभौ ।रेजतुः पांसुदिग्धाङ्गौ दृप्तौ कलभकाविव ॥७॥क्वचिद् भस्मप्रदीप्ताङ्गौ करीषप्रोक्षितौ क्वचित् ।तौ तत्र पर्यधावेतां कुमाराविव पावकी ॥८॥क्वचिज्जानुभिरुद्घृष्टैः सर्पमाणौ विरेजतुः ।क्रीडन्तौ वत्सशालासु शकृद्दिग्धाङ्गमूर्धजौ ॥९॥शुशुभाते श्रिया जुष्टावानन्दजननौ पितुः ।जनं च विप्रकुर्वाणौ विहसन्तौ क्वचित्क्वचित् ॥१०॥तौ तत्र कौतूहलिनौ मूर्धजव्याकुलेक्षणौ ।रेजतुश्चन्द्रवदनौ दारकौ सुकुमारकौ ॥११॥अतिप्रसक्तौ तौ दृष्ट्वा सर्वव्रजविचारिणौ ।नाशकत् तौ वारयितुं नन्दगोपः सुदुर्मदौ ॥१२॥ततो यशोदा संक्रुद्धा कृष्णं कमललोचनम् ।आनाय्य शकटीमूले भर्त्सयन्ती पुनः पुनः ॥१३॥दाम्ना चैवोदरे बद्ध्वा प्रत्यबन्धदुलूखले ।यदि शक्तोऽसि गच्छेति तमुक्त्वा कर्म साकरोत् ॥१४॥व्यग्रायां तु यशोदायां निर्जगाम ततोऽङ्गणात् ।शिशुलीलां ततः कुर्वन्कृष्णो विस्मापयन्व्रजम् ।सोऽङ्गणान्निःसृतः कृष्णः कर्षमाण उलूखलम् ॥१५॥यमलाभ्यां प्रवृद्धाभ्यामर्जुनाभ्यां चरन् वने ।मध्यान्निश्चक्राम तयोः कर्षमाण उलूखलम् ॥१६॥तत्तस्य कर्षतो बद्धं तिर्यग्गतमुलूखलम् ।लग्नं ताभ्यां समूलाभ्यामर्जुनाभ्यां चकर्ष च ॥१७॥तावर्जुनौ कृष्यमाणौ तेन बालेन रंहसा ।समूलविटपौ भग्नौ स तु मध्ये जहास वै ॥१८॥निदर्शनार्थं गोपानां दिव्यं स्वबलमास्थितः ।तद्दाम तस्य बालस्य प्रभावादभवद् दृढम् ॥१९॥यमुनातीरमार्गस्था गोप्यस्तं ददृशुः शिशुम् ।क्रन्दन्योर् विस्मयन्त्यश्च यशोदां ययुरङ्गनाः ॥२०॥तास्तु सम्भ्रान्तवदना यशोदामूचुरङ्गनाः ।एह्यागच्छ यशोदे त्वं सम्भ्रमात् किं विलम्बसे॥२१॥यौ तावर्जुनवृक्षौ तु व्रजे सत्योपयाचनौ ।पुत्रस्योपरि तावेतौ पतितौ ते महीरुहौ ॥२२॥दृढेन दाम्ना तत्रैव बद्धो वत्स इवोदरे ।जहास वृक्षयोर्मध्ये तव पुत्रः स बालकः ॥२३॥उत्तिष्ठ गच्छ दुर्मेधे मूढे पण्डितमानिनि ।पुत्रमानय जीवन्तं मुक्तं मृत्युमुखादिव ॥२४॥सा भीता सहसोत्थाय हाहाकारं प्रकुर्वती ।तं देशमगमद् यत्र पातितौ तावुभौ द्रुमौ ॥२५॥सा ददर्श तयोर्मध्ये द्रुमयोरात्मजं शिशुम् ।दाम्ना निबद्धमुदरे कर्षमाणमुलूखलम् ॥२६॥सगोपीगोपवृद्धश्च समुवाच व्रजस्तदा ।पर्यागच्छन्त ते द्रष्टुं गोपेषु महदद्भुतम् ॥२७॥जजल्पुस्ते यथाकामं गोपा वनविचारिणः ।केनेमौ पातितौ वृक्षौ घोषस्यायतनोपमौ ॥२८॥विना वातं विना वर्षं विद्यत्प्रपतनं विना ।विना हस्तिकृतं दोष केनेमौ पातितौ द्रुमौ ॥२९॥अहो बत न शोभेतां विमूलावर्जुनाविमौ ।भूमौ निपतितौ वृक्षौ वितोयौ जलदाविव ॥३०॥यदीमौ घोषरचितौ घोषकल्याणकारिणौ ।नन्दगोप प्रसन्नौ ते द्रुमावेवं गतावपि ।यच्च ते दारको मुक्तो विपुलाभ्यामपि क्षितौ ॥३१॥औत्पातिकमिदं घोषे तृतीयं वर्तते त्विह ।पूतनाया विनाशश्च द्रुमयोः शकटस्य च ॥३२॥अस्मिन् स्थाने च वासोऽयं घोषस्यास्य न युज्यते ।उत्पाता ह्यत्र दृश्यन्ते कथयन्तो न शोभनम् ॥३३॥नन्दगोपस्तु सहसा मुक्त्वा कृष्णमुलूखलात् ।निवेश्य चाङ्के सुचिरं मृतं पुनरिवागतम् ॥३४॥नातृप्यत् प्रेक्षमाणो वै कृष्णं कमललोचनम् ।ततो यशोदां गर्हन् वै नन्दगोपो विवेश ह ॥३५॥स च गोपजनः सर्वो व्रजमेव जगाम ह ।स च तेनैव नाम्ना तु कृष्णो वै दामबन्धनात् ।गोष्ठे दामोदर इति गोपीभिः परिगीयते ॥३६॥एतदाश्चर्यभूतं हि बालस्यासीद् विचेष्टितम् ।कृष्णस्य भरतश्रेष्ठ घोषे निवसतस्तदा ॥३७॥इति श्रीमहाभारते खिलमागे हरिवंशे विष्णुपर्वणि शिशुचर्यायां यमलार्जुनभङ्गो नाम सप्तमोऽध्यायः ॥७॥ N/A References : N/A Last Updated : July 18, 2018 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP