संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|

उत्तर पर्व - अध्याय १६७

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

तन्मे कथय देवेश येन दत्तेन मानवः । बहुपुत्रो बहुधनो बहुभृत्यश्व जायते ॥१॥

श्रीकृष्ण उवाच ॥

पुरा भारतवंशोस्मिन्त्राजासीद्धव्यवाहनः । पितृपैतामहं तेन प्राप्तं राज्यम् ‍ कंटकम् ‍ ॥२॥

नतस्यराज्येविध्वंसोनवैरिजनितंभयम् ‍ । शरीरोत्थमहाव्याधिर्नचैवांतरदाहकः ॥३॥

तस्यैवं कुर्वतो राज्यं पूर्वकर्मार्जिताशुभाम् ‍ । नास्तिभृत्यो भारसहः सर्वराज्यधुरंधरः ॥४॥

न पुत्रः प्रियकृत्कश्विन्न मंवी मधुराक्षरः । न मित्रं कार्यकरणे समर्थो न सुहृत्तथा ॥५॥

न भोज्यसमये प्राप्ते भोजनं सार्वकामिकम् ‍ । न पूगफलसंयुक्तं तांबूलं वसनं न च ॥६॥

न धनं जनसंबंधकारको रत्नसंचयः । तस्यैवं कुर्वतो राज्यमव्याहतमचेष्टितम् ‍ ॥७॥

अथैकस्मिन्दिने विप्रः पिप्पलादोऽतिविश्रुतः । आजगाम महायोगी राज्ञः पार्श्वे महाद्युतिः ॥८॥

तमागतं मुनिं दृष्ट्रवा राजपत्नी शुभावती । पाद्यार्घ्यसमदानेन सर्वथातमपूजयत् ‍ ॥९॥

ततः कथांते कस्मिंश्वित्तमुवाच शुभावती । ममवन्राज्यभेतन्नः सर्वबाधविवर्जितम् ‍ ॥१०॥

कस्मान्न भृत्याः पुत्रा वा मंत्रिमित्रादिकं द्विज । भोगावाप्तिर्न च तथा सर्वबाधाविवर्जितम् ‍ ॥११॥

पिप्पलाद उवाच । यद्येन पूर्वविहितं तदसौ प्राप्नुते फलम् ‍ । कर्मभूमिरियं राज्ञिः नातः शोचितुमर्हसि ॥१२॥

न तत्कुर्वति राजानो न दायादा न शघ्रवः । न बांधवा न मित्राणि यद्येन न पुरा कृतम् ‍ ॥१३॥

तस्माद्धवद्धिर्यद्दत्तं प्राप्तं तद्राज्यमुत्तमम् ‍ । भृत्यमित्रादिसंबधो न दत्तः प्राप्यते कुतः ॥१४॥

शुभावत्युवाच ॥

इदानीमेव विप्रर्षे कस्मात्तन्नोपदिश्यते । येन मे बहवः पुत्रा धनं भृत्या भवंति वै ॥१५॥

मंत्रोवासिद्धयोगोवाव्रतंदानमुपोषितम् ‍ । कथयस्वामलमते येन संपद्यते सुखम ॥१६॥

ततः स कथयामास पिप्पलादो द्विजोत्तमः । आपाकाख्यं महादानं सर्वसंपत्प्रदायकम् ‍ ॥१७॥

श्रद्धया कुरुशार्दूल नारी चाप्यथवा पुमान् ‍ । येन दत्तेन भाग्यानां बहूनां भाजनं भवेत् ‍ ॥१८॥

तच्छुत्वा स ददौ राजाऽऽपाकाख्यं दानमुत्तमम् ‍ । लेभे पुत्रान्पशूत्भृन्या मंत्रिमिवसुहृअज्जनात् ‍ ॥१९॥

श्रीकृष्ण उवाच ॥

आपाकाख्यं महादानं कथयामि युधिष्ठिर । दत्तेन येन कामानां पुमान्भवति भाजनम् ‍ ॥२०॥

ग्रहतारबल लब्ध्वा भागवं पूजयेच्छुभम् ‍ । वासोभिर्भृषणैश्वैव पुष्पेरगरुचंदनैः ॥२१॥

क्रुयात्तथैव सम्मानंयथा तुष्टोऽभिजायते । कुरुष्व त्वं मे भांडानि गुरुणि च लघूनि च ॥२२॥

मणिकादीनि शुभ्राणि स्थाल्यश्व सुमनोहराः । घटकाः करकाश्वैव गलंत्यः कुंडलानि च ॥२३॥

शरावादीनि पात्राणि भांडमुच्चावचं बहु । संपादय महाभाग विश्वकर्मा त्वमेव हि ॥२४॥

भार्ववोऽपि प्रयत्नेन नानाभांडान्वितं शुभम् ‍ । आपाकं कल्पयेद्दिव्यांदृष्टेन कर्मणा ॥२५॥

सहस्त्रेमेकं भांडानां स्थापयित्वा विचक्षणः । संध्याकाले वलित्वा तु दद्याच्चापि हुताशनम् ‍ ॥२६॥

रात्रौ जागरणं कुर्याद्नीतमंगलनिस्वनैः । ततःप्रभाते विमले ज्ञात्वा निर्वापितं शनैः ॥२७॥

रक्तवस्त्रैः समाच्छाद्य पुष्पमालाभिरर्चयेत् ‍ । यजमानस्ततः स्त्रात्वा शुल्कांबरधरः शुचिः ॥२८॥

हेमरौप्याणि भांडानि ताम्रलोहमयानि च । परितः स्थापयित्वा च स्वशक्त्या तानि षोडेशः ॥२९॥

पूजयित्वा प्रयत्नेन कृत्वा चापि प्रदक्षिणाम् ‍ । ब्राह्मणान्पूजयित्वा च भार्गवं पूज्य यत्नतः ॥३०॥

नार्यश्वाविधवास्तत्र समानीय प्रपूज्य च । प्रदक्षिणं ततः कृत्वा मंत्रेणानेन पूजयेत् ‍ ॥३१॥

आपाक ब्रह्मरुपोसि भांडानीमानि देहि मे । प्रदानात्ते प्रजापुष्टिः स्वर्गश्वास्तु ममाक्षयः ॥३२॥

भांडरुपाणि यान्यत्र कल्पितानि मया किल । भूत्वा सत्पात्ररुपाणि उपतिष्ठंतु ताचि मे ॥३३॥

दानमंत्रः ॥

या च यद्धांडमादत्ते तस्यै तद्दापयेत्ततः । स्वेच्छया चैव गृह्रातु न निवार्यास्तु काश्वन ॥३४॥

अनेन विधिना यस्तु दानमेतत्प्रयच्छति । विश्वकर्मा भवेत्तुष्टस्तस्य जन्मत्रयं नृप ॥३५॥

नारी च दत्त्वा सौभाग्यमतुलं प्रतिपद्यते । गृहं सर्वगुणितं भृत्यमित्रजनैर्वृतम् ‍ ॥३६॥

अवियोगं सदा भर्त्रा रुपं चानुत्तमं लभेत् ‍ । भृदानमेतान्निर्दिष्ट प्रकारेण तवानघ । भिद्यते बहुभिर्भिदैर्भूमिरेषा नरेश्वर ॥३७॥

निष्पाद्य भांडनिचयोच्चतरं प्रयत्न दापाकदानमिह या कुरुते वरस्त्री । सा पुत्रपौत्रपशुवृद्धसुखानि भुक्त्वा प्रेत्य स्वर्भर्तृसहिता सुखिना सदास्ते ॥३८॥ [ ७२७१ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे आपाकदानविधिवर्णनंनामसप्तषष्टयुत्तरशततमोऽध्यायः ॥१६७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP