संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|

उत्तर पर्व - अध्याय १३९

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

पुरा देवासुरे युद्धे ब्रह्मद्यैरमरैर्मृप । विजयार्थ महेन्द्रस्य ध्वजयष्टिः प्रतिष्ठिता ॥१॥

मेरोरुपरि संस्थाप्य सिद्धविद्याधरोरगैः । सा देवी ह्यर्चिता नित्यं भूषणैर्भूषिता स्वकैः ॥२॥

स्वच्छत्रघंटापिटकैः किंकिणीबद्धबुद्रुदैः । तां दृष्ट्राव दानवा नष्टा भयादेव रणे हताः ॥३॥

गताः रसातलं दैत्या देवाश्वापि दिवि स्थिताः । ततः प्रभृति तां दिव्यामिंद्रयष्टिं यजंति ते ॥४॥

देवाः सर्वे गणाः सर्वे हृष्टास्तुष्टा युधिष्ठिर । अतः स्वर्ग गतो राजा भूरिपुण्यवशाद्वसुः ॥५॥

इन्द्रलोके महाभागो वसुदेवैः सुपूजितः । तरमै दत्ता महेन्द्रेण वसुयष्टिः प्रगृह्यताम् ‍ ॥६॥

पूजयित्वा महाभाग सर्वदैत्यानुत्तये । अवतार्य वर्षासमये सर्वैर्नृपतिभिः सह ॥७॥

मह्यां संपूजयामासचक्रं चेन्द्रमहं वसुः । महेन मधवा प्रीतो ददौ पुण्यं वसोर्वरस ॥८॥

येषु देशेषु मनुजा भक्तिभावपुरः सराः । पूजयिष्यंति वर्षान्ते मया दत्तं महाध्वजम् ‍ ॥९॥

तेषु देशेषु मुदिताः प्रजा रोगविवर्जिताः । प्रभूतान्ना धर्मयुक्ता वृषमेधा महोत्सवाः ॥१०॥

भविष्यंति सुवेषाश्व सुभाषाश्व सुभूषणाः । श्रुत्वैतद्वचनं राजा वसुर्वसुमतां वरः ॥११॥

विशेषेण ततश्वक्रे वर्षे वर्षे महोत्सवम् ‍ । श्रवणे स्थापयेद्यष्टिं स्त्रानवस्त्रैः प्रपूजिताम् ‍ ॥१२॥

दैर्घ्येण विंशतिकरां सारदारुमयीं शुभाम् ‍ । इन्द्रस्थाने पुरोद्दिष्टे इन्द्रमातृकसंज्ञके ॥१३॥

तस्मिन्यष्टिं नृपो भोक्ता स्वयं यत्नेन योजयेत् ‍ । वस्त्रैर्विचित्रेः संवीतां पिटिकालंकृतां तथा ॥१४॥

पिटिकानां महाराज क्रमं च कथयामि ते । प्रथमं लोकपालाख्यं चतुरस्रं सकर्णिकम् ‍ ॥१५॥

यमेन्द्रधनदैर्युक्तं वरुणेन समंततः । वृत्तं षडास्त्रकं रम्यं द्वितीयं रक्तचूर्णितम् ‍ ॥१६॥

तृतीयं श्वेतकं चित्रमष्टास्त्रंपिटकंशुभम् ‍ । चतुर्थमिन्द्रगोपालवृत्तं मातृसमावृतम् ‍ ॥१७॥

पञ्चमं चाष्टकोणं तु शुल्कं धातुविचित्रितम् ‍ । कृष्णकर्णिकया षष्ठं वृत्तं बुद्‌बुदशोभितम् ‍ ॥१८॥

सप्तमंचाष्टकोणंतुशुल्कंविद्याधरैर्युतम् ‍ । अष्टमं पिटकं वृत्तं वरत्रासूव्रवेष्टितम् ‍ ॥१९॥

नवग्रहयुतं दीप्तं नवमं च सत्वंडिकम् ‍ । ब्रह्मविष्ण्वीशसहितं दशमं शिवसंस्थितम् ‍ ॥२०॥

कृष्णमेकादशं दीप्तं नवमं युधिष्ठिर । छात्रं द्वादशमं शुल्कं ध्वजदीर्घ त्रयोदशम् ‍ ॥२१॥

सकुशं पुष्पस्त्रग्दामघंटीचामरचर्चितम् ‍ । बंधयित्वा चंद्रपादै रज्जुभिः स्थूणिकां नरैः ॥२२॥

शनैरुत्थापयेत्पार्थ हुत्वा वैश्वानरं द्विजान् ‍ । दक्षिणाभिश्व संपूज्यं गुडपायसपूपकैः ॥२३॥

कुर्यान्सहोत्सवं राजा दिनानि नव सप्त वा । प्रेक्षणीयैर्महादानैर्मटैर्गीतैः कथानकः ॥२४॥

चक्रदोलाभरोत्सर्गैः कर्कैटैर्मल्लयोधनैः । वेश्यांगनानरैर्हृष्टैर्द्यतक्रीडामहोत्सवैः ॥२५॥

कर्पूरवस्त्रदानैश्व सम्मानैश्व परस्परम् ‍ । रात्रौ प्रजागरः कार्यो रक्षणाय प्रयत्नतः ॥२६॥

काकोलूककपोतानां येन पातो न विद्यते । काकाद्भवति दुर्भिक्षं कौशिकान्म्रियते नृपः ॥२७॥

कपोताच्च प्रजानाशस्ततो रक्षेत्सदोद्यतः । शैथिल्या दपराधे हि महाहानिः प्रजायते ॥२८॥

तस्मिन्देशे शमुत्थानमिद्रकेतोर्न कारयेत् ‍ । यावत्तु नीयते स्थानादन्यरमादैद्रजो ध्वजः ॥२९॥

इंद्रध्वजसमुत्थानं प्रमादान्न कुतं यदि । ततो द्वादशमे वर्ष कर्तव्यं नांतरेपुनः ॥३०॥

कथंचिद्यदि विघ्नः स्याद्विपाकं मे निबोध वै । छत्रभंगे च्छत्रभंगो ध्वजे राष्ट्रं विनष्यति ॥३१॥

मस्तके मन्त्रविच्छेदो सुखे मुख्यबलक्षयः । बाहुदंडे बदेत्पीडां जठरे जाठरं भयम् ‍ ॥३२॥

वरत्रायां मित्रनाशः स्थूणिकासु पदातयः । क्षयं गच्छंति राजेन्द्र तस्माद्यत्नात्पुरंदरम् ‍ ॥३३॥

उत्थाप्य पूजयेद्भवत्या दिवारात्रमतंद्रितः । प्रसादात्पतिते भग्ने मते चेन्द्रध्वजे दिधा ॥३४॥

सौवर्ण रौप्यकं कृत्वा पूर्णमुथापयेदूध्वजम् ‍ । शांतिकं पौष्टिकं कृत्वा द्विजेभ्योन्नं प्रदापयेत् ‍ ॥३५॥

त्रपुषैः कर्कटभिश्व नालिकेरैः कपित्थकैः । बीजपूरैः सनारंगैर्भक्ष्यानैर्विविधैस्तथा ॥३६॥

नैवेद्यादिभिरभ्यर्च्य मंत्रेणानेनतोषयेत् ‍ । वज्रहस्त सुरारिघ्न बहुनेत्र पुरंदर ॥३७॥

क्षेमार्थं सर्वलोकस्य पूजेयं प्रतिगृह्यताम् ‍ । श्रवणाद्भरणीं यावत्पूजां कृत्वा विधानतः ॥३८॥

रात्रौ विसजयेच्छक्रं मंत्रेणानेन पांडव । सार्ध सुरासुरगणैः पुरंदरशत्रक्रतो ॥३९॥

गृहीत्वैनं महेन्द्रध्वज गम्यताम् ‍ । एवं यः कुरुते यात्रमिन्द्रकेतोर्युधिष्ठिर ॥४०॥

पर्जन्य़ः । कामवर्षी स्यात्तस्मिन्रष्ट्रे न संशयः । ईतयो न प्रवर्तत तस्मिन्मृत्युकृतं भयम् ‍ ॥४१॥

विजित्य शतून्समरे वंश कृत्वा महीतलम् ‍ । भुक्त्वा राज्यं चिरं कालमिन्द्रलोकेमहीयते ॥४२॥

राष्ट्रे पुरे च नगरे सुरराजकेतोर्यत्रोत्सवो नृपजनैः क्रियते समेत्य । दुष्टोपसर्गजनित्म परचक्रजं वा तस्मिन्मये भवति पार्थ च किञ्चिदेव ॥४३॥ [ ६१२५ ]

इति श्रीभविष्ये महापुराणे श्रीकृष्णयुधिष्ठिरसंवादे महेन्द्रध्वजमहोत्सववर्णनं मयिको नचवारिंशदुत्तशततमोऽध्यायः ॥१३९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP