TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय १३

उत्तर पर्व - अध्याय १३

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


अध्याय १३

युधिष्ठिर उवा च ॥

जातिस्मरत्वं देवेश दुष्याप्यमिति मे मतिः । तदहं ज्ञातुमिच्छामि प्राप्यते केन कर्मणा ॥१॥

वरप्रदानाद्देवानामृषीणां सेवनेन वा । तीर्थखाने न वा देव तपोहोमव्रतेन वा ॥२॥

श्रीकृष्ण उवाच ॥ चत्वारि राजन्भद्राणि समुपोष्याणि यत्ननः । तत्पभावाद्भवेन्नूनं राजञ्जातिस्मरो नरः ॥३॥

शृभोदयः पुरा वैश्यो बभूव यमुनातटे । तेन व्रतमिदं चीर्णं मृतः कालक्रमादसौ ॥४॥

संजयस्य सुनो जातः स्वर्णष्ठीवीति विश्रुतः । व्रतप्रभावाज्जातिज्ञः स च चौरौर्निपातितः ॥५॥

नारद्स्य प्रभावेण पुनरुज्जीव्यतेऽप्यसौ । सस्मार पूर्ववृतान्तं सकलं व्रतधर्मतः ॥६॥

युधिष्ठिर उवाच ॥ संजयस्य कथं पुव्रः स्वर्णष्ठीवीति वा कथम् ‍ । दस्युभिश्व कथं नीतो मृत्युं वै जीवितः कथम् ‍ ॥७॥

श्रीकृष्ण उवाच ॥ संजयो नाम राजासीत्कुशावत्यां नराधिप । तस्य देवर्षी मिव्रे च सदा नारदपवतौ ॥८॥

एकदा संजयगृहं संप्राप्तौ तौ यद्दच्छया । स्वागतासनदानाद्यैरुपचारैरपूजयत् ‍ ॥९॥

तेषामथोपविष्टानां पूर्ववृत्तान्तभाषिणौ । संजयस्य सुता प्राप्त तरुणि पिनुरन्तिकम् ‍ ॥१०॥

पर्वतः प्राह राजानं कन्येयं वरवर्णिनी । गुप्तगुल्फा संहतोरूः पीनश्रोणिपयोधरा ॥११॥

पद्यपव्रेक्षणनखा पद्यक्रिञ्जल्कसप्रभा । आकुञ्जितमृदुस्त्रिग्घैः केशैरविततैर्घनैः ॥१२॥

सविलासा गजगतिः सुनासा कोकिलस्वरा । अहो रूपमहो धैर्यमहो लावण्यमुत्तमम् ‍ ॥१३॥

नित्लपुष्पस्फुटा नासा रूपं संपरिलक्ष्यते । कस्येयं भद्रिका भद्रा ममातिह्रदयङ्गमा ॥१४॥

एवं ब्रुवाणं त विप्रं विस्मयोत्फुल्ललोचनम् ‍ । स राजा प्राह कन्येयं दुहिता मम पर्वत ॥१५॥

अथोवाच नृपं धीमान्नारदः क्षुभितेन्द्रियः । रजन्निवेष्टुकामोऽहं कन्येयं मम दीयताम् ‍ ॥१६॥

ईप्सितं तव दास्यामि वरं मर्त्येषु दुर्लभम् ‍ । एवमुक्तो नारदेन प्रीत्तात्मा संजयस्तदा ॥१७॥

कृताञ्चलिरुवाचेदं प्रहर्षोत्फुल्ललोचनः । पुव्रो मे दीयतां क्षिप्रप्तक्षीणकनकाकरः ॥१८॥

यस्य मूव्रं परीषं वा श्लेष्माणं क्षिपति क्षितौ । जातरूपं हि तत्सर्वं सुवर्णं भवतु स्थिरम् ‍ ॥१९॥

एवमस्त्विति तं राजन्नारदः मत्यभाषत । सुवर्णष्ठीविनं पुव्रं ददामि तव सुव्रत ॥२०॥

एवमुक्त्वा स तां कन्यां सालङ्कारां सुमध्यमाम् ‍ । विवाहयामास तया नारदो ह्रष्टमानसः ॥२१॥

तत्तस्य चेष्टितं द्दष्ट्र्वा पर्वतः क्रोधमूर्छितः । उवाच नारदं रोषाद्दीप्ताक्षः स्फुरिताधरः ॥२२॥

मयेयं प्रार्थिंता पूर्वं ताया यत्माद्विवाहिता । तस्मान्मया समं स्वर्गं न गन्तासि कथञ्चन ॥२३॥

दत्तस्त्वघास्य यः पुव्रो वरदानेन नारद । सोऽपि चौरैरभिहतः पञ्चत्वमुपयास्यति ॥२४॥

एवमुक्तः पर्वतेन नारदः प्राह दुर्मनाः । न त्वं धर्मं विजानासि किञ्चिन्मूढोऽसि दुर्मते ॥२५॥

सामान्यं सर्वभूतानां कन्पा भवति सुव्रा । न तस्या वरणे दुःखं पश्यन्तीह बहुश्रुताः ॥२६॥

न सेवितास्त्वया वृद्वास्तेन मां शपते रुवा । पाणिग्रडणमन्वाणां निष्ठा स्यात्पप्तमे पदे ॥२७॥

यस्मादेतदविज्ञाय शपते मामनागप्रम् ‍ । तप्त्मात्त्वमप्यहो स्वर्गं न गन्ताति मया विना ॥२८॥

संजयस्य सुतः शापाद्यदि पञ्चत्वमंष्यति । आनयिष्ये तथःप्येनं यमलोकान्न संशयः ॥२९॥

एवं शप्त्वा तदाऽन्योन्यं देवार्षा तावुमौ पुन । पूनितौ संजयेनाथ जग्मतुः स्वाश्रमं प्रति ॥३०॥

अथास्य सप्तमे मासि जातः पुव्रो नृस्थि सः । स्वर्गष्ठीवीति नामास्य यथार्थमकरोत्पिता ॥३१॥

जातिस्मरः स्मरवपुः सुवर्गांत्पत्तिकारणम् ‍ । सर्वभुततरुज्ञोऽभूद्भद्रवतफलादिह ॥३२॥

मूव्रश्लेष्मपुरीषादि यत्किश्चिपति क्षितौ । जायते कनकं सर्वं प्रमादान्नारदस्य च ॥३३॥

तेनासौ यजते राजा विधिवद्नूरिदक्षिणैः । राजसूयादिभिर्यज्ञैर्विविधैर्ब्राह्मणैर्वृतः ॥३४॥

बभार भृत्याननिरां पुपोष स्वजनातिथीन् ‍ । चकार देवतागारसरश्वारामवाटिकाः ॥३५॥

जातस्त्रेहं तथा पुवं ररक्ष रक्षिभिर्वृतः । राशय कनकध्यास्य बभूवुर्वृतेः सुतात् ‍ ॥३६॥

अथास्थ दस्यचः केचिच्छुत्वा तं कनकाकरम् ‍ । धनलोलुपया जघ्नुर्दाक्षिणात्या मदोद्धताः ॥३७॥

तस्मिन्विलष्टे तन्नष्टं वरदानसमुद्बत्रम् ‍ । कनकं तदपश्यन्तो जग्मुरन्योन्यतः क्षयम् ‍ ॥३८॥

पातितं दस्युभिः पुव्रं द्दष्ट्रवा राजा सुदुःखितः । विललापाकुलमतिः स मुमोह पपात च ॥३९॥

विलपन्तं तु तं द्दष्टचा नारदः प्राह सञ्चपम् ‍ । राजन्त्रिषादं मा कार्षीः शृण्विमां भारतीं मम ॥४०॥

इत्युक्त्वा स समाचख्यौ चरितानि महौजप्ताम् ‍ । विशिष्टानां नरेन्द्राणां यतीनां दक्षिणावताम् ‍ ॥४१॥

श्रुत्वा राजा नरेन्द्राणाम चरितानि महात्मताम् ‍ । विनद्दशोकः सहसा प्रकृतिस्थो बभूव सः ॥४२॥

नारदोऽपि नरेन्द्रस्य मृतं पुव्रं यमालयात् ‍ । आनयामास तरसा तथारूपं यथा हतम् ‍ ॥४३॥

द्दष्टृवा स्पृष्ट्रवा स पुव्रं तं परितुष्टेन चेतसा । व्रीडितो विस्मितश्वैव कृताञ्जलिरथाब्रवीत् ‍ ॥४४॥

किमाश्वर्ये प्रसन्नेन भवता मम नारद । दत्तः पुव्रस्तथाभूतो दस्युभिर्घातितो यथा ॥४५॥

षण्मासान्ते पुनरसौ जिव्रितं सर्वमेव तत ‍ । सस्मार पूर्वं वृत्तान्तं भद्राणां पारणात्किल ॥४६॥

एतत्ते सर्वमाख्यातं जातिस्माणकारकम् ‍ । व्रतं व्रताधिकं श्रेष्ठं किमन्यक्तथयामि ते ॥४७॥

श्रीकृष्ण उवाच ॥ ब्राह्मणाश्वैव शूद्राश्व कुले महति जन्म च । दाता क्षमी धणी वाग्मी रूपी स्त्रैर्भद्रकैर्भवेत् ‍ ॥४८॥

चत्वारि राजन्भद्राणि चतुष्पादानि तानि वै । तान्येव बहुविन्घानि दुष्याप्यान्यकृतात्मभिः ॥४९॥

मार्गशीर्षे तु प्रयमं द्वितीयं फाल्गुने तथा । ज्येष्ठे तृतीयं राजेन्द्र ख्यातं भाद्रपदे परम् ‍ ॥५०॥

फाल्गुनामलपक्षादौ वीन्मासांस्तु नाराधिप । तत्व्रिपुष्पमिति ख्यातं तपस्याकरणं परम् ‍ ॥५१॥

ज्येष्ठस्य शुक्लपक्षादौ व्रीन्वै मासान्युधिष्ठिर । तत्विराममिति ख्यातं सत्यशौर्यप्रदायकम् ‍ ॥५२॥

शुक्ले भाद्रपदस्यादौ व्रीन्मासान्पाण्डुनन्दन । तत्व्रिरङ्गमिति ख्यात बहुविद्याप्रदायकम् ‍ ॥५३॥

शुक्लभार्गशिरस्यादौ व्रीन्मासंस्तु नराधिप । तद्विष्णुपदमित्युक्तं सर्वधर्मप्रदायकम् ‍ ॥५४॥

समासेनैव चोक्तानि भद्राण्येतानि भारत । कर्तव्यानि नरैः स्त्रीभिर्ब्राह्मणानुमतेन वा ॥५५॥

युधिष्ठिर उवाच ॥ विस्तरेणैव मे ब्रूहि देवदेव जगत्पते । भद्राणां नियमाधानं प्रधाननियमांस्तथा ॥५६॥

श्रीभगवानुवाच । शुण राजन्नवहितो भद्राणां विस्तरं परम् ‍ । कथयिष्ये न कथितं कस्यचिद्यन्मया पुरा ॥५७॥

शुक्ले मार्गशिरस्यादौ चत्वारस्तिथयो वराः। द्वितीया च नृतीया च चतुर्थी पञ्चमी तथा ॥५८॥

एकभुक्तासनस्तिष्ठेत्प्रतिपद्यां जितेन्द्रियः । प्रभाते तु द्वितीयायां कृत्वा यत्करणीयकम् ‍ ॥५९॥

प्रहरव्रये समधिके गते स्त्रानं समाचरेत् ‍ । मृद्नोमय च संगृह्य मन्व्रैरेभिर्वित्तक्षणः ॥६०॥

अहं ते तु प्रदिश्यामि मन्व्राणां विधिमुत्तमम् ‍ । येषां देयो न देयो वा तच्छृणुष्व वदामि ते ॥६१॥

ब्राह्मणाः क्षव्रिया वैश्याः शूद्रा ये शुचषोऽमलाः । तेषां मन्व्राः प्रदेया वै न तु संकीर्णधर्मिणाम् ‍ ॥६२॥

या स्त्री भर्व्रा वियुक्तापि स्वाचारैः संयुता शुभा । सा च मन्व्रान्प्रगृह्लातु सभर्व्रा तदनुज्ञया ॥६३॥

स्त्रानं नदीतडागे वा वापीकूपगृहेपि वा । दशोनरफलं लेयमधिकं हि समन्व्रकम् ‍ ॥६४॥

मृदं मन्व्रेण संगृह्म सर्वङ्गेषु प्रदापयेत् ‍ । त्वं मृदे वन्दिता देवैः समलैर्दैत्यघातिभिः ॥६५॥

मयापि वन्दिता भक्त्या मामतो विमल कुरु ॥६६॥

मृन्मन्व्राः ॥ एवं जपन्मृदं दत्त्वा स्वहस्ताग्रे समन्व्रकम् ‍ । जलावगाहनं कृर्यात्कुण्डमालिख्य धर्मवित् ‍ ॥६७॥

सिद्धार्थकैः कृष्णतिलैर्वचासर्वौषधीः क्रमात् ‍ । त्वमादिः सर्वदेवानां च जगन्मये ॥६८॥

भूतानां वीरुधां चैव रसानां पतये नमः । गङ्गसागरजं तोयं पौष्करं नार्मदं नथा ॥६९॥

पामुनं सांनिहत्यं च सनिधानमिहास्तु मे ॥७०॥

स्नानमन्व्रः ॥ शरीरालम्भनं पूर्वं कृत्वा मृद्नोमया म्बुभिः । एवं स्नात्वा समाप्लुत्य आचम्य तटमास्थितः ॥७१॥

निवस्य वाससी शुभे शुचिः प्रयतमानसः । देवान्पित्तृन्मनुष्यांश्व तर्पयेत्सुसमाधिना ॥७२॥

एवं गुहीतनियमो गृहं गच्छेच्छचिव्रतः । उपविश्य न संजल्पेद्यावच्चन्द्रस्य दर्शनम् ‍ ॥७३॥

स्त्रात्वा चैव ततो नाम तृतीयादिचतुर्दिने । नमः कृष्णाच्युतानन्त ह्रषीकेशेति च क्रमात् ‍ ॥७४॥

चतुर्दिने द्वितियादि देव भ्यर्चयेऽच्युतम् ‍ । प्रथमेह्लि स्मृता पूजा पादयोश्वक्रधारिणः ॥७५॥

नाभिपूजा द्वितीयेह्लि कर्तव्या विधिवद्वरैः । मुरद्विषस्नृतीयोह्रि पूजां वक्षसि विन्यसेत् ‍ ॥७६॥

चतुर्थेह्लि जगद्धातुः पूजा शिरसि कल्पयेत् ‍ । पुष्पैर्विलेपनैर्धूपैर्घ्यं दद्युर्विभूषणैः ॥७७॥

घीवरैर्हरिनैवेद्यैदर्पिदानैश्व भक्तितः । पूजयित्वा विधानेन विष्णुं विश्वेश्वरं व्रती ॥७८॥

ततो दिनावसाने तु मूहूर्ते निर्गते सति । अर्ध्यं प्रदद्यात्सोमाय भक्त्या तद्भावभावितः ॥७९॥

शशिचन्द्रशशाङ्केन्दुनामानि क्रमशो नरः। तृतीयादिषु चन्द्रस्य संकीर्त्यार्घं निवेदयेत् ‍ ॥८०॥

स चाघों याद्दशो देय क्रद्धिमद्भिरथेतरैः । तत्ते सम्यक्प्रवक्ष्यामि युधिष्ठिर निबोध मे ॥८१॥

चन्दनागरुकर्पूरदधिदूर्वाक्षतादिभिः। रत्नैः समुद्रजैश्वान्यैर्वज्रवैडूर्यमौक्तिकैः ॥८२॥

पुष्पैः फलैः स्वकालोत्थैः खर्जूरैर्नालिकेरकैः । वस्त्राच्छादनगोवाजिभूमिहेमगजान्वितैः ॥८३॥

सत्तयुक्तस्य ऋद्धस्य राजन्नेष विधिः स्मृतः । इतरस्य यथाशक्त्या फलपुष्याक्षतोदकैः ॥८४॥

लवणं गुडं घृतं तैलं पयः कुंम्भास्तिलैः सह । अर्घेष्वेतानि शस्त्रानि शतिवृद्धया विवर्द्धयेत ‍ ॥८५॥

प्रत्यहं वर्द्धयेदर्घ्यं शशिवृद्धया नरोत्तम । एवमर्घः प्रदातव्यः शृणु मन्व्रिविधिक्रमम् ‍ ॥८६॥

नवो नवोसि मामान्ते जायमानः पुनः पुनः । व्रिरग्निसमव्रेतो वे देवानाप्यायसे विः ॥८७॥

गगनाङणसद्दीप दुग्धाब्धिमथनोद्भव । भाभासितदिन्गाभोग रमानुज नमोऽस्तु ते ॥८८॥

दत्त्वार्ध्यं द्विजराजाज तद्विपाय निवेदयेत् ‍ । निर्वर्त्यार्घ्यक्रभमिमं ततो भुञ्जीत वाग्यतः ॥८९॥

भूमिं तु भाजनं कृत्वा पद्मपव्रसमास्तृताम् ‍ । पालाशैर्मधुपवैर्वा सुरूपैर्वा शिलातले ॥९०॥

समालभ्य धरां देवीं मन्त्रेणानेन मन्व्रेवित् ‍ । त्वत्तले भोक्तुकामोऽहं देवी सर्वरसोद्भवे ॥९१॥

मदनुग्रहाय सुस्त्रादं कुर्वन्नममृतोपमम ‍ । एवं जप्त्वा च भुक्वा च शाकं पाकं गुणोत्तरम् ‍ ॥९२॥

आचम्य खान्युपालभ्य स्मृवा सोमं स्वपेद्भुवि । भोक्तव्यं तु द्वितीयायामक्षारलवणं हविः ॥९३॥

मुन्यन्नं तु तृनीयायां चतुर्थ्यां गोरसोत्तरम् ‍ । घृताक्ताः सगुडाः शस्ताः पञ्चम्यां कृशरास्सदा ॥९४॥

शस्ता भंद्रषु सर्वेषु सदाश्यामात्क तण्डुलाः प्रसाधिका घृतं गव्यं वग्यं फलमयाचितम् ‍ ॥९५

प्रातः स्नानं ततः कृत्वा संतर्प्य पिनृदेवताः । भोजयेद्‍ब्राह्यणान्भक्त्या दत्तदानान्ब्रिसर्जयेत् ‍ ॥९६॥

भृत्यबन्धुजनैः सार्द्धं पश्वाद्भुञ्जीत कामलः । एवं भदुषु सर्वेंशु व्रिमासेषु गतेषु यः ॥९७॥

करोत्येतन्नरो भक्त्या वर्षमेकममत्सरी । तस्य श्रीर्विजयश्वैव नित्यं सोमः प्रसीदति ॥९८॥

एतत्करोति या कन्या शुभं प्रान्पोति सा पतिम् ‍ । दुर्भगा सुभगा साध्वी भवत्यविधवा सदा ॥९९॥

राज्यार्थी लभते राज्यं धनार्थी लभते धनम् ‍ । पुव्रार्थी लभत पुव्रानिति प्राह प्रभाकरः ॥१००॥

योषित्कुलाधनविवाहमनोरमाणि शय्यान्नयानशयनासनशोभितानि । मद्राण्यवाप्य धनपुव्रकलव्रजानि जातिस्मरो भवति भारत भद्रकर्ता ॥१०१॥ [ ८५५ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णौधिष्टिरसंवादे भद्रोपवातव्रतनिरूपणं नाम व्रयोदशोऽध्यायः ॥१३॥

इति प्रतिपत्कल्पः समाप्तः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2016-11-11T11:52:21.6130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

spectral reflectance

  • वर्णक्रमी परावर्तकता 
  • पंक्तीय परावर्तनांक 
  • पंक्तीय परावर्तनांक 
RANDOM WORD

Did you know?

नाग आणि नागपंचमी यांचा परस्परसंबंध काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.